अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६ अर्थशास्त्रम्
अध्यायः ७
कौटिलीय:
अध्यायः ८ →

 विजिगीषुर्द्वितीयां प्रकृतिं एवं उपगृह्णीयात् ।। ०७.७.०१ ।।

 सामन्तं सामन्तेन सम्भूय यायात् । यदि वा मन्येत "पार्ष्णिं मे न ग्रहीष्यति । पार्ष्णि-ग्राहं वारयिष्यति । यातव्यं नाभिसरिष्यति । बल-द्वैगुण्यं मे भविष्यति । वीवध-आसारौ मे प्रवर्तयिष्यति । परस्य वारयिष्यति । बह्व्-आबाधे मे पथि कण्टकान्मर्दयिष्यति । दुर्ग-अटव्य्-अपसारेषु दण्डेन चरिष्यति । यातव्यं अविषह्ये दोषे संधौ वा स्थापयिष्यति । लब्ध-लाभ-अंशो वा शत्रूनन्यान्मे विश्वासयिष्यति" इति ।। ०७.७.०२ ।।

 द्वैधी-भूतो वा कोशेन दण्डं दण्डेन कोशं सामन्तानां अन्यतमाल्लिप्सेत ।। ०७.७.०३ ।।

 तेषां ज्यायसोअधिकेनांशेन समात्समेन हीनाद्द्हीनेनैति सम-संधिः ।। ०७.७.०४ ।।

 विपर्यये विषम-संधिः ।। ०७.७.०५ ।।

 तयोर्विशेष-लाभादतिसंधिः ।। ०७.७.०६ ।।

 व्यसनिनं अपाय-स्थाने सक्तं अनर्थिनं वा ज्यायांसं हीनो बल-समेन लाभेन पणेत ।। ०७.७.०७ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.०८ ।।

 एवं-भूतो वा हीन-शक्ति-प्रताप-पूरण-अर्थं सम्भाव्य-अर्थ-अभिसारी मूल-पार्ष्णि-त्राण-अर्थं वा ज्यायांसं हीनो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.०९ ।।

 पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१० ।।

 जात-व्यसन-प्रकृति-रन्ध्रं उपस्थित-अनर्थं वा ज्यायांसं हीनो दुर्ग-मित्र-प्रतिष्टब्धो वा ह्रस्वं अध्वानं यातु-कामः शत्रुं अयुद्धं एक-अन्त-सिद्धिं वा लाभं आदातु-कामो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.११ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१२ ।।

 अरन्ध्र-व्यसनो वा ज्यायान्दुर्-आरब्ध-कर्माणं भूयः क्षय-व्ययाभ्यां योक्तु-कामो दूष्य-दण्डं प्रवासयितु-कामो दूष्य-दण्डं आवाहयितु-कामो वा पीडनीयं उच्छेदनीयं वा हीनेन व्यथयितु-कामः संधि-प्रधानो वा कल्याण-बुद्धिर्हीनं लाभं प्रतिगृह्णीयात् ।। ०७.७.१३ ।।

 कल्याण-बुद्धिना सम्भूयार्थं लिप्सेत । अन्यथा विक्रमेत ।। ०७.७.१४ ।।

 एवं समः समं अतिसंदध्यादनुगृह्णीयाद्वा ।। ०७.७.१५ ।।

 पर-अनीकस्य प्रत्यनीकं मित्र-अटवीनां वा । शत्रोर्विभूमीनां देशिकं मूल-पार्ष्णि-त्राण-अर्थं वा समो बल-समेन लाभेन पणेत ।। ०७.७.१६ ।।

 पणितः कल्याण-बुद्धिं अनुगृह्णीयात् । अन्यथा विक्रमेत ।। ०७.७.१७ ।।

 जात-व्यसन-प्रकृति-रन्ध्रं अनेक-विरुद्धं अन्यतो लभमानो वा समो बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.१८ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.१९ ।।

 एवं-भूतो वा समः सामन्त-आयत्त-कार्यः कर्तव्य-बलो वा बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२० ।।

 पणितः कल्याण-बुद्धिं अनुगृह्णीयातन्यथा विक्रमेत ।। ०७.७.२१ ।।

 जात-व्यसन-प्रकृति-रन्ध्रं अभिहन्तु-कामः स्व्-आरब्धं एक-अन्त-सिद्धिं वाअस्य कर्म-उपहन्तु-कामो मूले यात्रायां वा प्रहर्तु-कामो यातव्याद्-भूयो लभमानो वा ज्यायांसं हीनं समं वा भूयो याचेत ।। ०७.७.२२ ।।

 भूयो वा याचितः स्व-बल-रक्षा-अर्थं दुर्धर्षं अन्य-दुर्गं आसारं अटवीं वा पर-दण्डेन मर्दितु-कामः प्रकृष्टेअध्वनि काले वा पर-दण्डं क्षय-व्ययाभ्यां योक्तु-कामः पर-दण्डेन वा विवृद्धस्तं एवौच्छेत्तु-कामः पर-दण्डं आदातु-कामो वा भूयो दद्यात् ।। ०७.७.२३ ।।

 ज्यायान्वा हीनं यातव्य-अपदेशेन हस्ते कर्तु-कामः परं उच्छिद्य वा तं एवौच्छेत्तु-कामः । त्यागं वा कृत्वा प्रत्यादातु-कामो बल-समाद्विशिष्टेन लाभेन पणेत ।। ०७.७.२४ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२५ ।।

 यातव्य-संहितो वा तिष्ठेत् । दूष्य-अमित्र-अटवी-दण्डं वाअस्मै दद्यात् ।। ०७.७.२६ ।।

 जात-व्यसन-प्रकृति-रन्ध्रो वा ज्यायान्हीनं बल-समेन लाभेन पणेत ।। ०७.७.२७ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.२८ ।।

 एवं-भूतं हीनं ज्यायान्बल-समाद्द्हीनेन लाभेन पणेत ।। ०७.७.२९ ।।

 पणितस्तस्यापकार-समर्थो विक्रमेत । अन्यथा संदध्यात् ।। ०७.७.३० ।।

 आदौ बुध्येत पणितः पणमानश्च कारणं ।। ०७.७.३१अ ब ।।

 ततो वितर्क्य-उभयतो यतः श्रेयश्ततो व्रजेत् ।। ०७.७.३१च्द् ।।