अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ अर्थशास्त्रम्
अध्यायः ८
कौटिलीय:
अध्यायः ९ →

 यातव्योअभियास्यमानः संधि-कारणं आदातु-कामो विहन्तु-कामो वा सामवायिकानां अन्यतमं लाभ-द्वैगुण्येन पणेत ।। ०७.८.०१ ।।

 पणमानः क्षय-व्यय-प्रवास-प्रत्यवाय-पर-उपकार-शरीर-आबाधांश्चास्य वर्णयेत् ।। ०७.८.०२ ।।

 प्रतिपन्नं अर्थेन योजयेत् ।। ०७.८.०३ ।।

 वैरं वा परैर्ग्राहयित्वा विसंवादयेत् ।। ०७.८.०४ ।।

 दुरारब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामः स्व्-आरब्धां वा यात्रा-सिद्धिं विघातयितु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्य-संहितः पुनर्याचितु-कामः प्रत्युत्पन्न-अर्थ-कृच्छ्रस्तस्मिन्नविश्वस्तो वा तदात्वे लाभं अल्पं इच्छेत् । आयत्यां प्रभूतं ।। ०७.८.०५ ।।

 मित्र-उपकारं अमित्र-उपघातं अर्थ-अनुबन्धं अवेक्षमाणः पूर्व-उपकारकं कारयितु-कामो भूयस्तदात्वे महान्तं लाभं उत्सृज्यऽयत्यां अल्पं इच्छेत् ।। ०७.८.०६ ।।

 दूष्य-अमित्राभ्यां मूल-हरेण वा ज्यायसा विगृहीतं त्रातु-कामस्तथा-विधं उपकारं कारयितु-कामः सम्बन्ध-अवेक्षी वा तदात्वे चऽयत्यां च लाभं न प्रतिगृह्णीयात् ।। ०७.८.०७ ।।

 कृत-संधिरतिक्रमितु-कामः परस्य प्रकृति-कर्शनं मित्र-अमित्र-संधि-विश्लेषणं वा कर्तु-कामः पर-अभियोगात्शङ्कमानो लाभं अप्राप्तं अधिकं वा याचेत ।। ०७.८.०८ ।।

 तं इतरस्तदात्वे चऽयत्यां च क्रमं अवेक्षेत ।। ०७.८.०९ ।।

 तेन पूर्वे व्याख्याताः ।। ०७.८.१० ।।

 अरि-विजिगीष्वोस्तु स्वं स्वं मित्रं अनुगृह्णतोः शक्य-कल्य-भव्य-आरम्भि-स्थिर-कर्म-अनुरक्त-प्रकृतिभ्यो विशेषः ।। ०७.८.११ ।।

 शक्य-आरम्भी विषह्यं कर्मऽरभते । कल्य-आरम्भी निर्दोषम् । भव्य-आरम्भी कल्याण-उदयं ।। ०७.८.१२ ।।

 स्थिर-कर्मा नासमाप्य कर्मौपरमते ।। ०७.८.१३ ।।

 अनुरक्त-प्रकृतिः सुसहायत्वादल्पेनाप्यनुग्रहेण कार्यं साधयति ।। ०७.८.१४ ।।

 त एते कृत-अर्थाः सुखेन प्रभूतं चौपकुर्वन्ति ।। ०७.८.१५ ।।

 अतः प्रतिलोमा नानुग्राह्याः ।। ०७.८.१६ ।।

 तयोरेक-पुरुष-अनुग्रहे यो मित्रं मित्र-तरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.१७ ।।

 मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.१८ ।।

 कृत-अर्थश्च शत्रुर्वैगुण्यं एति ।। ०७.८.१९ ।।

 मध्यमं त्वनुगृह्णतोर्यो मध्यमं मित्रं मित्रतरं वाअनुगृह्णाति सोअतिसंधत्ते ।। ०७.८.२० ।।

 मित्रादात्म-वृद्धिं हि प्राप्नोति । क्षय-व्यय-प्रवास-पर-उपकारानितरः ।। ०७.८.२१ ।।

 मध्यमश्चेदनुगृहीतो विगुणः स्यादमित्रोअतिसंधत्ते ।। ०७.८.२२ ।।

 कृत-प्रयासं हि मध्यम-अमित्रं अपसृतं एक-अर्थ-उपगतं प्राप्नोति ।। ०७.८.२३ ।।

 तेनौदासीन-अनुग्रहो व्याख्यातः ।। ०७.८.२४ ।।

 मध्यम-उदासीनयोर्बल-अंश-दाने यः शूरं कृत-अस्त्रं दुःख-सहं अनुरक्तं वा दण्डं ददाति सोअतिसंधीयते ।। ०७.८.२५ ।।

 विपरीतोअतिसंधत्ते ।। ०७.८.२६ ।।

 यत्र तु दण्डः प्रहितस्तं वा चार्थं अन्यांश्च साधयति तत्र मौल-भृत-श्रेणी-मित्र-अटवी-बलानां अन्यतमं उपलब्ध-देश-कालं दण्डं दद्यात् । अमित्र-अटवी-बलं वा व्यवहित-देश-कालं ।। ०७.८.२७ ।।

 यं तु मन्येत "कृत-अर्थो मे दण्डं गृह्णीयाद् । अमित्र-अटव्य्-अभूम्य्-अनृतुषु वा वासयेद् । अफलं वा कुर्याद्" इति । दण्ड-व्यासङ्ग-अपदेशेन नएनं अनुगृह्णीयात् ।। ०७.८.२८ ।।

 एवं अवश्यं त्वनुग्रहीतव्ये तत्-काल-सहं अस्मै दण्डं दद्यात् ।। ०७.८.२९ ।।

 आ-समाप्तेश्चएनं वासयेद्योधयेच्च बल-व्यसनेभ्यश्च रक्षेत् ।। ०७.८.३० ।।

 कृत-अर्थाच्च स-अपदेशं अपस्रावयेत् ।। ०७.८.३१ ।।

 दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.८.३२ ।।

 यातव्येन वा संधायएनं अतिसंदध्यात् ।। ०७.८.३३ ।।

 समे हि लाभे संधिः स्याद्विषमे विक्रमो मतः ।। ०७.८.३४अ ब ।।

 सम-हीन-विशिष्टानां इत्युक्ताः संधि-विक्रमाः ।। ०७.८.३४च्द् ।।