अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 युग्य-पुरुष-अपचयः क्षयः ।। ०९.४.०१ ।।

 हिरण्य-धान्य-अपचयो व्ययः ।। ०९.४.०२ ।।

 ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ।। ०९.४.०३ ।।

 आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ।। ०९.४.०४ ।।

 सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ।। ०९.४.०५ ।।

 विपर्यये प्रत्यादेयः ।। ०९.४.०६ ।।

 तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ।। ०९.४.०७ ।।

 यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ।। ०९.४.०८ ।।

 इत्यादेय-प्रत्यादेयौ व्याख्यातौ ।। ०९.४.०९ ।।

 अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ।। ०९.४.१० ।।

 विपरीतः प्रकोपक इति ।। ०९.४.११ ।।

 मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ।। ०९.४.१२ ।।

 दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ।। ०९.४.१३ ।।

 विपरीतः प्रसादकः ।। ०९.४.१४ ।।

 इति प्रसादक-कोपकौ व्याख्यातौ ।। ०९.४.१५ ।।

 गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ।। ०९.४.१६ ।।

 मन्त्र-साध्यत्वात्तनु-क्षयः ।। ०९.४.१७ ।।

 भक्त-मात्र-व्ययत्वादल्प-व्ययह् ।। ०९.४.१८ ।।

 तदात्व-वैपुल्यान्महान् ।। ०९.४.१९ ।।

 अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ।। ०९.४.२० ।।

 निराबाधकत्वात्कल्यः ।। ०९.४.२१ ।।

 प्रशस्त-उपादानाद्धर्म्यः ।। ०९.४.२२ ।।

 सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ।। ०९.४.२३ ।।

 तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ।। ०९.४.२४ ।।

 लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ।। ०९.४.२५ ।।

 नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ।। ०९.४.२६अ ब ।।

 अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ।। ०९.४.२६च्द् ।।

 नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ।। ०९.४.२७अ ब ।।

 अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ।। ०९.४.२७च्द् ।।