अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ अर्थशास्त्रम्
अध्यायः १७
कौटिलीय:
अध्यायः १८ →

 शमः संधिः समाधिरित्येकोअर्थः ।। ०७.१७.०१ ।।

 राज्ञां विश्वास-उपगमः शमः संधिः समाधिरिति ।। ०७.१७.०२ ।।

 "सत्यं शपथो वा चलः संधिः । प्रतिभूः प्रतिग्रहो वा स्थावरः" इत्याचार्याः ।। ०७.१७.०३ ।।

 नैति कौटिल्यः ।। ०७.१७.०४ ।।

 सत्यं शपथो वा परत्रैह च स्थावरः संधिः । इह-अर्थ एव प्रतिभूः प्रतिग्रहो वा बल-अपेक्षः ।। ०७.१७.०५ ।।

 "संहिताः स्मः" इति सत्य-संधाः पूर्वे राजानः सत्येन संदधिरे ।। ०७.१७.०६ ।।

 तस्यातिक्रमे शपथेन अग्न्य्-उदक-सीता-प्राकार-लोष्ट-हस्ति-स्कन्ध-अश्व-पृष्ट-रथ-उपस्थ-शस्त्र-रत्न-बीज-गन्ध-रस-सुवर्ण-हिरण्यान्यालेभिरे "हन्युरेतानि त्यजेयुश्चएनं यः शपथं अतिक्रामेत्" इति ।। ०७.१७.०७ ।।

 शपथ-अतिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्य-बन्धः प्रतिभूः ।। ०७.१७.०८ ।।

 तस्मिन्यः पर-अवग्रह-समर्थान्प्रतिभुवो गृह्णाति । सोअतिसंधत्ते ।। ०७.१७.०९ ।।

 विपरीतोअतिसंधीयते ।। ०७.१७.१० ।।

 बन्धु-मुख्य-प्रग्रहः प्रतिग्रहः ।। ०७.१७.११ ।।

 तस्मिन्यो दूष्य-अमात्यं दूष्य-अपत्यं वा ददाति । सोअतिसंधत्ते ।। ०७.१७.१२ ।।

 विपरीतोअतिसंधीयते ।। ०७.१७.१३ ।।

 प्रतिग्रह-ग्रहण-विश्वस्तस्य हि परश्छिद्रेषु निरपेक्षः प्रहरति ।। ०७.१७.१४ ।।

 अपत्य-समाधौ तु कन्या-पुत्र-दाने ददत्तु कन्यां अतिसंधत्ते ।। ०७.१७.१५ ।।

 कन्या ह्यदायादा परेषां एवार्थायऽक्लेश्या(?) च ।। ०७.१७.१६ ।।

 विपरीतः पुत्रः ।। ०७.१७.१७ ।।

 पुत्रयोरपि यो जात्यं प्राज्ञं शूरं कृत-अस्त्रं एक-पुत्रं वा ददाति सोअतिसंधीयते ।। ०७.१७.१८ ।।

 विपरीतोअतिसंधत्ते ।। ०७.१७.१९ ।।

 जात्यादजात्यो हि लुप्त-दायाद-संतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-शक्ति-लोपात् । शूरादशूर उत्साह-शक्ति-लोपात् । कृत-अस्त्रादकृत-अस्त्रः प्रहर्तव्य-सम्पल्-लोपात् । एक-पुत्रादनेक-पुत्रो निरपेक्षत्वात् ।। ०७.१७.२० ।।

 जात्य-प्राज्ञयोर्जात्यं अप्राज्ञं ऐश्वर्य-प्रकृतिरनुवर्तते । प्राज्ञं अजात्यं मन्त्र-अधिकारः ।। ०७.१७.२१ ।।

 मन्त्र-अधिकारेअपि वृद्ध-सम्योगाज्जात्यः प्राज्ञं अतिसंधत्ते ।। ०७.१७.२२ ।।

 प्राज्ञ-शूरयोः प्राज्ञं अशूरं मति-कर्मणां योगोअनुवर्तते । शूरं अप्राज्ञं विक्रम-अधिकारः ।। ०७.१७.२३ ।।

 विक्रम-अधिकारेअपि हस्तिनं इव लुब्धकः प्राज्ञः शूरं अतिसंधत्तेश् ।। ०७.१७.२४ ।।

 शूर-कृत-अस्त्रयोः शूरं अकृत-अस्त्रं विक्रम-व्यवसायोअनुवर्तते । कृत-अस्त्रं अशूरं लक्ष्य-लम्भ-अधिकारः ।। ०७.१७.२५ ।।

 लक्ष्य-लम्भ-अधिकारेअपि स्थैर्य-प्रतिपत्त्य्-असम्मोषैः शूरः कृत-अस्त्रं अतिसंधत्ते ।। ०७.१७.२६ ।।

 बह्व्-एक-पुत्रयोर्बहु-पुत्र एकं दत्त्वा शेष-प्रतिष्टब्धः संधिं अतिक्रामति । नैतरः ।। ०७.१७.२७ ।।

