अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ अर्थशास्त्रम्
अध्यायः १०
कौटिलीय:
अध्यायः ११ →

 "त्वं चाहं च भूमिं लभावहे" इति भूमि-संधिः ।। ०७.१०.०१ ।।

 तयोर्यः प्रत्युपस्थित-अर्थः सम्पन्नां भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०२ ।।

 तुल्ये सम्पन्न-अलाभे यो बलवन्तं आक्रम्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०३ ।।

 भूमि-लाभं शत्रु-कर्शनं प्रतापं च हि प्राप्नोति ।। ०७.१०.०४ ।।

 दुर्बलाद्-भूमि-लाभे सत्यं सौकर्यं भवति ।। ०७.१०.०५ ।।

 दुर्बल एव च भूमि-लाभः । तत्-सामन्तश्च मित्रं अमित्र-भावं गच्छति ।। ०७.१०.०६ ।।

 तुल्ये बलीयस्त्वे यः स्थित-शत्रुं उत्पाट्य भूमिं अवाप्नोति सोअतिसंधत्ते ।। ०७.१०.०७ ।।

 दुर्ग-अवाप्तिर्हि स्व-भूमि-रक्षणं अमित्र-अटवी-प्रतिषेधं च करोति ।। ०७.१०.०८ ।।

 चल-अमित्राद्-भूमि-लाभे शक्य-सामन्ततो विशेषः ।। ०७.१०.०९ ।।

 दुर्बल-सामन्ता हि क्षिप्र-आप्यायन-योग-क्षेमा भवति ।। ०७.१०.१० ।।

 विपरीता बलवत्सामन्ता कोश-दण्ड-अवच्छेदनी च भूमिर्भवति ।। ०७.१०.११ ।।

 सम्पन्ना नित्य-अमित्रा मन्द-गुणा वा भूमिरनित्य-अमित्राइति "सम्पन्ना नित्य-अमित्रा श्रेयसी भूमिः सम्पन्ना हि कोश-दण्डौ सम्पादयति । तौ चामित्र-प्रतिघातकौ इत्याचार्याः ।। ०७.१०.१२ ।।

 नैति कौटिल्यः ।। ०७.१०.१३ ।।

 नित्य-अमित्र-अलाभे भूयान्शत्रु-लाभो भवति ।। ०७.१०.१४ ।।

 नित्यश्च शत्रुरुपकृते चापकृते च शत्रुरेव भवति । अनित्यस्तु शत्रुरुपकारादनपकाराद्वा शाम्यति ।। ०७.१०.१५ ।।

 यस्या हि भूमेर्बहु-दुर्गाश्चोर-गणैर्म्लेच्छ-अटवीभिर्वा नित्य-अविरहिताः प्रत्यन्ताः सा नित्य-अमित्रा । विपर्यये त्वनित्य-अमित्रा ।। ०७.१०.१६ ।।

 अल्पा प्रत्यासन्ना महती व्यवहिता वा भूमिरिति अल्पा प्रत्यासन्ना श्रेयसी ।। ०७.१०.१७ ।।

 सुखा हि प्राप्तुं पालयितुं अभिसारयितुं च भवति ।। ०७.१०.१८ ।।

 विपरीता व्यवहिता ।। ०७.१०.१९ ।।

 व्यवहितयोरपि दण्ड-धारणाआत्म-धारणा वा भूमिरिति आत्म-धारणा श्रेयसी ।। ०७.१०.२० ।।

 सा हि स्व-समुत्थाभ्यां कोश-दण्डाभ्यां धार्यते ।। ०७.१०.२१ ।।

 विपरीता दण्ड-धारणा दण्ड-स्थानं ।। ०७.१०.२२ ।।

 बालिशात्प्राज्ञाद्वा भूमि-लाभ इति बालिशाद्-भूमि-लाभः श्रेयान् ।। ०७.१०.२३ ।।

 सुप्राप्याअनुपाल्या हि भवति । अप्रत्यादेया च ।। ०७.१०.२४ ।।

 विपरीता प्राज्ञादनुरक्ता ।। ०७.१०.२५ ।।

 पीडनीय-उच्छेदनीययोरुच्छेदनीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२६ ।।

 उच्छेदनीयो ह्यनपाश्रयो दुर्बल-अपाश्रयो वाअभियुक्तः कोश-दण्डावादायापसर्तु-कामः प्रकृतिभिस्त्यज्यते । न पीडनीयो दुर्ग-मित्र-प्रतिष्टब्धः ।। ०७.१०.२७ ।।

 दुर्ग-प्रतिष्टब्धयोरपि स्थल-नदी-दुर्गीयाभ्यां स्थल-दुर्गीयाद्भूमि-लाभः श्रेयान् ।। ०७.१०.२८ ।।

 स्थालेयं हि सुरोध-अवमर्द-अवस्कन्दं अनिह्श्रावि-शत्रु च ।। ०७.१०.२९ ।।

 नदी-दुर्गं तु द्वि-गुण-क्लेश-करम् । उदकं च पातव्यं वृत्ति-करं चामित्रस्य ।। ०७.१०.३० ।।

 नदी-पर्वत-दुर्गीयाभ्यां नदी-दुर्गीयाद्ब्भूमि-लाभः श्रेयान् ।। ०७.१०.३१ ।।

 नदी-दुर्गं हि हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौभिः साध्यं अनित्य-गाम्भीर्यं अवस्राव्युदकं च ।। ०७.१०.३२ ।।

 पार्वतं तु स्व्-आरक्षं दुरुपरोधि कृच्छ्र-आरोहणम् । भग्ने चएकस्मिन्न सर्व-वधः । शिला-वृक्ष-प्रमोक्षश्च महा-अपकारिणां ।। ०७.१०.३३ ।।

 निम्न-स्थल-योधिभ्यो निम्न-योधिभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३४ ।।

 निम्न-योधिनो ह्युपरुद्ध-देश-कालाः । स्थल-योधिनस्तु सर्व-देश-काल-योधिनः ।। ०७.१०.३५ ।।

 खनक-आकाश-योधिभ्यः खनकेभ्यो भूमि-लाभः श्रेयान् ।। ०७.१०.३६ ।।

 खनका हि खातेन शस्त्रेण चौभयथा युध्यन्ते । शस्त्रेणएवऽकाश-योधिनः ।। ०७.१०.३७ ।।

 एवं-विध्येभ्यः पृथिवीं लभमानोअर्थ-शास्त्रवित् । ।। ०७.१०.३८अ ब ।।

 संहितेभ्यः परेभ्यश्च विशेषं अधिगच्छति ।। ०७.१०.३८च्द् ।।