अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५ अर्थशास्त्रम्
अध्यायः ६
कौटिलीय:

 राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ।। ०५.६.०१ ।।

 प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ।। ०५.६.०२ ।।

 राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ।। ०५.६.०३ ।।

 तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ।। ०५.६.०४ ।।

 दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ।। ०५.६.०५ ।।

 अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ।। ०५.६.०६ ।।

 आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ।। ०५.६.०७ ।।

 यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ।। ०५.६.०८ ।।

 बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ।। ०५.६.०९ ।।

 यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ।। ०५.६.१० ।।

 ततः संधिं अदूष्यं कारयेत् ।। ०५.६.११ ।।

 आटविक-अमित्रैर्वा वैरं ग्राहयेत् ।। ०५.६.१२ ।।

 तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ।। ०५.६.१३ ।।

 कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ।। ०५.६.१४ ।।

 दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ।। ०५.६.१५ ।।

 यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ।। ०५.६.१६ ।।

 आपत्-प्रतीकारेण वा साधयेत् ।। ०५.६.१७ ।।

 युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ।। ०५.६.१८ ।।

 पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ।। ०५.६.१९ ।।

 सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ।। ०५.६.२० ।।

 कुमारं अभिषिच्य वा प्रतिव्यूहेत ।। ०५.६.२१ ।।

 परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ।। ०५.६.२२ ।।

 एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ।। ०५.६.२३ ।।

 "नएवम्" इति भारद्वाजः ।। ०५.६.२४ ।।

 "प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ।। ०५.६.२५ ।।

 विक्रान्तं प्रकृति-कोपेन घातयेत् ।। ०५.६.२६ ।।

 कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ।। ०५.६.२७ ।।

 राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ।। ०५.६.२८ ।।

 तत्स्वयं उपस्थितं नावमन्येत ।। ०५.६.२९ ।।

 "स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ।। ०५.६.३० ।।

 कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ।। ०५.६.३१अ ब ।।

 दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ।। ०५.६.३१च्द् ।।

 प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ।। ०५.६.३२ ।।

 राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ।। ०५.६.३३ ।।

 संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ।। ०५.६.३४ ।।

 तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ।। ०५.६.३५ ।।

 "तथा" इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ।। ०५.६.३६ ।।

 भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ।। ०५.६.३७ ।।

 एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ।। ०५.६.३८ ।।

 विनय-कर्मणि च कुमारस्य प्रयतेत ।। ०५.६.३९ ।।

 कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ।। ०५.६.४० ।।

 मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ।। ०५.६.४१ ।।

 ऋतौ चएनां रक्षेत् ।। ०५.६.४२ ।।

 न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ।। ०५.६.४३ ।।

 राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ।। ०५.६.४४ ।।

 यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ।। ०५.६.४५अ ब ।।

 परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ।। ०५.६.४५च्द् ।।

 निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ।। ०५.६.४६अ ब ।।

 अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ।। ०५.६.४६च्द् ।।

 मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ।। ०५.६.४७अ ब ।।

 इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ।। ०५.६.४७च्द् ।।

 सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ।। ०५.६.४८अ ब ।।

 लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ।। ०५.६.४८च्द् ।।