अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७ अर्थशास्त्रम्
अध्यायः ८
कौटिलीय:
अध्यायः ९ →

 मुषित-संनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देश-जाति-गोत्र-नाम-कर्म-सार-सहाय-निवासाननुयुञ्जीत ।। ०४.८.०१ ।।

 तांश्चापदेशैः प्रतिसमानयेत् ।। ०४.८.०२ ।।

 ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणादित्यनुयुञ्जीत ।। ०४.८.०३ ।।

 तस्यापसार-प्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्म-प्राप्तः ।। ०४.८.०४ ।।

 त्रि-रात्रादूर्ध्वं अग्राह्यः शङ्कितकः पृच्छा-अभावादन्यत्रौपकरण-दर्शनात् ।। ०४.८.०५ ।।

 अचोरं चोर इत्यभिव्याहरतश्चोर-समो दण्डः । चोरं प्रच्छादयतश्च ।। ०४.८.०६ ।।

 चोरेणाभिशस्तो वैर-द्वेषाभ्यां अपदिष्टकः शुद्धः स्यात् ।। ०४.८.०७ ।।

 शुद्धं परिवासयतः पूर्वः साहस-दण्डः ।। ०४.८.०८ ।।

 शङ्का-निष्पन्नं उपकरण-मन्त्रि-सहाय-रूप-वैयावृत्य-करान्निष्पादयेत् ।। ०४.८.०९ ।।

 कर्मणश्च प्रदेश-द्रव्य-आदान-अंश-विभागैः प्रतिसमानयेत् ।। ०४.८.१० ।।

 एतेषां कारणानां अनभिसंधाने विप्रलपन्तं अचोरं विद्यात् ।। ०४.८.११ ।।

 दृश्यते ह्यचोरोअपि चोर-मार्गे यदृच्छया संनिपाते चोर-वेष-शस्त्र-भाण्ड-सामान्येन गृह्यमाणश्चोर-भाण्डस्यौपवासेन वा । यथाअणि-माण्डव्यः कर्म-क्लेश-भयादचोरः "चोरोअस्मि" इति ब्रुवाणः ।। ०४.८.१२ ।।

 तस्मात्समाप्त-करणं नियमयेत् ।। ०४.८.१३ ।।

 मन्द-अपराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्-पिपासा-अध्व-क्लान्तं अत्याशितं आमक-अशितं दुर्बलं वा न कर्म कारयेत् ।। ०४.८.१४ ।।

 तुल्य शील-पुंश्चली-प्रापाविक-कथा-अवकाश-भोजन-दातृभिरपसर्पयेत् ।। ०४.८.१५ ।।

 एवं अतिसंदध्यात् । यथा वा निक्षेप-अपहारे व्याख्यातं ।। ०४.८.१६ ।।

 आप्त-दोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मास-अवर-प्रजातां ।। ०४.८.१७ ।।

 स्त्रियास्त्वर्ध-कर्म । वाक्य-अनुयोगो वा ।। ०४.८.१८ ।।

 ब्राह्मणस्य सत्त्रि-परिग्रहः श्रुतवतस्तपस्विनश्च ।। ०४.८.१९ ।।

 तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च । कर्मणा व्यापादनेन च ।। ०४.८.२० ।।

 व्यावहारिकं कर्म-चतुष्कं षड्दण्डाः । सप्त कशाः । द्वावुपरि-निबन्धौ । उदक-नालिका च ।। ०४.८.२१ ।।

 परं पाप-कर्मणां नव वेत्र-लताः । द्वादश कशाः । द्वावूरु-वेष्टौ । विंशतिर्नक्त-माल-लताः । द्वात्रिंशत्-तलाः । द्वौ वृश्चिक-बन्धौ । उल्लंबने च द्वे । सूची हस्तस्य । यवागू-पीतस्य एक-पर्व-दहनं अङ्गुल्याः । स्नेह-पीतस्य प्रतापनं एकं अहः । शिशिर-रात्रौ बल्बज-अग्र-शय्या च ।। ०४.८.२२ ।।

 इत्यष्टादशकं कर्म ।। ०४.८.२३ ।।

 तस्य-उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खर-पट्टादागमयेत् ।। ०४.८.२४ ।।

 दिवस-अन्तरं एक-एकं च कर्म कारयेत् ।। ०४.८.२५ ।।

 पूर्व-कृत-अपदानं प्रतिज्ञायापहरन्तं एक-देश-दृष्ट-द्रव्यं कर्मणा रूपेण वा गृहीतं राज-कोशं अवस्तृणन्तं कर्म-वध्यं वा राज-वचनात्समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत् ।। ०४.८.२६ ।।

 सर्व-अपराधेष्वपीडनीयो ब्राह्मणः ।। ०४.८.२७ ।।

 तस्याभिशस्त-अङ्को ललाटे स्याद्व्यवहार-पतनाय । स्तेयो श्वा । मनुष्य-वधे कबन्धः । गुरु-तल्पे भगम् । सुरा-पाने मद्य-ध्वजः ।। ०४.८.२८ ।।

 ब्राह्मणं पाप-कर्माणं उद्घुष्याङ्क-कृत-व्रणं । ।। ०४.८.२९अ ब ।।

 कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ।। ०४.८.२९च्द् ।।