अर्थशास्त्रम्/अधिकरणम् ७/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७ अर्थशास्त्रम्
अध्यायः १८
कौटिलीय:

 मध्यमस्यऽत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ।। ०७.१८.०१ ।।

 द्वितीया चतुर्थी षष्ठी च विकृतयः ।। ०७.१८.०२ ।।

 तच्चेदुभयं मध्यमोअनुगृह्णीयात् । विजिगीषुर्मध्यम-अनुलोमः स्यात् ।। ०७.१८.०३ ।।

 न चेदनुगृह्णीयात् । प्रकृत्य्-अनुलोमः स्यात् ।। ०७.१८.०४ ।।

 मद्यमश्चेद्विजिगीषोर्मित्रं मित्र-भावि लिप्सेत । मित्रस्यऽत्मनश्च मित्राण्युत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रं त्रायेत ।। ०७.१८.०५ ।।

 मण्डलं वा प्रोत्साहयेत्"अतिप्रवृद्धोअयं मध्यमः सर्वेषां नो विनाशायाभ्युत्थितः । सम्भूयास्य यात्रां विहनाम" इति ।। ०७.१८.०६ ।।

 तच्चेन्मण्डलं अनुगृह्णीयात् । मध्यम-अवग्रहेणऽत्मानं उपबृंहयेत् ।। ०७.१८.०७ ।।

 न चेदनुगृह्णीयात् । कोश-दण्डाभ्यां मित्रं अनुगृह्य ये मध्यम-द्वेषिणो राजानः परस्पर-अनुगृहीता वा बहवस्तिष्ठेयुः । एक-सिद्धौ वा बहवः सिध्येयुः । परस्पराद्वा शङ्किता नौत्तिष्ठेरन् । तेषां प्रधानं एकं आसन्नं वा साम-दानाभ्यां लभेत ।। ०७.१८.०८ ।।

 द्वि-गुणो द्वितीयं त्रि-गुनस्तृतीयं ।। ०७.१८.०९ ।।

 एवं अभ्युच्चितो मध्यमं अवगृह्णीयात् ।। ०७.१८.१० ।।

 देश-काल-अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात् । दूष्येषु वा कर्म-संधिं ।। ०७.१८.११ ।।

 कर्शनीयं वाअस्य मित्रं मध्यमो लिप्सेत । प्रतिस्तम्भयेदेनं "अहं त्वा त्रायेय" इति आ कर्शनात् ।। ०७.१८.१२ ।।

 कर्शितं एनं त्रायेत ।। ०७.१८.१३ ।।

 उच्छेदनीयं वाअस्य मित्रं मध्यमो लिप्सेत । कर्शितं एनं त्रायेत मध्यम-वृद्धि-भयात् ।। ०७.१८.१४ ।।

 उच्छिन्नं वा भूम्य्-अनुग्रहेण हस्ते कुर्यादन्यत्रापसार-भयात् ।। ०७.१८.१५ ।।

 कर्शनीय-उच्छेदनीययोश्चेन्मित्राणि मध्यमस्य साचिव्य-कराणि स्युः । पुरुष-अन्तरेण संधीयेत ।। ०७.१८.१६ ।।

 विजिगीषोर्वा तयोर्मित्राण्यवग्रह-समर्थानि स्युः । संधिं उपेयात् ।। ०७.१८.१७ ।।

 अमित्रं वाअस्य मध्यमो लिप्सेत । संधिं उपेयात् ।। ०७.१८.१८ ।।

 एवं स्व-अर्थश्च कृतो भवति मध्यमस्य प्रियं च ।। ०७.१८.१९ ।।

 मध्यमश्चेत्स्व-मित्रं मित्र-भावि लिप्सेत । पुरुष-अन्तरेण संदध्यात् ।। ०७.१८.२० ।।

 स-अपेक्षं वा "नार्हसि मित्रं उच्छेत्तुम्" इति वारयेत् ।। ०७.१८.२१ ।।

 उपेक्षेत वा "मण्डलं अस्य कुप्यतु स्व-पक्ष-वधात्" इति ।। ०७.१८.२२ ।।

 अमित्रं आत्मनो वा मध्यमो लिप्सेत । कोश-दण्डाभ्यां एनं अदृश्यमानोअनुगृह्णीयात् ।। ०७.१८.२३ ।।

 उदासीनं वा मध्यमो लिप्सेत । अस्मै साहाय्यं दद्याद्"उदासीनाद्भिद्यताम्" इति ।। ०७.१८.२४ ।।

 मध्यम-उदासीनयोर्यो मण्डलस्याभिप्रेतस्तं आश्रयेत ।। ०७.१८.२५ ।।

 मध्यम-चरितेनौदासीन-चरितं व्याख्यातं ।। ०७.१८.२६ ।।

 उदासीनश्चेन्मध्यमं लिप्सेत । यतः शत्रुं अतिसंदध्यान्मित्रस्यौपकारं कुर्यादुदासीनं वा दण्ड-उपकारिणं लभेत ततः परिणमेत ।। ०७.१८.२७ ।।