 पुत्र-सर्व-स्व-दाने संधिश्चेत्पुत्र-फलतो विशेषः ।। ०७.१७.२८ ।।

 सम-फलयोः शक्त-प्रजननतो विशेषः ।। ०७.१७.२९ ।।

 शक्त-प्रजननयोरप्युपस्थित-प्रजननतो विशेषः ।। ०७.१७.३० ।।

 शक्तिमत्येक-पुत्रे तु लुप्त-पुत्र-उत्पत्तिरात्मानं आदध्यात् । न चएक-पुत्रं इति ।। ०७.१७.३१ ।।

 अभ्युच्चीयमानः समाधि-मोक्षं कारयेत् ।। ०७.१७.३२ ।।

 कुमार-आसन्नाः सत्त्रिणः कारु-शिल्पि-व्यञ्जनाः कर्माणि कुर्वाणाः सुरुङ्गया रात्रावुपखानयित्वा कुमारं अपहरेयुः ।। ०७.१७.३३ ।।

 नटनर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिका वा पूर्व-प्रणिहिताः परं उपतिष्ठेरन् ।। ०७.१७.३४ ।।

 ते कुमारं परं-परयाउपतिष्ठेरन् ।। ०७.१७.३५ ।।

 तेषां अनियत-काल-प्रवेश-स्थान-निर्गमनानि स्थापयेत् ।। ०७.१७.३६ ।।

 ततस्तद्-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.३७ ।।

 तेन रूप-आजीवा भार्या-व्यञ्जनाश्च व्याख्याताः ।। ०७.१७.३८ ।।

 तेषां वा तूर्य-भाण्ड-फेलां गृहीत्वा निर्गच्छेत् ।। ०७.१७.३९ ।।

 सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारकैर्वा द्रव्य-वस्त्र-भाण्ड-फेला-शयन-आसन-सम्भोगैर्निर्ह्रियेत ।। ०७.१७.४० ।।

 परिचारकच्-छद्मना वा किंचिदरूप-वेलायां आदाय निर्गच्छेत् । सुरुङ्गा-मुखेन वा निशा-उपहारेण ।। ०७.१७.४१ ।।

 तोय-आशये वा वारुणं योगं आतिष्ठेत् ।। ०७.१७.४२ ।।

 वैदेहक-व्यञ्जना वा पक्व-अन्न-फल-व्यवहारेणऽरक्षिषु रसं उपचारयेयुः ।। ०७.१७.४३ ।।

 दैवत-उपहार-श्राद्ध-प्रहवण-निमित्तं आरक्षिषु मदन-योग-युक्तं अन्न-पानं रसं वा प्रयुज्यापगच्छेत् । आरक्षक-प्रोत्साहनेन वा ।। ०७.१७.४४ ।।

 नागरक-कुशीलव-चिकित्सक-आपूपिक-व्यञ्जना वा रात्रौ समृद्ध-गृहाण्यादीपयेयुः आरक्षिणां वा ।। ०७.१७.४५ ।।

 वैदेहक-व्यञ्जना वा पण्य-संस्थां आदीपयेयुः ।। ०७.१७.४६ ।।

 अन्यद्वा शरीरं निक्षिप्य स्व-गृहं आदीपयेदनुपात-भयात् ।। ०७.१७.४७ ।।

 ततः संधिच्-छेद-खात-सुरुङ्गाभिरपगच्छेत् ।। ०७.१७.४८ ।।

 काच-कुम्भ-भाण्ड-भार-व्यञ्जनो वा रात्रौ प्रतिष्ठेत ।। ०७.१७.४९ ।।

 मुण्ड-जटिलानां प्रवासनान्यनुप्रविष्टो वा रात्रौ तद्-व्यञ्जनः प्रतिष्ठेत । विरूप-व्याधि-करण-अरण्य-चरच्-छद्मनां अन्यतमेन वा ।। ०७.१७.५० ।।

 प्रेत-व्यञ्जनो वा गूढैर्निर्ह्रियेत ।। ०७.१७.५१ ।।

 प्रेतं वा स्त्री-वेषेणानुगच्छेत् ।। ०७.१७.५२ ।।

 वन-चर-व्यञ्जनाश्चएनं अन्यतो यान्तं अन्यतोअपदिशेयुः ।। ०७.१७.५३ ।।

 ततोअन्यतो गच्छेत् ।। ०७.१७.५४ ।।

 चक्र-चराणां वा शकट-वाटैरपगच्छेत् ।। ०७.१७.५५ ।।

 आसन्ने चानुपाते सत्त्रं वा गृह्णीयात् ।। ०७.१७.५६ ।।

 सत्त्र-अभावे हिरण्यं रस-विद्धं वा भक्ष्य-जातं उभयतः-पन्थानं उत्सृजेत् ।। ०७.१७.५७ ।।

 ततोअन्यतोअपगच्छेत् ।। ०७.१७.५८ ।।

 गृहीतो वा साम-आदिभिरनुपातं अतिसंदध्यात् । रस-विद्धेन वा पथ्य्-अदनेन ।। ०७.१७.५९ ।।

 वारुण-योग-अग्नि-दाहेषु वा शरीरं अन्यदाधाय शत्रुं अभियुञ्जीत "पुत्रो मे त्वया हतः" इति ।। ०७.१७.६० ।।

 उपात्तच्-छन्न-शस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।। ०७.१७.६१अ ।।

 शीघ्र-पातैरपसरेद्गूढ-प्रणिहितैः सह ।। ०७.१७.६१ब ।।