अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 संधि-विग्रहयोरासनं यानं च व्याख्यातं ।। ०७.४.०१ ।।

 स्थानं आसनं उपेक्षणं चैत्यासन-पर्यायाः ।। ०७.४.०२ ।।

 विशेषस्तु गुण-एकदेशे स्थानम् । स्व-वृद्धि-प्राप्त्य्-अर्थं आसनम् । उपायानां अप्रयोग उपेक्षणं ।। ०७.४.०३ ।।

 अतिसंधान-कामयोररि-विजिगीष्वोरुपहन्तुं अशक्तयोर्विगृह्यऽसनं संधाय वा ।। ०७.४.०४ ।।

 यदा वा पश्येत्"स्व-दण्डैर्मित्र-अटवी-दण्डैर्वा समं ज्यायांसं वा कर्शयितुं उत्सहे" इति तदा कृत-बाह्य-अभ्यन्तर-कृत्यो विगृह्यऽसीत ।। ०७.४.०५ ।।

 यदा वा पश्येत्"उत्साह-युक्ता मे प्रकृतयः संहता विवृद्धाः स्व-कर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्ति" इति तदा विगृह्यऽसीत ।। ०७.४.०६ ।।

 यदा वा पश्येत्"परस्यापचरिताः क्षीणा लुब्धाः स्व-चक्र-स्तेन-अटवी-व्यथिता वा प्रकृतयः स्वयं उपजापेन वा मां एष्यन्ति । सम्पन्ना मे वार्त्ता । विपन्ना परस्य । तस्य प्रकृतयो दुर्भिक्ष-उपहता मां एष्यन्ति; विपन्ना मे वार्त्ता । सम्पन्ना परस्य । ।। ०७.४.०७अ ।।

 तं मे प्रकृतयो न गमिष्यन्ति । विगृह्य चास्य धान्य-पशु-हिरण्यान्याहरिष्यामि । स्व-पण्य-उपघातीनि वा पर-पण्यानि निवर्तयिष्यामि । ।। ०७.४.०७ब ।।

 पर-वणिक्-पथाद्वा सरवन्ति मां एष्यन्ति विगृहीते । नैतरम् । दूष्य-अमित्र-अटवी-निग्रहं वा विगृहीतो न करिष्यति । तैरेव वा विग्रहं प्राप्स्यति । ।। ०७.४.०७क ।।

 मित्रं मे मित्र-भाव्यभिप्रयातो बह्व्-अल्प-कालं तनु-क्षय-व्ययं अर्थं प्राप्स्यति । गुणवतीं आदेयां वा भूमिम् । ।। ०७.४.०७ड ।।

 सर्व-संदोहेन वा मां अनादृत्य प्रयातु-कामः कथं न यायाद्" इति पर-वृद्धि-प्रतिघात-अर्थं प्रताप-अर्थं च विगृह्यऽसीत ।। ०७.४.०७ए ।।

 "तं एव हि प्रत्यावृत्तो ग्रसते" इत्याचार्याः ।। ०७.४.०८ ।।

 नैति कौटिल्यः ।। ०७.४.०९ ।।

 कर्शन-मात्रं अस्य कुर्यादव्यसनिनः । पर-वृद्ध्या तु वृद्धः समुच्छेदनं ।। ०७.४.१० ।।

 एवं परस्य यातव्योअस्मै साहाय्यं अविनष्टः प्रयच्छेत् ।। ०७.४.११ ।।

 तस्मात्सर्व-संदोह-प्रकृतं विगृह्यऽसीत ।। ०७.४.१२ ।।

 विगृह्य-आसन-हेतु-प्रातिलोम्ये संधायऽसीत ।। ०७.४.१३ ।।

 विगृह्य-आसन-हेतुभिरभ्युच्चितः सर्व-संदोह-वर्जं विगृह्य यायात् ।। ०७.४.१४ ।।

 यदा वा पश्येत्"व्यसनी परः । प्रकृति-व्यसनं वाअस्य शीष-प्रकृतिभिरप्रतिकार्यम् । स्व-चक्र-पीडिता विरक्ता वाअस्य प्रकृतयः कर्शिता निरुत्साहाः परस्पराद्वा भिन्नाः शक्या लोभयितुम् । अग्न्य्-उदक-व्याधि-मरक-दुर्भिक्ष-निमित्तं क्षीण-युग्य-पुरुष-निचय-रक्षा-विधानः परः" इति तदा विगृह्य यायात् ।। ०७.४.१५ ।।

 यदा वा पश्येत्"मित्रं आक्रन्दश्च मे शूर-वृद्ध-अनुरक्त-प्रकृतिः । विपरीत-प्रकृतिः परः पार्ष्णि-ग्राहश्चऽसारश्च । शक्ष्यामि मित्रेणऽसारं आक्रन्देन पार्ष्णि-ग्राहं वा विगृह्य यातुम्" इति तदा विगृह्य यायात् ।। ०७.४.१६ ।।

 यदा वा फलं एक-हार्यं अल्प-कालं पश्येत्तदा पार्ष्णि-ग्राह-आसाराभ्यां विगृह्य यायात् ।। ०७.४.१७ ।।

 विपर्यये संधाय यायात् ।। ०७.४.१८ ।।

 यदा वा पश्येत्"न शक्यं एकेन यातुं अवश्यं च यातव्यम्" इति तदा सम-हीन-ज्यायोभिः सामवायिकैः सम्भूय यायाद् । एकत्र निर्दिष्टेनांशेन । अनेकत्रानिर्दिष्टेनांशेन ।। ०७.४.१९ ।।

 तेषां असमवाये दण्डं अन्यतमस्मान्निविष्ट-अंशेन याचेत ।। ०७.४.२० ।।

 सम्भूय-अभिगमनेन वा निर्विश्येत । ध्रुवे लाभे निर्दिष्टेनांशेन । अध्रुवे लाभ-अंशेन ।। ०७.४.२१ ।।

 अंशो दण्ड-समः पूर्वः प्रयास-सम उत्तमः । ।। ०७.४.२२अ ब ।।

 विलोपो वा यथा-लाभं प्रक्षेप-सम एव वा ।। ०७.४.२२च्द् ।।