अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६ अर्थशास्त्रम्
अध्यायः ७
कौटिलीय:
अध्यायः ८ →

 तैल-अभ्यक्तं आशु-मृतकं परीक्षेत ।। ०४.७.०१ ।।

 निष्कीर्ण-मूत्र-पुरीषं वात-पूर्ण-कोष्ठ-त्वक्कं शून-पाद-पाणिमान्मीलित-अक्षं सव्यञ्जन-कण्ठं पीटन-निरुद्ध-उच्छ्वास-हतं विद्यात् ।। ०४.७.०२ ।।

 तं एव संकुचित-बाहु-सक्थिं उद्बन्ध-हतं विद्यात् ।। ०४.७.०३ ।।

 शून-पाणि-पाद-उदरं अपगत-अक्षं उद्वृत्त-नाभिं अवरोपितं विद्यात् ।। ०४.७.०४ ।।

 निस्तब्ध-गुद-अक्षं संदष्ट-जिह्वं आध्मात-उदरं उदक-हतं विद्यात् ।। ०४.७.०५ ।।

 शोणित-अनुसिक्तं भग्न-भिन्न-गात्रं काष्ठैरश्मभिर्वा हतं विद्यात् ।। ०४.७.०६ ।।

 सम्भग्न-स्फुटित-गात्रं अवक्षिप्तं विद्यात् ।। ०४.७.०७ ।।

 श्याव-पाणि-पाद-दन्त-नखं शिथिल-मांस-रोम-चर्माणं फेन-उपदिग्ध-मुखं विष-हतं विद्यात् ।। ०४.७.०८ ।।

 तं एव सशोणित-दंशं सर्प-कीट-हतं विद्यात् । ।। ०४.७.०९ ।।

 विक्षिप्त-वस्त्र-गात्रं अतिवन्त-विरिक्तं मदन-योग-हतं विद्यात् ।। ०४.७.१० ।।

 अतोअन्यतमेन कारणेन हतं हत्वा वा दण्ड-भयादुद्बद्ध-निकृत्त-कण्ठं विद्यात् ।। ०४.७.११ ।।

 विष-हतस्य भोजन-शेषं वयोभिः परीक्षेत ।। ०४.७.१२ ।।

 हृदयादुद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्-इन्द्र-धनुर्-वर्णं वा विष-युक्तं विद्यात् । दग्धस्य हृदयं अदग्धं दृष्ट्वा वा ।। ०४.७.१३ ।।

 तस्य परिचारक-जनं वाग्-दण्ड-पारुष्य-अतिलब्धं मार्गेत । दुःख-उपहतं अन्य-प्रसक्तं वा स्त्री-जनं । दाय-वृत्ति-स्त्री-जन-अभिमन्तारं वा बन्धुं ।। ०४.७.१४ ।।

 तदेव हत-उद्बद्धस्य परीक्षेत ।। ०४.७.१५ ।।

 स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत ।। ०४.७.१६ ।।

 सर्वेषां वा स्त्री-दायाद्य-दोषः कर्म-स्पर्धा प्रतिपक्ष-द्वेषः पण्य-संस्था-समवायो वा विवाद-पदानां अन्यतमद्वा रोष-स्थानं ।। ०४.७.१७ ।।

 रोष-निमित्तो घातः ।। ०४.७.१८ ।।

 स्वयं-आदिष्ट-पुरुषैर्वा । चोरैरर्थ-निमित्तं । सादृश्यादन्य-वैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत ।। ०४.७.१९ ।।

 येनऽहूतः सह स्थितः प्रस्थितो हत-भूमिं आनीतो वा तं अनुयुञ्जीत ।। ०४.७.२० ।।

 ये चास्य हत-भूमावासन्न-चरास्तानेक-एकशः पृच्छेत्"केनायं इहऽनीतो हतो वा । कः स-शस्त्रः संगूहमान उद्विग्नो वा युष्माभिर्दृष्टः" इति ।। ०४.७.२१ ।।

 ते यथा ब्रूयुस्तथाअनुयुञ्जीत ।। ०४.७.२२ ।।

 अनाथस्य शरीर-स्थं उपभोगं परिच्छदं । ।। ०४.७.२३अ ब ।।

 वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्-व्यवहारिणः ।। ०४.७.२३च्द् ।।

 अनुयुञ्जीत संयोगं निवासं वास-कारणं । ।। ०४.७.२४अ ब ।।

 कर्म च व्यवहारं च ततो मार्गणं आचरेत् ।। ०४.७.२४च्द् ।।

 रज्जु-शस्त्र-विषैर्वाअपि काम-क्रोध-वशेन यः । ।। ०४.७.२५अ ब ।।

 घातयेत्स्वयं आत्मानं स्त्री वा पापेन मोहिता ।। ०४.७.२५च्द् ।।

 रज्जुना राज-मार्गे तांश्चण्डालेनापकर्षयेत् । ।। ०४.७.२६अ ब ।।

 न श्मशान-विधिस्तेषां न सम्बन्धि-क्रियास्तथा ।। ०४.७.२६च्द् ।।

 बन्धुस्तेषां तु यः कुर्यात्प्रेत-कार्य-क्रिया-विधिं । ।। ०४.७.२७अ ब ।।

 तद्-गतिं स चरेत्पश्चात्स्व-जनाद्वा प्रमुच्यते ।। ०४.७.२७च्द् ।।

 संवत्सरेण पतति पतितेन समाचरन् । ।। ०४.७.२८अ ब ।।

 याजन-अध्यापनाद्यौनात्तैश्चान्योअपि समाचरन् ।। ०४.७.२८च्द् ।।