अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 विजिगीषुः शक्त्य्-अपेक्षः षाड्गुण्यं उपयुञ्जीत ।। ०७.३.०१ ।।

 सम-ज्यायोभ्यां संधीयेत । हीनेन विगृह्णीयात् ।। ०७.३.०२ ।।

 विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इवाभ्युपैति ।। ०७.३.०३ ।।

 समेन चऽमं पात्रं आमेनाहतं इवौभयतः क्षयं करोति ।। ०७.३.०४ ।।

 कुम्भेनैवाश्मा हीनेनएक-अन्त-सिद्धिं अवाप्नोति ।। ०७.३.०५ ।।

 ज्यायांश्चेन्न संधिं इच्छेद्दण्ड-उपनत-वृत्तं आबलीयसं वा योगं आतिष्ठेत् ।। ०७.३.०६ ।।

 समश्चेन्न संधिं इच्छेद्यावन्-मात्रं अपकुर्यात्तावन्-मात्रं अस्य प्रत्यपकुर्यात् ।। ०७.३.०७ ।।

 तेजो हि संधान-कारणं ।। ०७.३.०८ ।।

 नातप्तं लोहं लोहेन संधत्त इति ।। ०७.३.०९ ।।

 हीनश्चेत्सर्वत्रानुप्रणतस्तिष्ठेत्संधिं उपेयात् ।। ०७.३.१० ।।

 आरण्योअग्निरिव हि दुःख-अमर्षजं तेजो विक्रमयति ।। ०७.३.११ ।।

 मण्डलस्य चानुग्राह्यो भवति ।। ०७.३.१२ ।।

 संहितश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिताः प्रत्यादान-भयाद्वा नौपगच्छन्ति" इति पश्येद्द्हीनोअपि विगृह्णीयात् ।। ०७.३.१३ ।।

 विगृहीतश्चेत्"पर-प्रकृतयो लुब्ध-क्षीण-अपचरिता विग्रह-उद्विग्ना वा मां नौपगच्छन्ति" इति पश्येज्ज्यायानपि संधीयेत । विग्रह-उद्वेगं वा शमयेत् ।। ०७.३.१४ ।।

 व्यसन-यौगपद्येअपि "गुरु-व्यसनोअस्मि । लघु-व्यसनः परः सुखेन प्रतिकृत्य व्यसनं आत्मनोअभियुञ्ज्याद्" इति पश्येज्ज्यायानपि संधीयेत ।। ०७.३.१५ ।।

 संधि-विग्रहयोश्चेत्पर-कर्शनं आत्म-उपचयं वा नाभिपश्येज्ज्यायानप्यासीत ।। ०७.३.१६ ।।

 पर-व्यसनं अप्रतिकार्यं चेत्पश्येद्द्हीनोअप्यभियायात् ।। ०७.३.१७ ।।

 अप्रतिकार्य-आसन्न-व्यसनो वा ज्यायानपि संश्रयेत ।। ०७.३.१८ ।।

 संधिनाएकतो विग्रहेणएकतश्चेत्कार्य-सिद्धिं पश्येज्ज्यायानपि द्वैधी-भूतस्तिष्ठेत् ।। ०७.३.१९ ।।

 एवं समस्य षाड्गुण्य-उपयोगः ।। ०७.३.२० ।।

 तत्र तु प्रतिविशेषः ।। ०७.३.२१ ।।

 प्रवृत्त-चक्रेणऽक्रान्तो राज्ञा बलवताअबलः । ।। ०७.३.२२अ ब ।।

 संधिनाउपनमेत्तूर्णं कोश-दण्ड-आत्म-भूमिभिः ।। ०७.३.२२च्द् ।।

 स्वयं संख्यात-दण्डेन दण्डस्य विभवेन वा । ।। ०७.३.२३अ ब ।।

 उपस्थातव्यं इत्येष संधिरात्म-आमिषो मतः ।। ०७.३.२३च्द् ।।

 सेना-पति-कुमाराभ्यां उपस्थातव्यं इत्ययं । ।। ०७.३.२४अ ब ।।

 पुरुष-अन्तर-संधिः स्यान्नऽत्मनाइत्यात्म-रक्षणः ।। ०७.३.२४च्द् ।।

 एकेनान्यत्र यातव्यं स्वयं दण्डेन वाइत्ययं । ।। ०७.३.२५अ ब ।।

 अदृष्ट-पुरुषः संधिर्दण्ड-मुख्य-आत्म-रक्षणः ।। ०७.३.२५च्द् ।।

 मुख्य-स्त्री-बन्धनं कुर्यात्पूर्वयोः पश्चिमे त्वरिं । ।। ०७.३.२६अ ब ।।

 साधयेद्गूढं इत्येते दण्ड-उपनत-संधयः ।। ०७.३.२६च्द् ।।

 कोश-दानेन शेषाणां प्रकृतीनां विमोक्षणं । ।। ०७.३.२७अ ब ।।

 परिक्रयो भवेत्संधिः स एव च यथा-सुखं ।। ०७.३.२७च्द् ।।

 स्कन्ध-उपनेयो बहुधा ज्ञेयः संधिरुपग्रहः । ।। ०७.३.२८अ ब ।।

 निरुद्धो देश-कालाभ्यां अत्ययः स्यादुपग्रहः ।। ०७.३.२८च्द् ।।

 विषह्य-दानादायत्यां क्षमः स्त्री-बन्धनादपि । ।। ०७.३.२९अ ब ।।

 सुवर्ण-संधिर्विश्वासादेकी-भाव-गतो भवेत् ।। ०७.३.२९च्द् ।।

 विपरीतः कपालः स्यादत्यादान-अभिभाषितः । ।। ०७.३.३०अ ब ।।

 पूर्वयोः प्रणयेत्कुप्यं हस्त्य्-अश्वं वा गर-अन्वितं ।। ०७.३.३०च्द् ।।

 तृतीये प्रणयेदर्थं कथयन्कर्मणां क्षयं । ।। ०७.३.३१अ ब ।।

 तिष्ठेच्चतुर्थ इत्येते कोश-उपनत-संधयः ।। ०७.३.३१च्द् ।।

 भूम्य्-एक-देश-त्यागेन शेष-प्रकृति-रक्षणं । ।। ०७.३.३२अ ब ।।

 आदिष्ट-संधिस्तत्रैष्टो गूढ-स्तेन-उपघातिनः ।। ०७.३.३२च्द् ।।

 भूमीनां आत्त-साराणां मूल-वर्जं प्रणामनं । ।। ०७.३.३३अ ब ।।

 उच्छिन्न-संधिस्तत्रैष्टः पर-व्यसन-काङ्क्षिणः ।। ०७.३.३३च्द् ।।

 फल-दानेन भूमीनां मोक्षणं स्यादवक्रयः । ।। ०७.३.३४अ ब ।।

 फल-अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ।। ०७.३.३४च्द् ।।

 कुर्यादवेक्षणं पूर्वौ पश्चिमौ त्वाबलीयसं । ।। ०७.३.३५अ ब ।।

 आदाय फलं इत्येते देश-उपनत-संधयः ।। ०७.३.३५च्द् ।।

 स्व-कार्याणां वशेनएते देशे काले च भाषिताः । ।। ०७.३.३६अ ब ।।

 आबलीयसिकाः कार्यास्त्रिविधा हीन-संधयः ।। ०७.३.३६च्द् ।।