अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८ अर्थशास्त्रम्
अध्यायः ९
कौटिलीय:
अध्यायः १० →

 संहित-प्रयाणे मित्र-हिरण्य-भूमि-लाभानां उत्तर-उत्तरो लाभः श्रेयान् ।। ०७.९.०१ ।।

 मित्र-हिरण्ये हि भूमि-लाभाद्भवतः । मित्रं हिरण्य-लाभात् ।। ०७.९.०२ ।।

 यो वा लाभः सिद्धः शेषयोरन्यतरं साधयति ।। ०७.९.०३ ।।

 "त्वं चाहं च मित्रं लभावहे" इत्येवं-आदिध्सम-संधिः ।। ०७.९.०४ ।।

 "त्वं मित्रम्" इत्येवं-आदिर्विषम-संधिः ।। ०७.९.०५ ।।

 तयोर्विशेष-लाभादतिसंधिः ।। ०७.९.०६ ।।

 सम-संधौ तु यः सम्पन्नं मित्रं मित्र-कृच्छ्रे वा मित्रं अवाप्नोति सोअतिसंधत्ते ।। ०७.९.०७ ।।

 आपद्द्हि सौहृद-स्थैर्यं उत्पादयति ।। ०७.९.०८ ।।

 मित्र-कृच्छ्रेअपि नित्यं अवश्यं अनित्यं वश्यं वाइति "नित्यं अवश्यं श्रेयः । तद्द्हि अनुपकुर्वदपि नापकरोति" इत्याचार्याः ।। ०७.९.०९ ।।

 नैति कौटिल्यः ।। ०७.९.१० ।।

 वश्यं अनित्यं श्रेयः ।। ०७.९.११ ।।

 यावदुपकरोति तावन्मित्रं भवति । उपकार-लक्षणं मित्रं इति ।। ०७.९.१२ ।।

 वश्ययोरपि महा-भोगं अनित्यं अल्प-भोगं वा नित्यं इति महा-भोगं अनित्यं श्रेयः । महा-भोगं अनित्यं अल्प-कालेन महद्-उपकुर्वन्महान्ति व्यय-स्थानानि प्रतिकरोति" इत्याचार्याः ।। ०७.९.१३ ।।

 नैति कौटिल्यः ।। ०७.९.१४ ।।

 नित्यं अल्प-भोगं श्रेयः ।। ०७.९.१५ ।।

 महा-भोगं अनित्यं उपकार-भयादपक्रामति । उपकृत्य वा प्रत्यादातुं ईहते ।। ०७.९.१६ ।।

 नित्यं अल्प-भोगं सातत्यादल्पं उपकुर्वन्महता कालेन महदुपकरोति ।। ०७.९.१७ ।।

 गुरु-समुत्थं महन्मित्रं लघु-समुत्थं अल्पं वाइति "गुरु-समुत्थं महन्मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.१८ ।।

 नैति कौटिल्यः ।। ०७.९.१९ ।।

 लघु-समुत्थं अल्पं श्रेयः ।। ०७.९.२० ।।

 लगु-समुत्थं अल्पं मित्रं कार्य-कालं नातिपातयति दौर्बल्याच्च यथा-इष्ट-भोग्यं भवति । नैतरत्प्रकृष्ट-भौमं ।। ०७.९.२१ ।।

 विक्षिप्त-सैन्यं अवश्य-सैन्यं वाइति "विक्षिप्तं सैन्यं शक्यं प्रतिसंहर्तुं वश्यत्वाद्" इत्याचार्याः ।। ०७.९.२२ ।।

 नैति कौटिल्यः ।। ०७.९.२३ ।।

 अवश्य-सैन्यं श्रेयः ।। ०७.९.२४ ।।

 अवश्यं हि शक्यं साम-आदिभिर्वश्यं कर्तुम् । नैतरत्कार्य-व्यासक्तं प्रतिसंहर्तुं ।। ०७.९.२५ ।।

 पुरुष-भोगं हिरण्य-भोगं वा मित्रं इति "पुरुष-भोगं मित्रं श्रेयः । प्रुष-भोगं मित्रं प्रताप-करं भवति । यदा चौत्तिष्ठते तदा कार्यं साधयति" इत्याचार्याः ।। ०७.९.२६ ।।

 नैति कौटिल्यः ।। ०७.९.२७ ।।

 हिरण्य-भोगं मित्रं श्रेयः ।। ०७.९.२८ ।।

 नित्यो हि हिरण्येन योगः कदाचिद्दण्डेन ।। ०७.९.२९ ।।

 दण्डश्च हिरण्येनान्ये च कामाः प्राप्यन्त इति ।। ०७.९.३० ।।

 हिरण्य-भोगं भूमि-भोगं वा मित्रं इति "हिरण्य-भोगं गतिमत्त्वात्सर्व-व्यय-प्रतीकार-करम्" इत्याचार्याः ।। ०७.९.३१ ।।

