अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः २
← अध्यायः १ | अर्थशास्त्रम् अध्यायः २ कौटिलीय: |
अध्यायः ३ → |
मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ।। ०९.२.०१ ।।
मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ।। ०९.२.०२ ।।
"प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण्" "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ।। ०९.२.०३ ।।
"प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण्" ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ।। ०९.२.०४ ।।
"प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण्" "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ।। ०९.२.०५ ।।
"प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण्" "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ।। ०९.२.०६ ।।
तेनाटवी-बल-कालो व्याख्यातः ।। ०९.२.०७ ।।
मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ।। ०९.२.०८ ।।
सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ।। ०९.२.०९ ।।
तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ।। ०९.२.१० ।।
अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ।। ०९.२.११ ।।
परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ।। ०९.२.१२ ।।
पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ।। ०९.२.१३ ।।
तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ।। ०९.२.१४ ।।
नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ।। ०९.२.१५ ।।
जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ।। ०९.२.१६ ।।
अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ।। ०९.२.१७ ।।
आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ।। ०९.२.१८ ।।
तदुभयं विलोप-अर्थं ।। ०९.२.१९ ।।
अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ।। ०९.२.२० ।।
"ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम्" इत्याचार्याः ।। ०९.२.२१ ।।
नैति कौटिल्यः ।। ०९.२.२२ ।।
प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ।। ०९.२.२३ ।।
प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ।। ०९.२.२४ ।।
तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ।। ०९.२.२५ ।।
हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ।। ०९.२.२६ ।।
तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ।। ०९.२.२७ ।।
तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ।। ०९.२.२८ ।।
कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ।। ०९.२.२९ ।।
एवं बल-समुद्दानं पर-सैन्य-निवारणं । ।। ०९.२.३०अ ब ।।
विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ।। ०९.२.३०च्द् ।।