सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ।। ०५.३.०१ ।।

 शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ।। ०५.३.०२ ।।

 ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ।। ०५.३.०३ ।।

 एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ।। ०५.३.०४ ।।

 दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ।। ०५.३.०५ ।।

 एतावता कर्मण्या भवन्ति ।। ०५.३.०६ ।।

 कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ।। ०५.३.०७ ।।

 स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ।। ०५.३.०८ ।।

 श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ।। ०५.३.०९ ।।

 स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ।। ०५.३.१० ।।

 पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ।। ०५.३.११ ।।

 रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ।। ०५.३.१२ ।।

 कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ।। ०५.३.१३ ।।

 शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ।। ०५.३.१४ ।।

 कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ।। ०५.३.१५ ।।

 कारु-शिल्पिनो विंशति-शतिकाः ।। ०५.३.१६ ।।

 चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ।। ०५.३.१७ ।।

 आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ।। ०५.३.१८ ।।

 दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ।। ०५.३.१९ ।।

 समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ।। ०५.३.२० ।।

 राज्ञः सारथिः साहस्रः ।। ०५.३.२१ ।।

 कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ।। ०५.३.२२ ।।

 ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ।। ०५.३.२३ ।।

 चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ।। ०५.३.२४ ।।

 शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ।। ०५.३.२५ ।।

 अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ।। ०५.३.२६ ।।

 नित्य-मुख्याः स्युरनेक-मुख्याश्च ।। ०५.३.२७ ।।

 कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ।। ०५.३.२८ ।।

 बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ।। ०५.३.२९ ।।

 प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ।। ०५.३.३० ।।

 अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ।। ०५.३.३१ ।।

 शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ।। ०५.३.३२ ।।

 एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ।। ०५.३.३३ ।।

 षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ।। ०५.३.३४ ।।

 पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ।। ०५.३.३५ ।।

 तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ।। ०५.३.३६ ।।

 कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ।। ०५.३.३७ ।।

 अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ।। ०५.३.३८ ।।

 नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ।। ०५.३.३९ ।।

 विध्वस्त-गणनां च कुर्यात् ।। ०५.३.४० ।।

 सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ।। ०५.३.४१ ।।

 यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ।। ०५.३.४२ ।।

 ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ।। ०५.३.४३ ।।

 एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ।। ०५.३.४४ ।।

 एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ।। ०५.३.४५ ।।

 इति भक्त-वेतन-विकल्पः ।। ०५.३.४६ ।।

 सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ।। ०५.३.४७अ ब ।।

 दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ।। ०५.३.४७च्द् ।।