सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 तुल्य-सामन्त-व्यसने यातव्यं अमित्रं वाइत्यमित्रं अभियायात् । तत्-सिद्धौ यातव्यं ।। ०७.५.०१ ।।

 अमित्र-सिद्धौ हि यातव्यः साहाय्यं दद्यान्नामित्रो यातव्य-सिद्धौ ।। ०७.५.०२ ।।

 गुरु-व्यसनं यातव्यं लघु-व्यसनं अमित्रं वाइति "गुरु-व्यसनं सौकर्यतो यायाद्" इत्याचार्याः ।। ०७.५.०३ ।।

 नैति कौटिल्यः ।। ०७.५.०४ ।।

 लघु-व्यसनं अमित्रं यायात् ।। ०७.५.०५ ।।

 लघ्वपि हि व्यसनं अभियुक्तस्य कृच्छ्रं भवति ।। ०७.५.०६ ।।

 सत्यं गुर्वपि गुरुतरं भवति ।। ०७.५.०७ ।।

 अनभियुक्तस्तु लघु-व्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यं अभिसरेत् । पार्ष्णिं वा गृह्णीयात् ।। ०७.५.०८ ।।

 यातव्य-यौगपद्ये गुरु-व्यसनं न्याय-वृत्तिं लघु-व्यसनं अन्याय-वृत्तिं विरक्त-प्रकृतिं वाइति विरक्त-प्रकृतिं यायात् ।। ०७.५.०९ ।।

 गुरु-व्यसनं न्याय-वृत्तिं अभियुक्तं प्रकृतयोअनुगृह्णन्ति । लघु-व्यसनं अन्याय-वृत्तिं उपेक्षन्ते । विरक्ता बलवन्तं अप्युच्छिन्दन्ति ।। ०७.५.१० ।।

 तस्माद्विरक्त-प्रकृतिं एव यायात् ।। ०७.५.११ ।।

 क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वाइति क्षीण-लुब्ध-प्रकृतिं यायात् । क्षीण-लुब्धा हि प्रकृतयः सुखेनौपजापं पीडां वाउपगच्छन्ति । नापचरिताः प्रधान-अवग्रह-साध्याः" इत्याचार्याः ।। ०७.५.१२ ।।

 नैति कौटिल्यः ।। ०७.५.१३ ।।

 क्षीण-लुब्धा हि प्रकृतयो भर्तरि स्निग्धा भर्तृ-हिते तिष्ठन्ति । उपजापं वा विसंवादयन्ति । अनुरागे सार्वगुण्यं इति ।। ०७.५.१४ ।।

 तस्मादपचरित-प्रकृतिं एव यायात् ।। ०७.५.१५ ।।

 बलवन्तं अन्याय-वृत्तिं दुर्बलं वा न्याय-वृत्तिं इति बलवन्तं अन्याय-वृत्तिं यायात् ।। ०७.५.१६ ।।

 बलवन्तं अन्याय-वृत्तिं अभियुक्तं प्रकृतयो नानुगृह्णन्ति । निष्पातयन्ति । अमित्रं वाअस्य भजन्ते ।। ०७.५.१७ ।।

 दुर्बलं तु न्याय-वृत्तिं अभियुक्तं प्रकृतयः परिगृह्णन्ति । अनुनिष्पतन्ति वा ।। ०७.५.१८ ।।

