अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० अर्थशास्त्रम्
अध्यायः ११
कौटिलीय:
अध्यायः १२ →

 "त्वं चाहं च शून्यं निवेशयावहे" इत्यनवसित-संधिः ।। ०७.११.०१ ।।

 तयोर्यः प्रत्युपस्थित-अर्थो यथा-उक्त-गुणां भूमिं निवेशयति सोअतिसंधत्ते ।। ०७.११.०२ ।।

 तत्रापि स्थलं औदकं वाइति महतः स्थलादल्पं औदकं श्रेयः । सातत्यादवस्थितत्वाच्च फलानां ।। ०७.११.०३ ।।

 स्थलयोरपि प्रभूत-पूर्व-अपर-सस्यं अल्प-वर्ष-पाकं असक्त-आरम्भं श्रेयः ।। ०७.११.०४ ।।

 औदकयोरपि धान्य-वापं अधान्य-वापात्श्रेयः ।। ०७.११.०५ ।।

 तयोरल्प-बहुत्वे धान्य-कान्तादल्पान्महदधान्य-कान्तं श्रेयः ।। ०७.११.०६ ।।

 महत्यवकाशे हि स्थाल्याश्चानूप्याश्चओषधयो भवन्ति ।। ०७.११.०७ ।।

 दुर्ग-आदीनि च कर्माणि प्रभूत्येन क्रियन्ते ।। ०७.११.०८ ।।

 कृत्रिमा हि भूमि-गुणाः ।। ०७.११.०९ ।।

 खनि-धान्य-भोगयोः खनि-भोगः कोश-करः । धान्य-भोगः कोश-कोष्ठ-अगार-करः ।। ०७.११.१० ।।

 धान्य-मूला हि दुर्ग-आदीनां कर्मणां आरम्भाः ।। ०७.११.११ ।।

 महा-विषय-विक्रयो वा खनि-भोगः श्रेयान् ।। ०७.११.१२ ।।

 "द्रव्य-हस्ति-वन-भोगयोर्द्रव्य-वन-भोगः सर्व-कर्मणां योनिः प्रभूत-निधान-क्षमश्च । विपरीतो हस्ति-वन-भोगः" इत्याचार्याः ।। ०७.११.१३ ।।

 नैति कौटिल्यः ।। ०७.११.१४ ।।

 शक्यं द्रव्य-वनं अनेकं अनेकस्यां भूमौ वापयितुम् । न हस्ति-वनं ।। ०७.११.१५ ।।

 हस्ति-प्रधानो हि पर-अनीक-वध इति ।। ०७.११.१६ ।।

 वारि-स्थल-पथ-भोगयोरनित्यो वारि-पथ-भोगः । नित्यः स्थल-पथ-भोगः ।। ०७.११.१७ ।।

 भिन्न-मनुष्या श्रेणी-मनुष्या वा भूमिरिति भिन्न-मनुष्या श्रेयसी ।। ०७.११.१८ ।।

 भिन्न-मनुष्या भोग्या भवति । अनुपजाप्या चान्येषाम् । अनापत्-सहा तु ।। ०७.११.१९ ।।

 विपरीता श्रेणी-मनुष्या । कोपे महा-दोषा ।। ०७.११.२० ।।

 तस्यां चातुर्वर्ण्य-निवेशे सर्व-भोग-सहत्वादवर-वर्ण-प्राया श्रेयसी । बाहुल्याद्ध्रुवत्वाच्च कृष्याः कर्षकवती । कृष्याश्चान्येषां चऽरम्भाणां प्रयोजकत्वात्गो-रक्षकवती । पण्य-निचय-ऋण-अनुग्रहादाढ्य-वणिग्वती ।। ०७.११.२१ ।।

 भूमि-गुणानां अपाश्रयः श्रेयान् ।। ०७.११.२२ ।।

 दुर्ग-अपाश्रया पुरुष-अपाश्रया वा भूमिरिति पुरुष-अपाश्रया श्रेयसी ।। ०७.११.२३ ।।

 पुरुषवद्धि राज्यं ।। ०७.११.२४ ।।

 अपुरुषा गौर्वन्ध्येव किं दुहीत ।। ०७.११.२५ ।।

 महा-क्षय-व्यय-निवेशां तु भूमिं अवाप्तु-कामः पूर्वं एव क्रेतारं पणेत दुर्बलं अराज-बीजिनं निरुत्साहं अपक्षं अन्याय-वृत्तिं व्यसनिनं दैव-प्रमाणं यत्-किंचन-कारिणं वा ।। ०७.११.२६ ।।

 महा-क्षय-व्यय-निवेशायां हि भूमौ दुर्बलो राज-बीजी निविष्टः सगन्धाभिः प्रकृतिभिः सह क्षय-व्ययेनावसीदति ।। ०७.११.२७ ।।

 बलवानराज-बीजी क्षय-व्यय-भयादसगन्धाभिः प्रकृतिभिस्त्यज्यते ।। ०७.११.२८ ।।

 निरुत्साहस्तु दण्डवानपि दण्डस्याप्रणेता सदण्डः क्षय-व्ययेनावभज्यते ।। ०७.११.२९ ।।

 कोशवानप्यपक्षः क्षय-व्यय-अनुग्रह-हीनत्वान्न कुतश्चित्प्राप्नोति ।। ०७.११.३० ।।

 अन्याय-वृत्तिर्निविष्टं अप्युत्थापयेत् ।। ०७.११.३१ ।।

 स कथं अनिविष्टं निवेशयेत् ।। ०७.११.३२ ।।

 तेन व्यसनी व्याख्यातः ।। ०७.११.३३ ।।

 दैव-प्रमाणो मानुष-हीनो निरारम्भो विपन्न-कर्म-आरम्भो वाअवसीदति ।। ०७.११.३४ ।।

 यत्-किंचन-कारी न किंचिदासादयति ।। ०७.११.३५ ।।

 स चएषां पापिष्ठतमो भवति ।। ०७.११.३६ ।।

 "यत्-किंचिद्-आरभमाणो हि विजिगीषोः कदाचिच्छिद्रं आसादयेद्" इत्याचार्याः ।। ०७.११.३७ ।।

 यथा छिद्रं तथा विनाशं अप्यासादयेदिति कौटिल्यः ।। ०७.११.३८ ।।

 तेषां अलाभे यथा पार्ष्णि-ग्राह-उपग्रहे वक्ष्यामस्तथा भूमिं अवस्थापयेत् ।। ०७.११.३९ ।।

 इत्यभिहित-संधिः ।। ०७.११.४० ।।

 गुणवतीं आदेयां वा भूमिं बलवता क्रयेण याचितः संधिं अवस्थाप्य दद्यात् ।। ०७.११.४१ ।।

 इत्यनिभृत-संधिः ।। ०७.११.४२ ।।

 समेन वा याचितः कारणं अवेक्ष्य दद्यात्"प्रत्यादेया मे भूमिर्वश्या वा । अनया प्रतिबद्धः परो मे वश्यो भविष्यति भूमि-विक्रयाद्वा मित्र-हिरण्य-लाभः कार्य-सामर्थ्य-करो मे भविष्यति" इति ।। ०७.११.४३ ।।

 तेन हीनः क्रेता व्याख्यातः ।। ०७.११.४४ ।।

 एवं मित्रं हिरण्यं च सजनां अजनां च गां । ।। ०७.११.४५अ ब ।।

 लभमानोअतिसंधत्ते शास्त्रवित्सामवायिकान् ।। ०७.११.४५च्द् ।।