सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः २)/व्याघातालंकारः (४७)

विकिस्रोतः तः
               




   

गदेतत् । तेनैव वृषगिरीन्दो तस्मै प्रददास्यमन्दमानन्दम् ॥ १३८६ ॥

 महता येन आपदां प्रभवः जन्मस्थानं यो रजोविभवः रजोगुणभूमा तेन एतत् जगत् अक्षोभि, तेनैव उक्तरजोगुणविभवेनैवेत्यर्थः । पक्षे पत्प्रभवेति छेदः प्रभवतीति प्रभवं, पदः चरणात् प्रभवं यद्रजः तद्विभवेन स्वकीयचरणपरागमहिम्नेत्यर्थः । अमन्दमानन्दं प्रददासि ॥ अत्र दुःखसाधनत्वेन प्रसिद्धस्यापत्प्रभवरजोविभवस्य श्लेषमहिम्ना चरणरजोविभवाभेदाध्यवसितस्य भगवता आनन्दसाधनताविधानाल्लक्षणसङ्गतिः ॥

 यथावा--

 त्वदनभिमुखतायां प्रागमृताय्यन्ते स्म देव ये भोगाः । त्वदभिमुखतादशायां गरळाय्यन्ते त एव ननु मनुजैः ॥ १३८७ ॥

 अत्र सुखसाधनत्वेन प्रसिद्धानां विषयोपभोगानां दुःखसाधनतानिबन्धनं पूर्वोक्तविपरीतमश्लिष्टमुपमासंकीर्णं चेति विशेषः ॥

 द्वितीयः प्रकारो यथा--

 भोगिक्ष्माभृदधीश्वरनिषेवणैर्यैर्बुधा मुमुक्षन्ते । तैरेव सदाऽभ्यस्तैरबुधास्सर्वेऽनिशं बुभुक्षन्ते ॥ ८८ ॥

 बुधाः तत्वविदः यैः भोगिक्ष्माभृदधीश्वरस्य श्रीशेषाद्रिनेतुः भगवतः निषेवणैः मुमुक्षन्ते संसारबन्धान्मोक्तुमिच्छन्ति, अबुधाः अतत्वविदः तैरेव भोगिक्ष्माभृदधीश्वरनिषेवणैरेव भोगैकप्रवणा ये क्ष्माभृदधीश्वराः भूपालश्रेष्ठाः तेषां निषेवणैरेवेति वस्तुस्थितिः । बुभुक्षन्ते सांसारिकभोगाननुभवितुमिच्छन्ति ॥ अत्र मोक्षसाधनत्वेन बुधैरुपात्तानां भोगिक्ष्माभृदधीश्वरनिषेवणानां तत्प्रतिस्पर्धिभिरबुधैस्तद्विरुद्धभोगसाधनीकरणं भोगिक्ष्माभृदित्यादिशब्दोपात्तार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमूलातिशयजीवातुकमित्यवधेयम् ॥

 यथावा--

 पद्माक्ष पुरमरीणां येनाधाक्षीस्सुदर्शनेन त्वम् । तेनैव पुरोऽरीणां संपदमावहति तव सरोजाक्षी ॥ १३८९ ॥

 हे पद्माक्ष ! अरीणां पौण्ड्रकादीनां वैरिणां पुरं वारणास्यादिकं नगरं येन सुदर्शनेन चक्रेण त्वं अधाक्षीः दहसि स्म, तेनैव सुदर्शनेनैव तव सरोजाक्षी लक्ष्मीः अरीणां वैरिणां पुरः पुरस्य संपदं आवहतीति विरोधः । परिहारस्तु तेन सुदर्शनेनैव शोभनेनालोकनेनैव पुरः स्वदर्शनात्पूर्वमेवेत्यतिशयोक्तिः। अश्रितानमिति शेषः । अरीणां अप्रस्रुतां अक्षीणामिति यावत् । 'रिङ् प्रस्रवणे' दैवादिकादस्मात्कर्तरि क्तः । अस्य स्वादित्वेन 'स्वादय ओदितः' इत्योदित्त्वे ‘ओदितश्च' इति निष्ठातस्य नत्वम् । स्यन्नं रीणं स्रुतं स्रुतम्' इत्यमरः । संपदं श्रियं आवहतीति ॥ अत्र भगवता अरिपुरदहने साधनतया स्वीकृतस्य सुदर्शनस्य एतत्प्रतिद्वन्द्विन्या श्रिया तद्विरुद्धसंपत्तिदानसाधनीकरणं श्लेषमूलातिशयेन निबद्धम् ॥  यथावा--

