अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:
अध्यायः ७ →

 विजिगीषुर्द्वितीयां प्रकृतिं एवं अतिसंदध्यात् ।। ०७.६.०१ ।।

 सामन्तं संहित-प्रयाणे योजयेत्"त्वं इतो याहि । अहं इतो यास्यामि । समानो लाभः" इति ।। ०७.६.०२ ।।

 लाभ-साम्ये संधिः । वैषम्ये विक्रमः ।। ०७.६.०३ ।।

 संधिः परिपणितश्चापरिपणितश्च ।। ०७.६.०४ ।।

 "त्वं एतं देशं याहि । अहं इमं देशं यास्यामि" इति परिपणित-देशः ।। ०७.६.०५ ।।

 "त्वं एतावन्तं कालं चेष्टस्व । अहं एतावन्तं कालं चेष्टिष्ये" इति परिपणित-कालः ।। ०७.६.०६ ।।

 "त्वं एतावत्-कार्यं साधय । अहं इदं कार्यं साधयिष्यामि" इति परिपणित-अर्थः ।। ०७.६.०७ ।।

 यदि वा मन्येत "शैल-वन-नदी-दुर्गं अटवी-व्यवहितं छिन्न-धान्य-पुरुष-वीवध-आसारं अयवस-इन्धन-उदकं अविज्ञातं प्रकृष्टं अन्य-भाव-देशीयं वा सैन्य-व्यायामानां अलब्ध-भौमं वा देशं परो यास्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-देशं संधिं उपेयात् ।। ०७.६.०८ ।।

 यदि वा मन्येत "प्रवर्ष-उष्ण-शीतं अतिव्याधि-प्रायं उपक्षीण-आहार-उपभोगं सैन्य-व्यायामानां चाउपरोधिकं कार्य-साधनानां ऊनं अतिरिक्तं वा कालं परश्चेष्टिष्यते । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-कालं संधिं उपेयात् ।। ०७.६.०९ ।।

 यदि वा मन्येत "प्रत्यादेयं प्रकृति-कोपकं दीर्घ-कालं महा-क्षय-व्ययं अल्पं अनर्थ-अनुबन्धं अकल्यं अधर्म्यं मध्यम-उदासीन-विरुद्धं मित्र-उपघातकं वा कार्यं परः साधयिष्यति । विपरीतं अहम्" इत्येतस्मिन्विशेषे परिपणित-अर्थं संधिं उपेयात् ।। ०७.६.१० ।।

 एवं देश-कालयोः काल-कार्ययोर्देश-कार्ययोर्देश-काल-कार्याणां चावस्थापनात्सप्त-विधः परिपणितः ।। ०७.६.११ ।।

 तस्मिन्प्रागेवऽरभ्य प्रतिष्ठाप्य च स्व-कर्माणि पर-कर्मसु विक्रमेत ।। ०७.६.१२ ।।

 व्यसन-त्वर-अवमान-आलस्य-युक्तं अज्ञं वा शत्रुं अतिसंधातु-कामो देश-काल-कार्याणां अनवस्थापनात्"संहितौ स्वः" इति संधि-विश्वासेन परच्-छिद्रं आसाद्य प्रहरेदित्यपरिपणितः ।। ०७.६.१३ ।।

 तत्रएतद्भवति ।। ०७.६.१४ ।।

 सामन्तेनएव सामन्तं विद्वानायोज्य विग्रहे । ।। ०७.६.१५अ ब ।।

 ततोअन्यस्य हरेद्भूमिं छित्त्वा पक्षं समन्ततः ।। ०७.६.१५च्द् ।।

 संधेरकृत-चिकीर्षा कृत-श्लेषणं कृत-विदूषणं अवशीर्ण-क्रिया च ।। ०७.६.१६ ।।

 विक्रमस्य प्रकाश-युद्धं कूट-युद्धं तूष्णीं-युद्धं ।। ०७.६.१७ ।।

 इति संधि-विक्रमौ ।। ०७.६.१८ ।।

 अपूर्वस्य संधेः स-अनुबन्धैः साम-आदिभिः पर्येषणं सम-हीन-ज्यायसां च यथा-बलं अवस्थापनं अकृत-चिकीर्षा ।। ०७.६.१९ ।।

 कृतस्य प्रिय-हिताभ्यां उभयतः परिपालनं यथा-सम्भाषितस्य च निबन्धनस्यानुवर्तनं रक्षणं च "कथं परस्मान्न भिद्येत" इति कृत-श्लेषणं ।। ०७.६.२० ।।

 परस्यापसंधेयतां दूष्य-अतिसंधानेन स्थापयित्वा व्यतिक्रमः कृत-विदूषणं ।। ०७.६.२१ ।।

