अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ अर्थशास्त्रम्
अध्यायः १३
कौटिलीय:
अध्यायः १४ →

 संहत्यारि-विजिगीष्वोरमित्रयोः पर-अभियोगिनोः पार्ष्णिं गृह्णतोर्यः शक्ति-सम्पन्नस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०१ ।।

 शक्ति-सम्पन्नो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । न हीन-शक्तिरलब्ध-लाभः ।। ०७.१३.०२ ।।

 शक्ति-साम्ये यो विपुल-आरम्भस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०३ ।।

 विपुल-आरम्भो ह्यमित्रं उच्छिद्य पार्ष्णि-ग्राहं उच्छिन्द्यात् । नाल्प-आरम्भः सक्त-चक्रः ।। ०७.१३.०४ ।।

 आरम्भ-साम्ये यः सर्व-संदोहेन प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०५ ।।

 शून्य-मूलो ह्यस्य सुकरो भवति । नैक-देश-बल-प्रयातः कृत-पार्ष्णि-प्रतिविधानः ।। ०७.१३.०६ ।।

 बल-उपादान-साम्ये यश्चल-अमित्रं प्रयातस्य पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.०७ ।।

 चल-अमित्रं प्रयातो हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् । न स्थित-अमित्रं प्रयातः ।। ०७.१३.०८ ।।

 असौ हि दुर्ग-प्रतिहतः पार्ष्णि-ग्राहे च प्रतिनिवृत्तः स्थितेनामित्रेणावगृह्यते ।। ०७.१३.०९ ।।

 तेन पूर्वे व्याख्याताः ।। ०७.१३.१० ।।

 शत्रु-साम्ये यो धार्मिक-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.११ ।।

 धार्मिक-अभियोगी हि स्वेषां परेषां च द्वेष्यो भवति । अधार्मिक-अभियोगी सम्प्रियः ।। ०७.१३.१२ ।।

 तेन मूल-हर-तादात्विक-कदर्य-अभियोगिनां पार्ष्णि-ग्रहणं व्याख्यातं ।। ०७.१३.१३ ।।

 मित्र-अभियोगिनोः पार्ष्णि-ग्रहणे त एव हेतवः ।। ०७.१३.१४ ।।

 मित्रं अमित्रं चाभियुञ्जानयोर्यो मित्र-अभियोगिनः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१५ ।।

 मित्र-अभियोगी हि सुखेनावाप्त-सिद्धिः पार्ष्णि-ग्राहं उच्छिन्द्यात् ।। ०७.१३.१६ ।।

 सुकरो हि मित्रेण संधिर्नामित्रेण ।। ०७.१३.१७ ।।

 मित्रं अमित्रं चौद्धरतोर्योअमित्र-उद्धारिणः पार्ष्णिं गृह्णाति सोअतिसंधत्ते ।। ०७.१३.१८ ।।

 वृद्ध-मित्रो ह्यमित्र-उद्धारी पार्ष्णि-ग्राहं उच्छिन्द्यात् । नैतरः स्व-पक्ष-उपघाती ।। ०७.१३.१९ ।।

 तयोरलब्ध-लाभ-अपगमने यस्य-अमित्रो महतो लाभाद्वियुक्तः क्षय-व्यय-अधिको वा स पार्ष्णि-ग्राहोअतिसंधत्ते ।। ०७.१३.२० ।।

 लब्ध-लाभ-अपगमने यस्यामित्रो लाभेन शक्त्या हीनः स पार्ष्णि-ग्राहोअतिसंधत्ते । यस्य वा यातव्यः शत्रोर्विग्रह-अपकार-समर्थः स्यात् ।। ०७.१३.२१ ।।

 पार्ष्णि-ग्राहयोरपि यः शक्य-आरम्भ-बल-उपादान-अधिकः स्थित-शत्रुः पार्श्व-स्थायी वा सोअतिसंधत्ते ।। ०७.१३.२२ ।।

 पार्श्व-स्थायी हि यातव्य-अभिसारो मूल-आबाधकश्च भवति । मूल-आबाधक एव पश्चात्-स्थायी ।। ०७.१३.२३ ।।