 असमविलोकनधाम्ना प्रद्युम्नं प्लुष्यति स्म पुरवैरी । तेनैव वृषाद्रिपतिः प्रद्युम्नं पुष्यतीह मुरवैरी ॥ १३९० ॥

 पुरवैरी रुद्रः असमस्य विषमस्य तृतीयस्येत्यर्थः, विलोकनस्य विलोचनस्य धाम्ना तेजसा अग्निनेति यावत् । प्रद्युम्नं स्मरं प्लुष्यति स्म अधाक्षीत् । ‘प्लुष दाहे' दैवादिकः । वृषाद्रिपतिः तेनैव असमविलोचनधाम्नैव असमेन असदृशेन विलोचनधाम्ना नयनत्विषा कटाक्षेणेति यावत्, इति वस्तुस्थितिः । प्रद्युम्नं स्मरं प्रकृष्टं हिरण्यं विभवमित्यर्थः । 'हिरण्यं द्रविणं द्युम्नम्’ इत्यमरः । पुष्यति पुष्णाति । ‘पुष पुष्टौ’ दैवादिकः । आश्रितानामिति शेषः ॥ अत्र प्रद्युम्नप्लोषणे पुरवैरिणा साधनीकृतस्यासमावलोकनधाम्न एव तत्प्रतिद्वन्द्विना मुरवैरिणा तत्पोषणसाधनीकरणम् । अन्यत्प्राग्वत् ॥


द्वितीयव्याघातः.

पराभिमतकार्यस्य विरुद्धा केन चित्क्रिया ।
सौकर्यतो निबद्धा चेद्व्याघातस्सोऽपि कथ्यते ॥

 कार्यविशेषनिष्पादकतया केनचित्संभाव्यमानादर्थादन्येन सुकरतया कार्यविरोधिनी क्रिया समर्थ्यते चेत्सोऽपि व्याघातः । कार्यविरोधिक्रियायां सौकर्यं कारणस्य सुतरां तदानुगुण्यम् ॥

 यथा--

 मूढ इति यद्युपेक्षा तत एव हरेऽस्तु मय्यनु- जिघृक्षा । हन्त स्त्रियोऽनुकम्प्या दीना मूढाश्च जन्तवो हि सताम् ॥ १३९१ ॥

 हे हरे! अत्र भगवता उपेक्षायां यन्मूढत्वं कारणत्वेन संभावितं तत् प्रत्युत तद्विरुद्धानुजिघृक्षाया एव कारणतया ‘स्त्रियोऽनुकम्प्यास्साधूनां दाना मूढाश्च जन्तवः’ इति प्रमाणार्थमुपन्यस्य तद्युक्ततां स्थापयता कविना समर्थ्यत इत्ययं द्वितीयो व्याघातः ॥

 यथावा

 मूर्ख इति यदि जहासि त्वं मामनुरुन्त्स्व नाथ तत एव । रक्षन्ति हि वशयन्तो मूर्खं छन्दानुरोधतः प्राज्ञाः ॥ १३९२ ॥

 अत्रापि पूर्ववदेव भगवता भक्तस्य परित्यागं यन्मूर्खत्वं कारणतया संभावितं तत् प्रत्युत तद्विरुद्धानुवर्तनस्यैव कारणतया ‘मूर्खं छन्दानुरोधेन' इति नीतिप्रदर्शनेन तदौचित्यं स्थापयता कविना समर्थ्यते ॥

इत्यलङ्कारमणिहारे व्याघातालङ्कारसरस्सप्तचत्वारिंशः.


 एवं श्लेषातिशयोक्त्याद्युपायोन्मिषितेन किञ्चिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदनुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता निरूपिता अलङ्काराः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिक्ताः काञ्चनस्येव कङ्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्भूयसी स्याद्वैयग्रीति परस्परच्छायामात्रानुसारिणो भिन्नविच्छित्तयो भिन्ना एवेत्यपरे ॥