अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ अर्थशास्त्रम्
अध्यायः १२
कौटिलीय:
अध्यायः १३ →

 "त्वं चाहं च दुर्गं कारयावहे" इति कर्म-संधिः ।। ०७.१२.०१ ।।

 तयोर्यो दैव-कृतं अविषह्यं अल्प-व्यय-आरम्भं दुर्गं कारयति सोअतिसंधत्ते ।। ०७.१२.०२ ।।

 तत्रापि स्थल-नदी-पर्वत-दुर्गाणां उत्तर-उत्तरं श्रेयः ।। ०७.१२.०३ ।।

 सेतु-बन्धयोरप्याहार्य-उदकात्सह-उदकः श्रेयान् ।। ०७.१२.०४ ।।

 सह-उदकयोरपि प्रभूत-वाप-स्थानः श्रेयान् ।। ०७.१२.०५ ।।

 द्रव्य-वनयोरपि यो महत्-सारवद्-द्रव्य-अटवीकं विषय-अन्ते नदी-मातृकं द्रव्य-वनं छेदयति सोअतिसंधत्ते ।। ०७.१२.०६ ।।

 नदी-मातृकं हि स्व्-आजीवं अपाश्रयश्चऽपदि भवति ।। ०७.१२.०७ ।।

 हस्ति-वनयोरपि यो बहु-शूर-मृगं दुर्बल-प्रतिवेशं-अनन्त-अवक्लेशि विषय-अन्ते हस्ति-वनं बध्नाति सोअतिसंधत्ते ।। ०७.१२.०८ ।।

 तत्रापि "बहु-कुण्ठ-अल्प-शूरयोः अल्प-शूरं श्रेयः । शूरेषु हि युद्धम् । अल्पाः शूरा बहूनशूरान्भञ्जन्ति । ते भग्नाः स्व-सैन्य-अवघातिनो भवन्ति" इत्याचार्याः ।। ०७.१२.०९ ।।

 नैति कौटिल्यः ।। ०७.१२.१० ।।

 कुण्ठा बहवः श्रेयांसः । स्कन्ध-विनियोगादनेकं कर्म कुर्वाणाः स्वेषां अपाश्रयो युद्धे । परेषां दुर्धर्षा विभीषणाश्च ।। ०७.१२.११ ।।

 बहुषु हि कुण्ठेषु विनय-कर्मणा शक्यं शौर्यं आधातुम् । न त्वेवाल्पेषु शूरेषु बहुत्वं इति ।। ०७.१२.१२ ।।

 खन्योरपि यः प्रभूत-सारां अदुर्ग-मार्गां अल्प-व्यय-आरम्भां खनिं खानयति । सोअतिसंधत्ते ।। ०७.१२.१३ ।।

 तत्रापि महा-सारं अल्पं अल्प-सारं वा प्रभूतं इति "महा-सारं अल्पं श्रेयः । वज्र-मणि-मुक्ता-प्रवाल-हेम-रूप्य-धातुर्हि प्रभूतं अल्प-सारं अत्यर्घेण ग्रसते" इत्याचार्याः ।। ०७.१२.१४ ।।

 नैति कौटिल्यः ।। ०७.१२.१५ ।।

 चिरादल्पो महा-सारस्य क्रेता विद्यते । प्रभूतः सातत्यादल्प-सारस्य ।। ०७.१२.१६ ।।

 एतेन वणिक्-पथो व्याख्यातः ।। ०७.१२.१७ ।।

 तत्रापि "वारि-स्थल-पथयोर्वारि-पथः श्रेयान् । अल्प-व्यय-व्यायामः प्रभूत-पण्य-उदयश्च" इत्याचार्याः ।। ०७.१२.१८ ।।

 नैति कौटिल्यः ।। ०७.१२.१९ ।।

 सम्रुद्ध-गतिरसार्वकालिकः प्रकृष्ट-भय-योनिर्निष्प्रतीकारश्च वारि-पथः । विपरीतः स्थल-पथः ।। ०७.१२.२० ।।

 वारि-पथे तु कूल-सम्यान-पथयोः कूल-पथः पण्य-पत्तन-बाहुल्यात्श्रेयान् । नदी-पथो वा । सातत्याद्विषह्य-आबाधत्वाच्च ।। ०७.१२.२१ ।।

 स्थल-पथेअपि "हैमवतो दक्षिणा-पथात्श्रेयान् । हस्त्य्-अश्व-गन्ध-दन्त-अजिन-रूप्य-सुवर्ण-पण्याः सारवत्तराः" इत्याचार्याः" ।। ०७.१२.२२ ।।

 नैति कौटिल्यः ।। ०७.१२.२३ ।।

 कम्बल-अजिन-अश्व-पण्य-वर्जाः शङ्ख-वज्र-मणि-मुक्ता-सुवर्ण-पण्याश्च प्रभूततरा दक्षिणा-पथे ।। ०७.१२.२४ ।।

 दक्षिणा-पथेअपि बहु-खनिः सार-पण्यः प्रसिद्ध-गतिरल्प-व्यय-व्यायामो वा वणिक्-पथः श्रेयान् । प्रभूत-विषयो वा फल्गु-पुण्यः ।। ०७.१२.२५ ।।

 तेन पूर्वः पश्चिमश्च वणिक्-पथो व्याख्यातः ।। ०७.१२.२६ ।।

 तत्रापि चक्र-पाद-पथयोश्चक्र-पथो विपुल-आरम्भत्वात्श्रेयान् । देश-काल-सम्भावनो वा खर-उष्ट्र-पथः ।। ०७.१२.२७ ।।

 आभ्यां अंस-पथो व्याख्यातः ।। ०७.१२.२८ ।।

 पर-कर्म-उदयो नेतुः क्षयो वृद्धिर्विपर्यये ।। ०७.१२.२९ ।।

 तुल्ये कर्म-पथे स्थानं ज्ञेयं स्वं विजिगीषुणा ।। ०७.१२.३० ।।

 अल्प-आगम-अतिव्ययता क्षयो वृद्धिर्विपर्यये ।। ०७.१२.३१ ।।

 समाय-व्ययता स्थानं कर्मसु ज्ञेयं आत्मनः ।। ०७.१२.३२ ।।

 तस्मादल्प-व्यय-आरम्भं दुर्ग-आदिषु महा-उदयं ।। ०७.१२.३३ ।।

 कर्म लब्ध्वा विशिष्टः स्यादित्युक्ताः कर्म-संधयः ।। ०७.१२.३४ ।।