 एवं उपबृह्यऽत्मानं अरि-प्रकृतिं कर्शयेन्मित्र-प्रकृतिं चौपगृह्णीयात् ।। ०७.१८.२८ ।।

 सत्यप्यमित्र-भावे तस्यानात्मवान्नित्य-अपकारी शत्रुः शत्रु-संहितः पार्ष्णि-ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुरभियोक्ता इत्यरि-भाविनः । एक-अर्थ-अभिप्रयातः पृथग्-अर्थ-अभिप्रयातः सम्भूय-यात्रिकः संहित-प्रयाणिकः स्व-अर्थ-अभिप्रयातः सामुत्थायिकः कोश-दण्डयोरन्यतरस्य क्रेता विक्रेता वा द्वैधी-भाविक इति मित्र-भाविनः । ।। ०७.१८.२९अ ।।

 सामन्तो बलवतः प्रतिघातोअन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि-ग्राहो वा स्वयं उपनतः प्रताप-उपनतो वा दण्ड-उपनत इति भृत्य-भाविनः सामन्ताः ।। ०७.१८.२९ब ।।

 तैर्भूम्य्-एक-अन्तरा व्याख्याताः ।। ०७.१८.३० ।।

 तेषां शत्रु-विरोधे यन्मित्रं एक-अर्थतां व्रजेत् । ।। ०७.१८.३१अ ब ।।

 शक्त्या तद्-अनुगृह्णीयाद्विषहेत यया परं ।। ०७.१८.३१च्द् ।।

 प्रसाध्य शत्रुं यन्मित्रं वृद्धं गच्छेदवश्यतां । ।। ०७.१८.३२अ ब ।।

 सामन्त-एक-अन्तराभ्यां तत्-प्रकृतिभ्यां विरोधयेत् ।। ०७.१८.३२च्द् ।।

 तत्-कुलीन-अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् । ।। ०७.१८.३३अ ब ।।

 यथा वाअनुग्रह-अपेक्षं वश्यं तिष्ठेत्तथा चरेत् ।। ०७.१८.३३च्द् ।।

 नौपकुर्यादमित्रं वा गच्छेद्यदतिकर्शितं । ।। ०७.१८.३४अ ब ।।

 तदहीनं अवृद्धं च स्थापयेन्मित्रं अर्थवित् ।। ०७.१८.३४च्द् ।।

 अर्थ-युक्त्या चलं मित्रं संधिं यदुपगच्छति । ।। ०७.१८.३५अ ब ।।

 तस्यापगमने हेतुं विहन्यान्न चलेद्यथा ।। ०७.१८.३५च्द् ।।

 अरि-साधारणं यद्वा तिष्ठेत्तदरितः शठं । ।। ०७.१८.३६अ ब ।।

 भेदयेद्भिन्नं उच्छिन्द्यात्ततः शत्रुं अनन्तरं ।। ०७.१८.३६च्द् ।।

 उदासीनं च यत्तिष्ठेत्सामन्तैस्तद्विरोधयेत् । ।। ०७.१८.३७अ ब ।।

 ततो विग्रह-संतप्तं उपकारे निवेशयेत् ।। ०७.१८.३७च्द् ।।

 अमित्रं विजिगीषुं च यत्संचरति दुर्बलं । ।। ०७.१८.३८अ ब ।।

 तद्बलेनानुगृह्णीयाद्यथा स्यान्न परान्-मुखं ।। ०७.१८.३८च्द् ।।

 अपनीय ततोअन्यस्यां भूमौ वा सम्निवेशयेत् । ।। ०७.१८.३९अ ब ।।

 निवेश्य पूर्वं तत्रान्यद्दण्ड-अनुग्रह-हेतुना ।। ०७.१८.३९च्द् ।।

 अपकुर्यात्समर्थं वा नौपकुर्याद्यदापदि । ।। ०७.१८.४०अ ब ।।

 उच्छिन्द्यादेव तन्-मित्रं विश्वस्याङ्कं उपस्थितं ।। ०७.१८.४०च्द् ।।

 मित्र-व्यसनतो वाअरिरुत्तिष्ठेद्योअनवग्रहः । ।। ०७.१८.४१अ ब ।।

 मित्रेणएव भवेत्साध्यश्छादित-व्यसनेन सः ।। ०७.१८.४१च्द् ।।

 अमित्र-व्यसनान्मित्रं उत्थितं यद्विरज्यति । ।। ०७.१८.४१अ ब ।।

 अरि-व्यसन-सिद्ध्या तत्-शत्रुणाएव प्रसिध्यति ।। ०७.१८.४१च्द् ।।

 वृद्धिं क्षयं च स्थानं च कर्शन-उच्छेदनं तथा ।। ०७.१८.४२अ ब ।।

 सर्व-उपायान्समादध्यादेतान्यश्चार्थ-शास्त्रवित् । ।। ०७.१८.४२च्द् ।।

 एवं अन्योन्य-संचारं षाड्गुण्यं योअनुपश्यति ।। ०७.१८.४३अ ब ।।

 स बुद्धि-निगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।। ०७.१८.४३च्द् ।।