सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ।। ०९.५.०१ ।।

 तस्मादापदः सम्भवन्ति ।। ०९.५.०२ ।।

 बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ।। ०९.५.०३ ।।

 यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ।। ०९.५.०४ ।।

 सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ।। ०९.५.०५ ।।

 तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ।। ०९.५.०६ ।।

 कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ।। ०९.५.०७ ।।

 महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ।। ०९.५.०८ ।।

 अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ।। ०९.५.०९ ।।

 स्थान-मान-कर्म सान्त्वं ।। ०९.५.१० ।।

 अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ।। ०९.५.११ ।।

 बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.१२ ।।

 सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ।। ०९.५.१३ ।।

 दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ।। ०९.५.१४ ।।

 दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ।। ०९.५.१५ ।।

 आहूय वा बाह्यान्घातयेयुः ।। ०९.५.१६ ।।

 यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ।। ०९.५.१७ ।।

 दोष-शुद्धौ हि दूष्या न विद्यन्ते ।। ०९.५.१८ ।।

 दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ।। ०९.५.१९ ।।

 तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ।। ०९.५.२० ।।

 सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ।। ०९.५.२१ ।।

 प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ।। ०९.५.२२ ।।

 ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ।। ०९.५.२३ ।।

 अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ।। ०९.५.२४ ।।

 तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ।। ०९.५.२५ ।।

 शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ।। ०९.५.२६ ।।

 मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ।। ०९.५.२७ ।।

 परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ।। ०९.५.२८ ।।

 दाण्डकर्मिकवच्च दण्डः ।। ०९.५.२९ ।।

 एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ।। ०९.५.३० ।।

 अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ।। ०९.५.३१ ।।

 पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ।। ०९.५.३२अ ब ।।

 उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ।। ०९.५.३२च्द् ।।