अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३ अर्थशास्त्रम्
अध्यायः १४
कौटिलीय:
अध्यायः १५ →

 सामवायिकैरेवं अभियुक्तो विजिगीषुर्यस्तेषां प्रधानस्तं ब्रूयात्"त्वया मे संधिः । इदं हिरण्यम् । अहं च मित्रम् । द्वि-गुणा ते वृद्धिः । नार्हस्यात्म-क्षयेण मित्र-मुखानमित्रान्वर्धयितुम् । एते हि वृद्धास्त्वां एव परिभविष्यन्ति" इति ।। ०७.१४.०१ ।।

 भेदं वा ब्रूयात्"अनपकारो यथाअहं एतैः सम्भूयाभियुक्तस्तथा त्वां अप्येते संहित-बलाः स्वस्था व्यसने वाअभियोक्ष्यन्ते । बलं हि चित्तं विकरोति । तदेषां विघातय" इति ।। ०७.१४.०२ ।।

 भिन्नेषु प्रधानं उपगृह्य हीनेषु विक्रमयेत् । हीनाननुग्राह्य वा प्रधाने । यथा वा श्रेयोअभिमन्येत तथा ।। ०७.१४.०३ ।।

 वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.१४.०४ ।।

 फल-भूयस्त्वेन वा प्रधानं उपजाप्य संधिं कारयेत् ।। ०७.१४.०५ ।।

 अथौभय-वेतनाः फल-भूयस्त्वं दर्शयन्तः सामवायिकान्"अतिसंहिताः स्थ" इत्युद्द्दूषयेयुः ।। ०७.१४.०६ ।।

 दुष्टेषु संधिं दूषयेत् ।। ०७.१४.०७ ।।

 अथौभय-वेतना भूयो भेदं एषां कुर्युः "एवं तद्यदस्माभिर्दर्शितम्" इति ।। ०७.१४.०८ ।।

 भिन्नेष्वन्यतम-उपग्रहेण चेष्टेत ।। ०७.१४.०९ ।।

 प्रधान-अभावे सामवायिकानां उत्साहयितारं स्थिर-कर्माणं अनुरक्त-प्रकृक्तिं लोभाद्भयाद्वा संघातं उपागतं विजिगीषोर्भीतं राज्य-प्रतिसम्बद्धं मित्रं चल-अमित्रं वा पूर्वानुत्तर-अभावे साधयेत् उत्साहयितारं आत्म-निसर्गेण । स्थिर-कर्माणं सान्त्व-प्रणिपातेन । अनुरक्त-प्रकृतिं कन्या-दान-यापनाभ्याम् । लुब्धं अंश-द्वैगुण्येन । भीतं एभ्यः कोश-दण्ड-अनुग्रहेण । स्वतो भीतं विश्वास्य प्रतिभू-प्रदानेन । राज्य-प्रतिसम्बद्धं एकी-भाव-उपगमनेन । मित्रं उभयतः प्रिय-हिताभ्याम् । उपकार-त्यागेन वा । चल-अमित्रं अवधृतं अनपकार-उपकाराभ्याम् ।। ०७.१४.१० ।।

 यो वा यथाअयोगं भजेत तं तथा साधयेत् । साम-दान-भेद-दण्डैर्वा यथाआपत्सु व्याख्यास्यामः ।। ०७.१४.११ ।।

 व्यसन-उपघात-त्वरितो वा कोश-दण्डाभ्यां देशे काले कार्ये वाअवधृतं संधिं उपेयात् ।। ०७.१४.१२ ।।

 कृत-संधिर्हीनं आत्मानं प्रतिकुर्वीत ।। ०७.१४.१३ ।।

 पक्षे हीनो बन्धु-मित्र-पक्षं कुर्वीत । दुर्गं अविषह्यं वा ।। ०७.१४.१४ ।।

 दुर्ग-मित्र-प्रतिष्टब्धो हि स्वेषां परेषां च पूज्यो भवति ।। ०७.१४.१५ ।।

 मन्त्र-शक्ति-हीनः प्राज्ञ-पुरुष-उपचयं विद्या-वृद्ध-सम्योगं वा कुर्वीत ।। ०७.१४.१६ ।।

 तथा हि सद्यः श्रेयः प्राप्नोति ।। ०७.१४.१७ ।।

 प्रभाव-हीनः प्रकृति-योग-क्षेम-सिद्धौ यतेत ।। ०७.१४.१८ ।।

 जन-पदः सर्व-कर्मणां योनिः । ततः प्रभावः ।। ०७.१४.१९ ।।

 तस्य स्थानं आत्मनश्चऽपदि दुर्गं ।। ०७.१४.२० ।।

 सेतु-बन्धः सस्यानां योनिः ।। ०७.१४.२१ ।।

 नित्य-अनुषक्तो हि वर्ष-गुण-लाभः सेतु-वापेषु ।। ०७.१४.२२ ।।

 वणिक्-पथः पर-अतिसंधानस्य योनिः ।। ०७.१४.२३ ।।

 वणिक्-पथेन हि दण्ड-गूढ-पुरुष-अतिनयनं शस्त्र-आवरण-यान-वाहन-क्रयश्च क्रियते । प्रवेशो निर्णयनं च ।। ०७.१४.२४ ।।

 खनिः संग्राम-उपकरणानां योनिः । द्रव्य-वनं दुर्ग-कर्मणां यान-रथयोश्च । हस्ति-वनं हस्तिनाम् । गव-अश्व-खर-उष्ट्राणां च व्रजः ।। ०७.१४.२५ ।।

 तेषां अलाभे बन्धु-मित्र-कुलेभ्यः समार्जनं ।। ०७.१४.२६ ।।

 उत्साह-हीनः श्रेणी-प्रवीर-पुरुषाणां चोर-गण-आटविक-म्लेच्छ-जातीनां पर-अपकारिणां गूढ-पुरुषाणां च यथा-लाब्भं उपचयं कुर्वीत ।। ०७.१४.२७ ।।

 पर-मिश्र-अप्रतीकारं आबलीयसं वा परेषु प्रयुञ्जीत ।। ०७.१४.२८ ।।

 एवं पक्षेण मन्त्रेण द्रव्येण च बलेन च । ।। ०७.१४.२९अ ब ।।

 सम्पन्नः प्रतिनिर्गच्छेत्पर-अवग्रहं आत्मनः ।। ०७.१४.२९च्द् ।।