अर्थशास्त्रम्/अधिकरणम् ९/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:
अध्यायः ७ →

 दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ।। ०९.६.०१ ।।

 दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ।। ०९.६.०२ ।।

 दण्डो हि महा-जने क्षेप्तुं अशक्यः ।। ०९.६.०३ ।।

 क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ।। ०९.६.०४ ।।

 मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ।। ०९.६.०५ ।।

 शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ।। ०९.६.०६ ।।

 स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ।। ०९.६.०७ ।।

 दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ।। ०९.६.०८ ।।

 आमिश्रायां अदूष्यतः सिद्धिः ।। ०९.६.०९ ।।

 आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ।। ०९.६.१० ।।

 मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ।। ०९.६.११ ।।

 पर-मिश्रायां मित्रतः सिद्धिः ।। ०९.६.१२ ।।

 सुकरो हि मित्रेण संधिः । नामित्रेणैति ।। ०९.६.१३ ।।

 मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ।। ०९.६.१४ ।।

 ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ।। ०९.६.१५ ।।

 मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ।। ०९.६.१६ ।।

 अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ।। ०९.६.१७ ।।

 मध्य-स्थायिनं वा लभेत ।। ०९.६.१८ ।।

 मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ।। ०९.६.१९ ।।

 यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ।। ०९.६.२० ।।

 धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ।। ०९.६.२१ ।।

 निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ।। ०९.६.२२ ।।

 लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ।। ०९.६.२३ ।।

 तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ।। ०९.६.२४ ।।

 इति दान-कर्म ।। ०९.६.२५ ।।

 परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ।। ०९.६.२६ ।।

 भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ।। ०९.६.२७ ।।

 यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ।। ०९.६.२८ ।।

 बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ।। ०९.६.२९ ।।

 ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ।। ०९.६.३० ।।

 शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ।। ०९.६.३१ ।।

 तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ।। ०९.६.३२ ।।

 ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ।। ०९.६.३३ ।।

 महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ।। ०९.६.३४ ।।

 अथएकं अमात्यं निष्पातयेत् ।। ०९.६.३५ ।।

 तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ।। ०९.६.३६ ।।

 अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ।। ०९.६.३७ ।।

 ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ।। ०९.६.३८ ।।

 अशक्तिमतो वा ग्राहयेत् ।। ०९.६.३९ ।।

 आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ।। ०९.६.४० ।।

 अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ।। ०९.६.४१ ।।

 उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ।। ०९.६.४२ ।।

 ततः सत्त्रिणः परेषु ग्राहयेयुः ।। ०९.६.४३ ।।

 एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ।। ०९.६.४४ ।।

 इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ।। ०९.६.४५ ।।

 यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ।। ०९.६.४६ ।।

 ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ।। ०९.६.४७ ।।

 तदुभय-वेतना ग्राहयेयुः ।। ०९.६.४८ ।।

 भिन्नेष्वन्यतमं लभेत ।। ०९.६.४९ ।।

 तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ।। ०९.६.५० ।।

 सांधिकं च भेदं प्रयुञ्जीत ।। ०९.६.५१ ।।

 इति भेद-कर्म ।। ०९.६.५२ ।।

 तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ।। ०९.६.५३ ।।

 तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ।। ०९.६.५४ ।।

 अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ।। ०९.६.५५ ।।

 इत्युपाय-चतुर्-वर्गः ।। ०९.६.५६ ।।

 पूर्वः पूर्वश्चास्य लघिष्ठः ।। ०९.६.५७ ।।

 सान्त्वं एक-गुणं ।। ०९.६.५८ ।।

 दानं द्वि-गुणं सान्त्व-पूर्वं ।। ०९.६.५९ ।।

 भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ।। ०९.६.६० ।।

 दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ।। ०९.६.६१ ।।

 इत्यभियुञ्जानेषुउक्तं ।। ०९.६.६२ ।।

 स्व-भूमिष्ठेषु तु त एवौपायाः ।। ०९.६.६३ ।।

 विशेषस्तु ।। ०९.६.६४ ।।

 स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ।। ०९.६.६५ ।।

 त एनं संधौ पर-हिंसायां वा योजयेयुः ।। ०९.६.६६ ।।

 अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ।। ०९.६.६७ ।।

 तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ।। ०९.६.६८ ।।

 यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ।। ०९.६.६९ ।।

 आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ।। ०९.६.७० ।।

 सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ।। ०९.६.७१ ।।

 परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ।। ०९.६.७२ ।।

 वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ।। ०९.६.७३अ ब ।।

 घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ।। ०९.६.७३च्द् ।।