 पार्ष्णि-ग्राहास्त्रयो ज्ञेयाः शत्रोश्चेष्टा-निरोधकाः । ।। ०७.१३.२४अ ब ।।

 सामन्तः पृष्ठतो वर्गः प्रतिवेशौ च पार्श्वयोः ।। ०७.१३.२४च्द् ।।

 अरेर्नेतुश्च मध्यस्थो दुर्बलोअन्तर्धिरुच्यते । ।। ०७.१३.२५अ ब ।।

 प्रतिघातो बलवतो दुर्ग-अटव्य्-अपसारवान् ।। ०७.१३.२५च्द् ।।

 मध्यमं त्वरि-विजिगीष्वोर्लिप्समानयोर्मध्यमस्य पार्ष्णिं गृह्णतोर्लब्ध-लाभ-अपगमने यो मध्यमं मित्राद्वियोजयत्यमित्रं च मित्रं आप्नोति सोअतिसंधत्ते ।। ०७.१३.२६ ।।

 संधेयश्च शत्रुरुपकुर्वाणो । न मित्रं मित्र-भावादुत्क्रान्तं ।। ०७.१३.२७ ।।

 तेनौदासीन-लिप्सा व्याख्याता ।। ०७.१३.२८ ।।

 "पार्ष्णि-ग्रहण-अभियानयोस्तु मन्त्र-युद्धादभ्युच्चयः ।। ०७.१३.२९ ।।

 व्यायाम-युद्धे हि क्षय-व्ययाभ्यां उभयोरवृद्धिः ।। कश्०७.१३.३० ।।

 जित्वाअपि हि क्षिण-दण्ड-कोशः पराजितो भवति" इत्याचार्याः ।। ०७.१३.३१ ।।

 नैति कौटिल्यः ।। ०७.१३.३२ ।।

 सुमहताअपि क्षय-व्ययेन शत्रु-विनाशोअभ्युपगन्तव्यः ।। ०७.१३.३३ ।।

 तुल्ये क्षय-व्यये यः पुरस्ताद्दूष्य-बलं घातयित्वा निह्शल्यः पश्चाद्वश्य-बलो युध्येत सोअतिसंधत्ते ।। ०७.१३.३४ ।।

 द्वयोरपि पुरस्ताद्दूष्य-बल-घातिनोर्यो बहुलतरं शक्तिमत्तरं अत्यन्त-दूष्यं च घातयेत्सोअतिसंधत्ते ।। ०७.१३.३५ ।।

 तेनामित्र-अटवी-बल-घातो व्याख्यातः ।। ०७.१३.३६ ।।

 पार्ष्णि-ग्राहोअभियोक्ता वा यातव्यो वा यदा भवेत् । ।। ०७.१३.३७अ ब ।।

 विजिगीषुस्तदा तत्र नेत्रं एतत्समाचरेत् ।। ०७.१३.३७च्द् ।।

 पार्ष्णि-ग्राहो भवेन्नेता शत्रोर्मित्र-अभियोगिनः । ।। ०७.१३.३८अ ब ।।

 विग्राह्य पूर्वं आक्रन्दं पार्ष्णि-ग्राह-अभिसारिणा ।। ०७.१३.३८च्द् ।।

 आक्रन्देनाभियुञ्जानः पार्ष्णि-ग्राहं निवारयेत् । ।। ०७.१३.३९अ ब ।।

 तथाआक्रन्द-अभिसारेण पार्ष्णि-ग्राह-अभिसारिणं ।। ०७.१३.३९च्द् ।।

 अरि-मित्रेण मित्रं च पुरस्तादवघट्टयेत् । ।। ०७.१३.४०अ ब ।।

 मित्र-मित्रं अरेश्चापि मित्र-मित्रेण वारयेत् ।। ०७.१३.४०च्द् ।।

 मित्रेण ग्राहयेत्पार्ष्णिं अभियुक्तोअभियोगिनः । ।। ०७.१३.४१अ ब ।।

 मित्र-मित्रेण चऽक्रन्दं पार्ष्णि-ग्राहान्निवारयेत् ।। ०७.१३.४१च्द् ।।

 एवं मण्डलं आत्म-अर्थं विजिगीषुर्निवेशयेत् । ।। ०७.१३.४२अ ब ।।

 पृष्ठतश्च पुरस्ताच्च मित्र-प्रकृति-सम्पदा ।। ०७.१३.४२च्द् ।।

 कृत्स्ने च मण्डले नित्यं दूतान्गूढांश्च वासयेत् । ।। ०७.१३.४३अ ब ।।

 मित्र-भूतः सपत्नानां हत्वा हत्वा च संवृतः ।। ०७.१३.४३च्द् ।।

 असंवृतस्य कार्याणि प्राप्तान्यपि विशेषतः । ।। ०७.१३.४४अ ब ।।

 निह्संशयं विपद्यन्ते भिन्न-प्लव इवौदधौ ।। ०७.१३.४४च्द् ।।