अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 संधि-विग्रहयोस्तुल्यायां वृद्धौ संधिं उपेयात् ।। ०७.२.०१ ।।

 विग्रहे हि क्षय-व्यय-प्रवास-प्रत्यवाया भवन्ति ।। ०७.२.०२ ।।

 तेनऽसन-यानयोरासनं व्याख्यातं ।। ०७.२.०३ ।।

 द्वैधी-भाव-संश्रययोर्द्वैधी-भावं गच्छेत् ।। ०७.२.०४ ।।

 द्वैधी-भूतो हि स्व-कर्म-प्रधान आत्मन एवौपकरोति । संश्रितस्तु परस्यौपकरोति । नऽत्मनः ।। ०७.२.०५ ।।

 यद्-बलः सामन्तस्तद्-विशिष्ट-बलं आश्रयेत् ।। ०७.२.०६ ।।

 तद्-विशिष्ट-बल-अभावे तं एवऽश्रितः कोश-दण्ड-भूमीनां अन्यतमेनास्यौपकर्तुं अदृष्टः प्रयतेत ।। ०७.२.०७ ।।

 महा-दोषो हि विशिष्ट-बल-समागमो राज्ञाम् । अन्यत्रारि-विगृहीतात् ।। ०७.२.०८ ।।

 अशक्ये दण्ड-उपनतवद्वर्तेत ।। ०७.२.०९ ।।

 यदा चास्य प्राण-हरं व्याधिं अन्तः-कोपं शत्रु-वृद्धिं मित्र-व्यसनं उपस्थितं वा तन्-निमित्तां आत्मनश्च वृद्धिं पश्येत्तदा सम्भाव्य-व्याधि-धर्म-कार्य-अपदेशेनापयायात् ।। ०७.२.१० ।।

 स्व-विषयस्थो वा नौपगच्छेत् ।। ०७.२.११ ।।

 आसन्नो वाअस्य च्छिद्रेषु प्रहरेत् ।। ०७.२.१२ ।।

 बलीयसोर्वा मध्य-गतस्त्राण-समर्थं आश्रयेत । यस्य वाअन्तर्धिः स्यात् । उभौ वा ।। ०७.२.१३ ।।

 कपाल-संश्रयस्तिष्ठेत् । मूल-हरं इतरस्यैतरं अपदिशन् ।। ०७.२.१४ ।।

 भेदं उभयोर्वा परस्पर-अपदेशं प्रयुञ्जीत । भिन्नयोरुपांशु-दण्डं ।। ०७.२.१५ ।।

 पार्श्वस्थो वा बलस्थयोरासन्न-भयात्प्रतिकुर्वीत ।। ०७.२.१६ ।।

 दुर्ग-अपाश्रयो वा द्वैधी-भूतस्तिष्ठेत् ।। ०७.२.१७ ।।

 संधि-विग्रह-क्रम-हेतुभिर्वा चेष्टेत ।। ०७.२.१८ ।।

 दूष्य-अमित्र-आटविकानुभयोरुपगृह्णीयात् ।। ०७.२.१९ ।।

 एतयोरन्यतरं गच्छंस्तैरेवान्यतरस्य व्यसने प्रहरेत् ।। ०७.२.२० ।।

 द्वाभ्यां उपहतो वा मण्डल-अपाश्रयस्तिष्ठेत् । मध्यमं उदासीनं वा संश्रयेत ।। ०७.२.२१ ।।

 तेन सहएकं उपगृह्यैतरं उच्छिन्द्याद् । उभौ वा ।। ०७.२.२२ ।।

 द्वाभ्यां उच्छिन्नो वा मध्यम-उदासीनयोस्तत्-पक्षीयाणां वा राज्ञां न्याय-वृत्तिं आश्रयेत ।। ०७.२.२३ ।।

 तुल्यानां वा यस्य प्रकृतयः सुख्येयुरेनम् । यत्रस्थो वा शक्नुयादात्मानं उद्धर्तुम् । यत्र वा पूर्व-पुरुष-उचिता गतिरासन्नः सम्बन्धो वा । मित्राणि भूयांस्यतिशक्तिमन्ति वा भवेयुः ।। ०७.२.२४ ।।

 प्रियो यस्य भवेद्यो वा प्रियोअस्य कतरस्तयोः । ।। ०७.२.२५अ ब ।।

 प्रियो यस्य स तं गच्छेदित्याश्रय-गतिः परा ।। ०७.२.२५च्द् ।।