अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। ०५.४.०१ ।।

 यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ।। ०५.४.०२ ।।

 अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ।। ०५.४.०३ ।।

 आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ।। ०५.४.०४ ।।

 अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ।। ०५.४.०५ ।।

 मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ।। ०५.४.०६ ।।

 ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ।। ०५.४.०७ ।।

 आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ।। ०५.४.०८ ।।

 विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ।। ०५.४.०९ ।।

 मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ।। ०५.४.१० ।।

 अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ।। ०५.४.११अ ब ।।

 पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ।। ०५.४.११च्द् ।।

 पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ।। ०५.४.१२अ ब ।।

 अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ।। ०५.४.१२च्द् ।।

 तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ।। ०५.४.१३अ ब ।।

 अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ।। ०५.४.१३च्द् ।।

 अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ।। ०५.४.१४अ ब ।।

 अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ।। ०५.४.१४च्द् ।।

 परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ।। ०५.४.१५अ ब ।।

 तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ।। ०५.४.१५च्द् ।।

 आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ।। ०५.४.१६अ ब ।।

 अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ।। ०५.४.१६च्द् ।।

 एक-देशं दहेदग्निः शरीरं वा परं गतः । ।। ०५.४.१७अ ब ।।

 सपुत्र-दारं राजा तु घातयेदर्धयेत वा ।। ०५.४.१७च्द् ।।