 अवक्षेपेण हि सतां असतां प्रग्रहेण च । ।। ०७.५.१९अ ब ।।

 अभूतानां च हिंसानां अधर्म्याणां प्रवर्तनैः ।। ०७.५.१९च्द् ।।

 उचितानां चरित्राणां धर्मिष्ठानां निवर्तनैः । ।। ०७.५.२०अ ब ।।

 अधर्मस्य प्रसङ्गेन धर्मस्यावग्रहेण च ।। ०७.५.२०च्द् ।।

 अकार्याणां च करणैः कार्याणां च प्रणाशनैः । ।। ०७.५.२१अ ब ।।

 अप्रदानैश्च देयानां अदेयानां च साधनैः ।। ०७.५.२१च्द् ।।

 अदण्डनैश्च दण्ड्यानां अदण्ड्यानां च दण्डनैः । ।। ०७.५.२२अ ब ।।

 अग्राह्याणां उपग्राहैर्ग्राह्याणां चानभिग्रहैः ।। ०७.५.२२च्द् ।।

 अनर्थ्यानां च करणैरर्थ्यानां च विघातनैः । ।। ०७.५.२३अ ब ।।

 अरक्षणैश्च चोरेभ्यः स्वयं च परिमोषणैः ।। ०७.५.२३च्द् ।।

 पातैः पुरुष-काराणां कर्मणां गुण-दूषणैः । ।। ०७.५.२४अ ब ।।

 उपघातैः प्रधानानां मान्यानां चावमाननैः ।। ०७.५.२४च्द् ।।

 विरोधनैश्च वृद्धानां वैषम्येणानृतेन च । ।। ०७.५.२५अ ब ।।

 कृतस्याप्रतिकारेण स्थितस्याकरणेन च ।। ०७.५.२५च्द् ।।

 राज्ञः प्रमाद-आलस्याभ्यां योग-क्षेम-वधेन वा । ।। ०७.५.२६अ ब ।।

 प्रकृतीनां क्षयो लोभो वैराग्यं चौपजायते ।। ०७.५.२६च्द् ।।

 क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागतां । ।। ०७.५.२७अ ब ।।

 विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयं ।। ०७.५.२७च्द् ।।

 तस्मात्प्रकृतीनां क्षय-लोभ-विराग-कारणानि नौत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।। ०७.५.२८ ।।

 क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ।। ०७.५.२९ ।।

 क्षीणाः पीडन-उच्छेदन-भयात्सद्यः संधिं युद्धं निष्पतनं वा रोचयन्ते ।। ०७.५.३० ।।

 लुब्धा लोभेनासंतुष्टाः पर-उपजापं लिप्सन्ते ।। ०७.५.३१ ।।

 विरक्ताः पर-अभियोगं अभ्युत्तिष्ठन्ते ।। ०७.५.३२ ।।

 तासां हिरण्य-धान्य-क्षयः सर्व-उपघाती कृच्छ्र-प्रतीकारश्च । युग्य-पुरुष-क्षयो हिरण्य-धान्य-साध्यः ।। ०७.५.३३ ।।

 लोभ ऐकदेशिको मुख्य-आयत्तः पर-अर्थेषु शक्यः प्रतिहन्तुं आदातुं वा ।। ०७.५.३४ ।।

 विरागः प्रधान-अवग्रह-साध्यः ।। ०७.५.३५ ।।

 निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्चान्येषाम् । अनापत्-सहास्तु ।। ०७.५.३६ ।।

 प्रकृति-मुख्य-प्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्-सहाश्च ।। ०७.५.३७ ।।

 सामवायिकानां अपि संधि-विग्रह-कारणान्यवेक्ष्य शक्ति-शौच-युक्तैः सम्भूय यायात् ।। ०७.५.३८ ।।

 शक्तिमान्हि पार्ष्णि-ग्रहणे यात्रा-साहाय्य-दाने वा शक्तः । शुचिः सिद्धौ चासिद्धौ च यथा-स्थित-कारीइति ।। ०७.५.३९ ।।

 तेषां ज्यायसाएकेन द्वाभ्यां समाभ्यां वा सम्भूय यातव्यं इति द्वाभ्यां समाभ्यां श्रेयः ।। ०७.५.४० ।।

 ज्यायसा ह्यवगृहीतश्चरति । समाभ्यां अतिसंधान-आधिक्ये वा ।। ०७.५.४१ ।।

 तौ हि सुखौ भेदयितुम् । दुष्टश्चएको द्वाभ्यां नियन्तुं भेद-उपग्रहं चौपगन्तुं इति ।। ०७.५.४२ ।।

 समेनएकेन द्वाभ्यां हीनाभ्यां वाइति द्वाभ्यां हीनाभ्यां श्रेयः ।। ०७.५.४३ ।।

 तौ हि द्वि-कार्य-साधकौ वश्यौ च भवतः ।। ०७.५.४४ ।।

 कार्य-सिद्धौ तु कृत-अर्थाज्ज्यायसो गूढः स-अपदेशं अपस्रवेत् । ।। ०७.५.४५अ ब ।।

 अशुचेः शुचि-वृत्तात्तु प्रतीक्षेतऽ विसर्जनात् ।। ०७.५.४५च्द् ।।

 सत्त्रादपसरेद्यत्तः कलत्रं अपनीय वा । ।। ०७.५.४६अ ब ।।

 समादपि हि लब्ध-अर्थाद्विश्वस्तस्य भयं भवेत् ।। ०७.५.४६च्द् ।।

 ज्यायस्त्वे चापि लब्ध-अर्थः समोअपि परिकल्पते । ।। ०७.५.४७अ ब ।।

 अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्त-विकारिणी ।। ०७.५.४७च्द् ।।

 विशिष्टादल्पं अप्यंशं लब्ध्वा तुष्ट-मुखो व्रजेत् । ।। ०७.५.४८अ ब ।।

 अनंशो वा ततोअस्याङ्के प्रहृत्य द्वि-गुणं हरेत् ।। ०७.५.४८च्द् ।।

 कृत-अर्थस्तु स्वयं नेता विसृजेत्सामवायिकान् । ।। ०७.५.४९अ ब ।।

 अपि जीयेत न जयेन्मण्डल-इष्टस्तथा भवेत् ।। ०७.५.४९च्द् ।।