अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ।। ०९.३.०१ ।।

 अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ।। ०९.३.०२ ।।

 लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ।। ०९.३.०३ ।।

 तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ।। ०९.३.०४ ।।

 सूची-मुखा ह्यनर्था इति लोक-प्रवादः ।। ०९.३.०५ ।।

 पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ।। ०९.३.०६ ।।

 पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ।। ०९.३.०७ ।।

 बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ।। ०९.३.०८ ।।

 अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ।। ०९.३.०९ ।।

 अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ।। ०९.३.१० ।।

 अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ।। ०९.३.११ ।।

 मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ।। ०९.३.१२ ।।

 तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ।। ०९.३.१३ ।।

 महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ।। ०९.३.१४ ।।

 पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ।। ०९.३.१५ ।।

 अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ।। ०९.३.१६ ।।

 तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ।। ०९.३.१७ ।।

 अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ।। ०९.३.१८ ।।

 एतेन मन्त्र-सेना-पती व्याख्यातौ ।। ०९.३.१९ ।।

 मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ।। ०९.३.२० ।।

 तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ।। ०९.३.२१ ।।

 राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ।। ०९.३.२२ ।।

 तं अन्योन्येनावग्राहयेत् ।। ०९.३.२३ ।।

 अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ।। ०९.३.२४ ।।

 मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ।। ०९.३.२५ ।।

 अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ।। ०९.३.२६ ।।

 प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ।। ०९.३.२७ ।।

 मित्रं उपकृष्टं वाअस्य गच्छ" इति ।। ०९.३.२८ ।।

 प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ।। ०९.३.२९ ।।

 अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ।। ०९.३.३० ।।

 सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ।। ०९.३.३१ ।।

 सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ।। ०९.३.३२ ।।

 तेन प्रणिहितान्सत्त्री ब्रूयात् ।। ०९.३.३३ ।।

 इति सिद्धिः ।। ०९.३.३४ ।।

 परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ।। ०९.३.३५ ।।

 यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ।। ०९.३.३६ ।।

 यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ।। ०९.३.३७ ।।

 शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ।। ०९.३.३८ ।।

 अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ।। ०९.३.३९ ।।

 कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ।। ०९.३.४० ।।

 कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ।। ०९.३.४१ ।।

 एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ।। ०९.३.४२अ ब ।।

 रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ।। ०९.३.४२च्द् ।।