अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 षाड्गुण्यस्य प्रकृति-मण्डलं योनिः ।। ०७.१.०१ ।।

 "संधि-विग्रह-आसन-यान-संश्रय-द्वैधी-भावाः षाड्गुण्यम्" इत्याचार्याः ।। ०७.१.०२ ।।

 "द्वैगुण्यम्" इति वात-व्याधिः ।। ०७.१.०३ ।।

 "संधि-विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ।। ०७.१.०४ ।।

 षाड्गुण्यं एवएतदवस्था-भेदादिति कौटिल्यः ।। ०७.१.०५ ।।

 तत्र पण-बन्धः संधिः ।। ०७.१.०६ ।।

 अपकारो विग्रहः ।। ०७.१.०७ ।।

 उपेक्षणं आसनं ।। ०७.१.०८ ।।

 अभ्युच्चयो यानं ।। ०७.१.०९ ।।

 पर-अर्पणं संश्रयः ।। ०७.१.१० ।।

 संधि-विग्रह-उपादानं द्वैधी-भावः ।। ०७.१.११ ।।

 इति षड्-गुणाः ।। ०७.१.१२ ।।

 परस्माद्द्हीयमानः संदधीत ।। ०७.१.१३ ।।

 अभ्युच्चीयमानो विगृह्णीयात् ।। ०७.१.१४ ।।

 "न मां परो नाहं परं उपहन्तुं शक्तः" इत्यासीत ।। ०७.१.१५ ।।

 गुण-अतिशय-युक्तो यायात् ।। ०७.१.१६ ।।

 शक्ति-हीनः संश्रयेत ।। ०७.१.१७ ।।

 सहाय-साध्ये कार्ये द्वैधीभावं गच्छेत् ।। ०७.१.१८ ।।

 इति गुण-अवस्थापनं ।। ०७.१.१९ ।।

 तेषां यस्मिन्वा गुणे स्थितः पश्येत्"इह-स्थः शक्ष्यामि दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्माण्यात्मनः प्रवर्तयितुम् । परस्य चएतानि कर्माण्युपहन्तुम्" इति तं आतिष्ठेत् ।। ०७.१.२० ।।

 सा वृद्धिः ।। ०७.१.२१ ।।

 "आशुतरा मे वृद्धिर्भूयस्तरा वृद्ध्य्-उदयतरा वा भविष्यति । विपरीता परस्य" इति ज्ञात्वा पर-वृद्धिं उपेक्षेत ।। ०७.१.२२ ।।

 तुल्य-काल-फल-उदयायां वा वृद्धौ संधिं उपेयात् ।। ०७.१.२३ ।।

 यस्मिन्वा गुणे स्थितः स्व-कर्मणां उपघातं पश्येन्नैतरस्य तस्मिन्न तिष्ठेत् ।। ०७.१.२४ ।।

 एष क्षयः ।। ०७.१.२५ ।।

 "चिरतरेणाल्पतरं वृद्ध्य्-उदयतरं वा क्षेष्ये । विपरीतं परः" इति ज्ञात्वा क्षयं उपेक्षेत ।। ०७.१.२६ ।।

 तुल्य-काल-फल-उदये वा क्षये संधिं उपेयात् ।। ०७.१.२७ ।।

 यस्मिन्वा गुणे स्थितः स्व-कर्म-वृद्धिं क्षयं वा नाभिपश्येदेतत्-स्थानं ।। ०७.१.२८ ।।

 "ह्रस्वतरं वृद्ध्य्-उदयतरं वा स्थास्यामि । विपरीतं परः" इति ज्ञात्वा स्थानं उपेक्षेत ।। ०७.१.२९ ।।

