अर्थशास्त्रम्/अधिकरणम् ५/अध्यायः १

विकिस्रोतः तः
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ।। ०५.१.०१ ।।

 राज-राज्ययोर्वक्ष्यामः ।। ०५.१.०२ ।।

 राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ।। ०५.१.०३ ।।

 राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ।। ०५.१.०४ ।।

 दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ।। ०५.१.०५ ।।

 तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ।। ०५.१.०६ ।।

 शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ।। ०५.१.०७ ।।

 तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ।। ०५.१.०८ ।।

 दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ।। ०५.१.०९ ।।

 तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ।। ०५.१.१० ।।

 ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ।। ०५.१.११ ।।

 दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ।। ०५.१.१२ ।।

 तं रात्रौ इति समानं ।। ०५.१.१३ ।।

 दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ।। ०५.१.१४ ।।

 दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ।। ०५.१.१५ ।।

 प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ।। ०५.१.१६ ।।

 तं सत्त्री महा-मात्र-वधे योजयेत् ।। ०५.१.१७ ।।

 विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ।। ०५.१.१८ ।।

 भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ।। ०५.१.१९ ।।

 इत्याप्य-प्रयोगः ।। ०५.१.२० ।।

 दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ।। ०५.१.२१ ।।

 रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ।। ०५.१.२२ ।।

 यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ।। ०५.१.२३ ।।

 ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ।। ०५.१.२४ ।।

 ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ।। ०५.१.२५ ।।

 ते तद्-अभिविख्याप्य दूष्यान्हन्युः ।। ०५.१.२६ ।।

 तीक्ष्ण-स्थाने चान्ये वध्याः ।। ०५.१.२७ ।।

 बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ।। ०५.१.२८ ।।

 तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ।। ०५.१.२९ ।।

 दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ।। ०५.१.३० ।।

 तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ।। ०५.१.३१ ।।

 तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ।। ०५.१.३२ ।।

 अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ।। ०५.१.३३ ।।

 प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ।। ०५.१.३४ ।।

 चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ।। ०५.१.३५ ।।

 सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ।। ०५.१.३६ ।।

 इत्युपनिषत्-प्रतिषेधः ।। ०५.१.३७ ।।

 उभय-दूष्य-प्रतिषेधस्तु ।। ०५.१.३८ ।।

 यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ।। ०५.१.३९ ।।

 ।। न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ।।

 तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ।। ०५.१.४० ।।

 तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ।। ०५.१.४१ ।।

 तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४२ ।।

 पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ।। ०५.१.४३ ।।

 तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४४ ।।

 येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ।। ०५.१.४५ ।।

 तेन दोषेणैतरे नियन्तव्याः ।। ०४.४.४६ ।।

 दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ।। ०५.१.४७ ।।

 तत्र रसदा रसं दद्युः ।। ०५.१.४८ ।।

 तेन दोषेणैतरे नियन्तव्याः ।। ०५.१.४९ ।।

 भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ।। ०५.१.५० ।।

 प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ।। ०५.१.५१ ।।

 तयोः कलहो रात्रौ इति समानं ।। ०५.१.५२ ।।

 दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ।। ०५.१.५३ ।।

 ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ।। ०५.१.५४ ।।

 तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ।। ०५.१.५५ ।।

 एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ।। ०५.१.५६ ।।

 स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ।। ०५.१.५७अ ब ।।

 आयत्यां च तदात्वे च क्षमावानविशङ्कितः ।। ०५.१.५७च्द् ।।