अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ।। ०५.२.०१ ।।

 जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ।। ०५.२.०२ ।।

 दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ।। ०५.२.०३ ।।

 धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ।। ०५.२.०४ ।।

 चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ।। ०५.२.०५ ।।

 अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ।। ०५.२.०६ ।।

 तदप्यनुग्रहेण क्रीणीयात् ।। ०५.२.०७ ।।

 तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ।। ०५.२.०८ ।।

 प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ।। ०५.२.०९ ।।

 निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ।। ०५.२.१० ।।

 भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ।। ०५.२.११ ।।

 स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ।। ०५.२.१२ ।।

 पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ।। ०५.२.१३ ।।

 चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ।। ०५.२.१४ ।।

 तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ।। ०५.२.१५ ।।

 इति कर्षकेषु प्रणयः ।। ०५.२.१६ ।।

 सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ।। ०५.२.१७ ।।

 सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ।। ०५.२.१८ ।।

 धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ।। ०५.२.१९ ।।

 काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ।। ०५.२.२० ।।

 क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ।। ०५.२.२१ ।।

 काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ।। ०५.२.२२ ।।

 कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ।। ०५.२.२३ ।।

 हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ।। ०५.२.२४ ।।

 ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ।। ०५.२.२५ ।।

 इति व्यवहारिषु प्रणयः ।। ०५.२.२६ ।।

 कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ।। ०५.२.२७ ।।

 बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ।। ०५.२.२८ ।।

 इति योनि-पोषकेषु प्रणयः ।। ०५.२.२९ ।।

 सकृदेव न द्विः प्रयोज्यः ।। ०५.२.३० ।।

 तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ।। ०५.२.३१ ।।

 योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ।। ०५.२.३२ ।।

 एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ।। ०५.२.३३ ।।

 कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ।। ०५.२.३४ ।।

 सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ।। ०५.२.३५ ।।

 स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ।। ०५.२.३६ ।।

 पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ।। ०५.२.३७ ।।

 देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ।। ०५.२.३८ ।।

 दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ।। ०५.२.३९ ।।

 चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ।। ०५.२.४० ।।

 मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ।। ०५.२.४१ ।।

 सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ।। ०५.२.४२ ।।

 नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ।। ०५.२.४३ ।।

 अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ।। ०५.२.४४ ।।

 योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। ०५.२.४५ ।।

 वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ।। ०५.२.४६ ।।

 स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ।। ०५.२.४७ ।।

 एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ।। ०५.२.४८ ।।

 वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ।। ०५.२.४९ ।।

 समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ।। ०५.२.५० ।।

 तदुभयं रात्रौ मोषयेत् ।। ०५.२.५१ ।।

 साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ।। ०५.२.५२ ।।

 दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ।। ०५.२.५३ ।।

 तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५४ ।।

 दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ।। ०५.२.५५ ।।

 दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ।। ०५.२.५६ ।।

 तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ।। ०५.२.५७ ।।

 तेन दोषेणैतरे पर्यादातव्याः ।। ०५.२.५८ ।।

 सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ।। ०५.२.५९ ।।

 प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ।। ०५.२.६० ।।

 एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ।। ०५.२.६१ ।।

 "प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि" इति ।। ०५.२.६२ ।।

 स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ।। ०५.२.६३ ।।

 मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ।। ०५.२.६४ ।।

 संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ।। ०५.२.६५ ।।

 दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ।। ०५.२.६६ ।।

 कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ।। ०५.२.६७ ।।

 प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ।। ०५.२.६८ ।।

 एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ।। ०५.२.६९ ।।

 पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ।। ०५.२.७०अ ब ।।

 आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ।। ०५.२.७०च्द् ।।