अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ।। ०५.५.०१ ।।

 आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ।। ०५.५.०२ ।।

 मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ।। ०५.५.०३ ।।

 आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ।। ०५.५.०४ ।।

 इङ्गित-आकारौ चास्य लक्षयेत् ।। ०५.५.०५ ।।

 काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ।। ०५.५.०६ ।।

 दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ।। ०५.५.०७ ।।

 एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ।। ०५.५.०८ ।।

 संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ।। ०५.५.०९ ।।

 वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ।। ०५.५.१० ।।

 "अयं उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ।। ०५.५.११ ।।

 अर्थ-मान-अवक्षेपे च परित्यागः ।। ०५.५.१२ ।।

 स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ।। ०५.५.१३ ।।

 मित्रं उपकृष्टं वाअस्य गच्छेत् ।। ०५.५.१४ ।।

 तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ।। ०५.५.१५अ ब ।।

 ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ।। ०५.५.१५च्द् ।।