 भृत्येन मित्रेण वा दोष-अपसृतेन प्रतिसंधानं अवशीर्ण-क्रिया ।। ०७.६.२२ ।।

 तस्यां गत-आगतश्चतुर्-विधः कारणाद्गत-आगतो । विपरीतः । कारणाद्गतोअकारणादागतो । विपरीतश्चैति ।। ०७.६.२३ ।।

 स्वामिनो दोषेण गतो गुणेनऽगतः परस्य गुणेन गतो दोषेणऽगत इति कारणाद्गत-आगतः संधेयः ।। ०७.६.२४ ।।

 स्व-दोषेण गत-आगतो गुणं उभयोः परित्यज्य अकारणाद्गत-आगतः चल-बुद्धिरसंधेयः ।। ०७.६.२५ ।।

 स्वामिनो दोषेण गतः परस्मात्स्व-दोषेणऽगत इति कारणाद्गतोअकारणादागतः तर्कयितव्यः "पर-प्रयुक्तः स्वेन वा दोषेणापकर्तु-कामः । परस्यौच्छेत्तारं अमित्रं मे ज्ञात्वा प्रतिघात-भयादागतः । परं वा मां उच्छेत्तु-कामं परित्यज्यऽनृशंस्यादागतः" इति ।। ०७.६.२६ ।।

 ज्ञात्वा कल्याण-बुद्धिं पूजयेद् । अन्यथा-बुद्धिं अपकृष्टं वासयेत् ।। ०७.६.२७ ।।

 स्व-दोषेण गतः पर-दोषेणऽगत इत्यकारणाद्गतः कारणादागतः तर्कयितव्यः " छिद्रं मे पूरयिष्यति । उचितोअयं अस्य वासः । परत्रास्य जनो न रमते । मित्रैर्मे संहितः । शत्रुभिर्विगृहीतः । लुब्ध-क्रूरादाविग्नः शत्रु-संहिताद्वा परस्मात्" इति ।। ०७.६.२८ ।।

 ज्ञात्वा यथा-बुद्ध्यवस्थापयितव्यः ।। ०७.६.२९ ।।

 "कृत-प्रणाशः शक्ति-हानिर्विद्या-पण्यत्वं आशा-निर्वेदो देश-लौल्यं अविश्वासो बलवद्-विग्रहो वा परित्याग-स्थानम्" इत्याचार्याः ।। ०७.६.३० ।।

 भयं अवृत्तिरमर्ष इति कौटिल्यः ।। ०७.६.३१ ।।

 इहापकारी त्याज्यः । पर-अपकारी संधेयः । उभय-अपकारी तर्कयितव्य इति समानं ।। ०७.६.३२ ।।

 असंधेयेन त्ववश्यं संधातव्ये यतः प्रभावस्ततः प्रतिविदध्यात् ।। ०७.६.३३ ।।

 स-उपकारं व्यवहितं गुप्तं आयुः-क्षयादिति । ।। ०७.६.३४अ ब ।।

 वासयेदरि-पक्षीयं अवशीर्ण-क्रिया-विधौ ।। ०७.६.३४च्द् ।।

 विक्रमयेद्भर्तरि वा सिद्धं वा दण्ड-चारिणं ।। ०७.६.३५अ ब ।।

 कुर्यादमित्र-अटवीषु प्रत्यन्ते वाअन्यतः क्षिपेत् ।। ०७.६.३५च्द् ।।

 पण्यं कुर्यादसिद्धं वा सिद्धं वा तेन संवृतं ।। ०७.६.३६अ ब ।।

 तस्यएव दोषेण-अदूष्य पर-संधेय-कारणात् ।। ०७.६.३६च्द् ।।

 अथ वा शमयेदेनं आयत्य्-अर्थं उपांशुना ।। ०७.६.३७अ ब ।।

 आयत्यां च वध-प्रेप्सुं दृष्ट्वा हन्याद्गत-आगतं ।। ०७.६.३७च्द् ।।

 अरितोअभ्यागतो दोषः शत्रु-संवास-कारितः ।। ०७.६.३८अ ब ।।

 सर्प-संवास-धर्मित्वान्नित्य-उद्वेगेन दूषितः ।। ०७.६.३८च्द् ।।

 जायते प्लक्ष-बीज-आशात्कपोतादिव शाल्मलेः ।। ०७.६.३९अ ब ।।

 उद्वेग-जननो नित्यं पश्चादपि भय-आवहः ।। ०७.६.३९च्द् ।।

 प्रकाश-युद्धं निर्दिष्टे देशे काले च विक्रमः ।। ०७.६.४०अ ब ।।

 विभीषणं अवस्कन्दः प्रमाद-व्यसन-अर्दनं ।। ०७.६.४०च्द् ।।

 एकत्र त्याग-घातौ च कूट-युद्धस्य मातृका ।। ०७.६.४१अ ब ।।

 योग-गूढ-उपजाप-अर्थं तूष्णीं-युद्धस्य लक्षणं ।। ०७.६.४१च्द् ।।