 "तुल्य-काल-फल-उदये वा स्थाने संधिं उपेयाद्" इत्याचार्याः ।। ०७.१.३० ।।

 नएतद्विभाषितं इति कौटिल्यः ।। ०७.१.३१ ।।

 यदि वा पश्येत्"सन्धौ स्थितो महा-फलैः स्व-कर्मभिः पर-कर्माण्युपहनिष्यामि । महा-फलानि वा स्व-कर्माण्युपभोक्ष्ये । पर-कर्माणि वा । संधि-विश्वासेन वा योग-उपनिषत्-प्रणिधिभिः पर-कर्माण्युपहनिष्यामि । सुखं वा स-अनुग्रह-परिहार-सौकर्यं फल-लाभ-भूयस्त्वेन स्व-कर्मणां पर-कर्म-योग-आवहं जनं आस्रावयिष्यामि ।। ०७.१.३२अ ।।

 बलिनाअतिमात्रेण वा संहितः परः स्व-कर्म-उपघातं प्राप्स्यति । येन वा विगृहीतो मया-संधत्ते तेनास्य विग्रहं दीर्घं करिष्यामि । मया वा संहितस्य मद्-द्वेषिणो जन-पदं पीडयिष्यति ।। ०७.१.३२ब ।।

 पर-उपहतो वाअस्य जन-पदो मां आगमिष्यति । ततः कर्मसु वृद्धिं प्राप्स्यामि । विपन्न-कर्म-आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत ।। ०७.१.३२क ।।

 परतः प्रवृत्त-कर्म-आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि । शत्रु-प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि ।। ०७.१.३२ड ।।

 भिन्नं अवाप्स्यामि । दण्ड-अनुग्रहेण वा शत्रुं उपगृह्य मण्डल-लिप्सायां विद्वेषं ग्राहयिष्यामि । विद्विष्टं तेनएव घातयिष्यामि" इति संधिना वृद्धिं आतिष्ठेत् ।। ०७.१.३२ए ।।

 यदि वा पश्येत्"आयुधीय-प्रायः श्रेणी-प्रायो वा मे जन-पदः शैल-वन-नदी-दुर्ग-एक-द्वार-आरक्षो वा शक्ष्यति पर-अभियोगं प्रतिहन्तुम् । विषय-अन्ते दुर्गं अविषह्यं अपाश्रितो वा शक्ष्यामि पर-कर्माण्युपहन्तुं ।। ०७.१.३३अ ।।

 व्यसन-पीड-उपहत-उत्साहो वा परः सम्प्राप्त-कर्म-उपघात-कालः । विगृहीतस्यान्यतो वा शक्ष्यामि जन-पदं अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिं आतिष्ठेत् ।। ०७.१.३३ब ।।

 यदि वा मन्येत "न मे शक्तः परः कर्माण्युपहन्तुं नाहं तस्य कर्म-उपघाती वा । व्यसनं अस्य । श्व-वराहयोरिव कलहे वा । स्व-कर्म-अनुष्ठान-परो वा वर्धिष्ये" इत्यासनेन वृद्धिं आतिष्ठेत् ।। ०७.१.३४ ।।

 यदि वा मन्येत "यान-साध्यः कर्म-उपघातः शत्रोः । प्रतिविहित-स्व-कर्म-आरक्षश्चास्मि" इति यानेन वृद्धिं आतिष्ठेत् ।। ०७.१.३५ ।।

 यदि वा मन्येत "नास्मि शक्तः पर-कर्माण्युपहन्तुम् । स्व-कर्म-उपघातं वा त्रातुम्" इति । बलवन्तं आश्रितः स्व-कर्म-अनुष्ठानेन क्षयात्स्थानं स्थानाद्वृद्धिं चऽकाङ्क्षेत ।। ०७.१.३६ ।।

 यदि वा मन्येत "संधिनाएकतः स्व-कर्माणि प्रवर्तयिष्यामि । विग्रहेणएकतः पर-कर्माण्युपहनिष्यामि" इति द्वैधी-भावेन वृद्धिं आतिष्ठेत् ।। ०७.१.३७ ।।

 एवं षड्भिर्गुणैरेतैः स्थितः प्रकृति-मण्डले । ।। ०७.१.३८अ ब ।।

 पर्येषेत क्षयात्स्थानं स्थानाद्वृद्धिं च कर्मसु ।। ०७.१.३८च्द् ।।