अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ८ अर्थशास्त्रम्
अध्यायः ९
कौटिलीय:
अध्यायः १० →

 समाहर्तृ-प्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्ष-पुरुषाणां च नियमनं कुर्युः ।। ०४.९.०१ ।।

 खनि-सार-कर्म-अन्तेभ्यः सारं रत्नं वाअपहरतः शुद्ध-वधः ।। ०४.९.०२ ।।

 फल्गु-द्रव्य-कर्म-अन्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहस-दण्डः ।। ०४.९.०३ ।।

 पण्य-भूमिभ्यो वा राज-पण्यं माष-मूल्यादूर्ध्वं आपाद-मूल्यादित्यपहरतो द्वादश-पणो दण्डः । आ-द्वि-पाद-मूल्यादिति चतुर्-विंशति-पणः । आ-त्रि-पाद-मूल्यादिति षट्-त्रिंशत्-पणः । आ-पण-मूल्यादित्यष्ट-चत्वारिंशत्-पणः । आ-द्वि-पण-मूल्यादिति पूर्वः साहस-दण्डः । आ-चतुष्पण-मूल्यादिति मध्यमः । आ-अष्ट-पण-मूल्यादित्युत्तमः । आ-दश-पण-मूल्याद् इति वधः ।। ०४.९.०४ ।।

 कोष्ठ-पण्य-कुप्य-आयुध-अगारेभ्यः कुप्य-भाण्ड-उपस्कर-अपहारेष्वर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.०५ ।।

 कोश-भाण्ड-अगार-अक्ष-शालाभ्यश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.०६ ।।

 चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०४.९.०७ ।।

 इति राज-परिग्रहेषु व्याख्यातं ।। ०४.९.०८ ।।

 बाह्येषु तु प्रच्छन्नं अहनि क्षेत्र-खल-वेश्म-आपणेभ्यः कुप्य-भाण्डं उपस्करं वा माष-मूल्यादूर्ध्वं आ-पाद-मूल्यादित्यपहरतस्त्रि-पणो दण्डः । गोमय-प्रदेहेन वा प्रलिप्यावघोषणम् आ-द्वि-पाद-मूल्यादिति षट्-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । आ-त्रि-पाद-मूल्यादिति नव-पणः । गोमय-भस्मना वा प्रलिप्यावघोषणम् । शराव-मेखलया वा आ-पण-मूल्यादिति द्वादश-पणः । मुण्डनं प्रव्राजनं वा आ-द्वि-पण-मूल्यादिति चतुर्-विंशति-पणः । मुण्डस्यैष्टका-शकलेन प्रव्राजनं वा आ-चतुष्-पण-मूल्यादिति षट्-त्रिंशत्-पणह् आ-पञ्च-पण-मूल्याद् इत्यष्ट-चत्वारिंशत्-पणः । आ-दश-पण-मूल्यादिति पूर्वः साहस-दण्डह् आ-विंशति-पण-मूल्यादित्द्विशतह् आ-त्रिंशत्-पण-मूल्यादिति पञ्च-शतह् आ-चत्वारिंशत्-पण-मूल्यादिति साहस्रह् आ-पञ्चाशत्-पण-मूल्यादिति वधः ।। ०४.९.०९ ।।

 प्रसह्य दिवा रात्रौ वाआन्तर्यामिकं अपहरतोअर्ध-मूल्येषु एत एव दण्डाः ।। ०४.९.१० ।।

 प्रसह्य दिवा रात्रौ वा सशस्त्रस्यापहरतश्चतुर्-भाग-मूल्येषु एत एव द्वि-गुणा दण्डाः ।। ०४.९.११ ।।

 कुटुंबिक-अध्यक्ष-मुख्य-स्वामिनां कूट-शासन-मुद्रा-कर्मसु पूर्व-मध्य-उत्तम-वधा दण्डाः । यथा-अपराधं वा ।। ०४.९.१२ ।।

 धर्मस्थश्चेद्विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहस-दण्डं कुर्यात् । वाक्-पारुष्ये द्वि-गुणं ।। ०४.९.१३ ।।

 पृच्छ्यं न पृच्छति । अपृच्छ्यं पृच्छति । पृष्ट्वा वा विसृजति । शिक्षयति । स्मारयति । पूर्वं ददाति वा । इति मध्यमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१४ ।।

 देयं देशं न पृच्छति । अदेयं देशं पृच्छति । कार्यं अदेशेनातिवाहयति । छलेनातिहरति । काल-हरणेन श्रान्तं अपवाहयति । मार्ग-आपन्नं वाक्यं उत्क्रमयति । मति-साहाय्यं साक्षिभ्यो ददाति । तारित-अनुशिष्टं कार्यं पुनरपि गृह्णाति । उत्तमं अस्मै साहस-दण्डं कुर्यात् ।। ०४.९.१५ ।।

 पुनर्-अपराधे द्वि-गुणं स्थानाद्व्यवरोपणं च ।। ०४.९.१६ ।।

 लेखकश्चेदुक्तं न लिखति । अनुक्तं लिखति । दुरुक्तं उपलिखति । सूक्तं उल्लिखति । अर्थ-उत्पत्तिं वा विकल्पयति । इति पूर्वं अस्मै साहस-दण्डं कुर्याद् । यथा-अपराधं वा ।। ०४.९.१७ ।।

 धर्मस्थः प्रदेष्टा वा हैरण्य-दण्डं अदण्ड्ये क्षिपति क्षेप-द्वि-गुणं अस्मै दण्डं कुर्यात् । हीन-अतिरिक्त-अष्ट-गुणं वा ।। ०४.९.१८ ।।

 शरीर-दण्डं क्षिपति शारीरं एव दण्डं भजेत । निष्क्रय-द्वि-गुणं वा ।। ०४.९.१९ ।।

 यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्-अष्ट-गुणं दण्डं दद्यात् ।। ०४.९.२० ।।

 धर्मस्थीये चारके बन्धन-अगारे वा शय्या-आसन-भोजन-उच्चार-संचार-रोध-बन्धनेषु त्रि-पण-उत्तरा दण्डाः कर्तुः कारयितुश्च ।। ०४.९.२१ ।।

 चारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहस-दण्डः । अभियोग-दानं च । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२२ ।।

 बन्धन-अगार-अध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्-विंशति-पणो दण्डः । कर्म कारयतो द्वि-गुणः । स्थान-अन्यत्वं गमयतोअन्न-पानं वा रुन्धतः षण्-णवतिर्दण्डः । परिक्लेशयत उत्कोटयतो वा मध्यमः साहस-दण्डः । घ्नतः साहस्रः ।। ०४.९.२३ ।।

 परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहस-दण्डः । चोर-डामरिक-भार्यां मध्यमः । संरुद्धिकां आर्यां उत्तमः ।। ०४.९.२४ ।।

 संरुद्धस्य वा तत्रएव घातः ।। ०४.९.२५ ।।

 तदेवाक्षण-गृहीतायां आर्यायां विद्यात् । दास्यां पूर्वः साहस-दण्डः ।। ०४.९.२६ ।।

 चारकं अभित्त्वा निष्पातयतो मध्यमः । भित्त्वा वधः । बन्धन-अगारात्सर्व-स्वं वधश्च ।। ०४.९.२७ ।।

 एवं अर्थ-चरान्पूर्वं राजा दण्डेन शोधयेत् । ।। ०४.९.२८अ ब ।।

 शोधयेयुश्च शुद्धास्ते पौर-जानपदान्दमैः ।। ०४.९.२८च्द् ।।