अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ अर्थशास्त्रम्
अध्यायः १६
कौटिलीय:
अध्यायः १७ →

 अनुज्ञात-संधि-पण-उद्वेग-करं बलवान्विजिगीषमाणो यतः स्व-भूमिः स्व-ऋतु-वृत्तिश्च स्व-सैन्यानाम् । अदुर्ग-अपसारः शत्रुर्-अपार्ष्णिरनासारश्च । ततो यायात् ।। ०७.१६.०१ ।।

 विपर्यये कृत-प्रतीकारो यायात् ।। ०७.१६.०२ ।।

 साम-दानाभ्यां दुर्बलानुपनमयेत् । भेद-दण्डाभ्यां बलवतः ।। ०७.१६.०३ ।।

 नियोग-विकल्प-समुच्चयैश्चौपायानां अनन्तर-एक-अन्तराः प्रकृतीः साधयेत् ।। ०७.१६.०४ ।।

 ग्राम-अरण्य-उपजीवि-व्रज-वणिक्-पथ-अनुपालनं उज्झित-अपसृत-अपकारिणां चार्पणं इति सान्त्वं आचरेत् ।। ०७.१६.०५ ।।

 भूमि-द्रव्य-कन्या-दानं अभयस्य चैति दानं आचरेत् ।। ०७.१६.०६ ।।

 सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतम-उपग्रहेण कोश-दण्ड-भूमि-दाय-याचनं इति भेदं आचरेत् ।। ०७.१६.०७ ।।

 प्रकाश-कूट-तूष्णीं-युद्ध-दुर्ग-लम्भ-उपायैरमित्र-प्रग्रहणं इति दण्डं आचरेत् ।। ०७.१६.०८ ।।

 एवं उत्साहवतो दण्ड-उपकारिणः स्थापयेत् । स्व-प्रभाववतः कोश-उपकारिणः । प्रज्ञावतो भूम्य्-उपकारिणः ।। ०७.१६.०९ ।।

 तेषां पण्य-पत्तन-ग्राम-खनि-संजातेन रत्न-सार-फल्गु-कुप्येन द्रव्य-हस्ति-वन-व्रज-समुत्थेन यान-वाहनेन वा यद्बहुश उपकरोति तच्चित्र-भोगं ।। ०७.१६.१० ।।

 यद्दण्डेन कोशेन वा महदुपकरोति तन्महा-भोगं ।। ०७.१६.११ ।।

 यद्दण्ड-कोश-भूमीभिरुपकरोति तत्सर्व-भोगं ।। ०७.१६.१२ ।।

 यदमित्रं एकतः प्रतिकरोति तदेकतो-भोगि ।। ०७.१६.१३ ।।

 यदमित्रं आसारं चौभयतः प्रतिकरोति तदुभयतो-भोगि ।। ०७.१६.१४ ।।

 यदमित्र-आसार-प्रतिवेश-आटविकान्सर्वतः प्रतिकरोति तत्सर्वतो-भोगि ।। ०७.१६.१५ ।।

 पार्ष्णि-ग्राहश्चऽटविकः शत्रु-मुख्यः शत्रुर्वा भूमि-दान-साध्यः कश्चिदासाद्येत । निर्गुणया भूम्याएनं उपग्राहयेत् । अप्रतिसम्बद्धया दुर्गस्थम् । निरुपजीव्ययाआटविकं ।। ०७.१६.१६अ ।।

 प्रत्यादेयया तत्-कुलीनं शत्रोः । अपच्छिन्नया शत्रोरपरुद्धं नित्य-अमित्रया श्रेणी-बलम् । बलवत्-सामन्तया संहत-बलम् । उभाभ्यां युद्धे प्रतिलोमम् । ।। ०७.१६.१६ब ।।

 अलब्ध-व्यायामयाउत्साहिनम् । शूययाअरि-पक्षीयम् । कर्शितयाअपवाहितम् । महा-क्षय-व्यय-निवेशया गत-प्रत्यागतम् । अनपाश्रयया प्रत्यपसृतम् । परेणानधिवास्यया स्वयं एव भर्तारं उपग्राहयेत् ।। ०७.१६.१६क ।।

 तेषां महा-उपकारं निर्विकारं चानुवर्तयेत् ।। ०७.१६.१७ ।।

 प्रतिलोमं उपांशुना साधयेत् ।। ०७.१६.१८ ।।

 उपकारिणं उपकार-शक्त्या तोषयेत् ।। ०७.१६.१९ ।।

 प्रयासतश्चार्थ-मानौ कुर्याद् । व्यसनेषु चानुग्रहं ।। ०७.१६.२० ।।

 स्वयं-आगतानां यथा-इष्ट-दर्शनं प्रतिविधानं च कुर्यात् ।। ०७.१६.२१ ।।

 परिभव-उपघात-कुत्स-अतिवादांश्चएषु न प्रयुञ्जीत ।। ०७.१६.२२ ।।

 दत्त्वा चाभयं पिताइवानुगृह्णीयात् ।। ०७.१६.२३ ।।

 यश्चास्यापकुर्यात्तद्दोषं अभिविख्याप्य प्रकाशं एनं घातयेत् ।। ०७.१६.२४ ।।

 पर-उद्वेग-कारणाद्वा दाण्डकर्मिकवच्चेष्टेत ।। ०७.१६.२५ ।।

 न च हतस्य भूमि-द्रव्य-पुत्र-दारानभिमन्येत ।। ०७.१६.२६ ।।

 कुल्यानप्यस्य स्वेषु पात्रेषु स्थापयेत् ।। ०७.१६.२७ ।।

 कर्मणि मृतस्य पुत्रं राज्ये स्थापयेत् ।। ०७.१६.२८ ।।

 एवं अस्य दण्ड-उपनताः पुत्र-पौत्राननुवर्तन्ते ।। ०७.१६.२९ ।।

 यस्तुउपनतान्हत्वा बद्ध्वा वा भूमि-द्रव्य-पुत्र-दारानभिमन्येत तस्यौद्विग्नं मण्डलं अभावायौत्तिष्ठते ।। ०७.१६.३० ।।

 ये चास्यामात्याः स्व-भूमिष्वायत्तास्ते चास्यौद्विग्ना मण्डलं आश्रयन्ते ।। ०७.१६.३१ ।।

 स्वयं वा राज्यं प्राणान्वाअस्याभिमन्यन्ते ।। ०७.१६.३२ ।।

 स्व-भूमिषु च राजानस्तस्मात्साम्नाअनुपालिताः । ।। ०७.१६.३३अ ब ।।

 भवन्त्यनुगुणा राज्ञः पुत्र-पौत्र-अनुवर्तिनः ।। ०७.१६.३३च्द् ।।