 नैति कौटिल्यः ।। ०७.९.३२ ।।

 मित्र-हिरण्ये हि भूमि-लाभाद्भवत इत्युक्तं पुरस्ताड ।। ०७.९.३३ ।।

 तस्माद्भूमि-भोगं मित्रं श्रेय इति ।। ०७.९.३४ ।।

 तुल्ये पुरुष-भोगे विक्रमः क्लेश-सहत्वं अनुरागः सर्व-बल-लाभो वा मित्र-कुलाद्विशेषः ।। ०७.९.३५ ।।

 तुल्ये हिरण्य-भोगे प्रार्थित-अर्थता प्राभूत्यं अल्प-प्रयसता सातत्यं च विशेषः ।। ०७.९.३६ ।।

 तत्रएतद्भवति ।। ०७.९.३७ ।।

 नित्यं वश्यं लघु-उत्थानं पितृ-पैतामहं महत् । ।। ०७.९.३८अ ब ।।

 अद्वैध्यं चैति सम्पन्नं मित्रं षड्-गुणं उच्यते ।। ०७.९.३८च्द् ।।

 ऋते यदर्थं प्रणयाद्रक्ष्यते यच्च रक्षति । ।। ०७.९.३९अ ब ।।

 पूर्व-उपचित-सम्बन्धं तन्मित्रं नित्यं उच्यते ।। ०७.९.३९च्द् ।।

 सर्व-चित्र-महा-भोगं त्रिविधं वश्यं उच्यते । ।। ०७.९.४०अ ब ।।

 एकतो-भोग्युभयतः सर्वतो-भोगि चापरं ।। ०७.९.४०च्द् ।।

 आदातृ वा दात्र्-अपि वा जीवत्यरिषु हिंसया । ।। ०७.९.४१अ ब ।।

 मित्रं नित्यं अवश्यं तद्-दुर्ग-अटव्य्-अपसारि च ।। ०७.९.४१च्द् ।।

 अन्यतो विगृहीतं यल्लघु-व्यसनं एव वा । ।। ०७.९.४२अ ब ।।

 संधत्ते चौपकाराय तन्मित्रं वश्यं अध्रुवं ।। ०७.९.४२च्द् ।।

 एक-अर्थेनाथ सम्बद्धं उपकार्य-विकारि च । ।। ०७.९.४३अ ब ।।

 मित्र-भावि भवत्येतन्मित्रं अद्वैध्यं आपदि ।। ०७.९.४३च्द् ।।

 मित्र-भावाद्ध्रुवं मित्रं शत्रु-साधारणाच्चलं । ।। ०७.९.४४अ ब ।।

 न कस्यचिदुदासीनं द्वयोरुभय-भावि तत् ।। ०७.९.४४च्द् ।।

 विजिगीषोरमित्रं यन्मित्रं अन्तर्धितां गतं । ।। ०७.९.४५अ ब ।।

 उपकारेअनिविष्टं वाअशक्तं वाअनुपकारि तत् ।। ०७.९.४५च्द् ।।

 प्रियं परस्य वा रक्ष्यं पूज्यं सम्बद्धं एव वा । ।। ०७.९.४६अ ब ।।

 अनुगृह्णाति यन्मित्रं शत्रु-साधारणं हि तत् ।। ०७.९.४६च्द् ।।

 प्रकृष्ट-भौमं संतुष्टं बलवच्चऽलसं च यत् । ।। ०७.९.४७अ ब ।।

 उदासीनं भवत्येतद्व्यसनादवमानितं ।। ०७.९.४७च्द् ।।

 अरेर्नेतुश्च यद्वृद्धिं दौर्बल्यादनुवर्तते । ।। ०७.९.४८अ ब ।।

 उभयस्याप्यविद्विष्टं विद्यादुभय-भावि तत् ।। ०७.९.४८च्द् ।।

 कारण-अकारण-ध्वस्तं कारण-अकारण-आगतं । ।। ०७.९.४९अ ब ।।

 यो मित्रं समुपेक्षेत स मृत्युं उपगूहति ।। ०७.९.४९च्द् ।।

 क्षिप्रं अल्पो लाभश्चिरान्महानिति वा "क्षिप्रं अल्पो लाभः कार्य-देश-काल-संवादकः श्रेयान्" इत्याचार्याः ।। ०७.९.५० ।।

 नैति कौटिल्यः ।। ०७.९.५१ ।।

 चिरादविनिपाती बीज-सधर्मा महाम्ल्लाभः श्रेयान् । विपर्यये पूर्वः ।। ०७.९.५२ ।।

 एवं दृष्ट्वा ध्रुवे लाभे लाभ-अंशे च गुण-उदयं । ।। ०७.९.५३अ ब ।।

 स्व-अर्थ-सिद्धि-परो यायात्संहितः सामवायिकैः ।। ०७.९.५३च्द् ।।