अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ६
← अध्यायः ५ | अर्थशास्त्रम् अध्यायः ६ कौटिलीय: |
अध्यायः ७ → |
सिद्ध-प्रयोगादूर्ध्वं शङ्का-रूप-कर्म-अभिग्रहः ।। ०४.६.०१ ।।
क्षीण-दाय-कुटुम्बम् । अल्प-निर्वेशं । विपरीत-देश-जाति-गोत्र-नाम-कर्म-अपदेशं । प्रच्छन्न-वृत्ति-कर्माणं । ।। ०४.६.०२अ ।।
मांस-सुरा-भक्ष्य-भोजन-गन्ध-माल्य-वस्त्र-विभूषणेषु प्रसक्तम् । अतिव्यय-कर्तारं । पुंश्चली-द्यूत-शौण्डिकेषु प्रसक्तम् । ।। ०४.६.०२ब ।।
अभीक्ष्ण-प्रवासिनम् । अविज्ञात-स्थान-गमनम् । एकान्त-अरण्य-निष्कुट-विकाल-चारिणं । प्रच्छन्ने स-आमिषे वा देशे बहु-मन्त्र-संनिपातं । ।। ०४.६.०२क ।।
सद्यः-क्षत-व्रणानां गूढ-प्रतीकार-कारयितारम् । अन्तर्-गृह-नित्यम् । अभ्यधिगन्तारं । कान्ता-परं । ।। ०४.६.०२ड ।।
पर-परिग्रहाणां पर-स्त्री-द्रव्य-वेश्मनां अभीक्ष्ण-प्रष्टारं । कुत्सित-कर्म-शास्त्र-उपकरण-संसर्गं । ।। ०४.६.०२ए ।।
विरात्रे छन्न-कुड्यच्-छाया-संचारिणं । विरूप-द्रव्याणां अदेश-काल-विक्रेतारं । जात-वैरशयं । हीन-कर्म-जातिं । ।। ०४.६.०२फ़् ।।
विगूहमान-रूपं । लिङ्गेनऽलिङ्गिनं । लिङ्गिनं वा भिन्न-आचारं । पूर्व-कृत-अपदानं । स्व-कर्मभिरपदिष्टं । ।। ०४.६.०२ग् ।।
नागरिक-महा-मात्र-दर्शने गुहमानं अपसरन्तं अनुच्छ्वास-उपवेशिनं आविग्नं शुष्क-भिन्न-स्वर-मुख-वर्णं । ।। ०४.६.०२ह् ।।
शस्त्र-हस्त-मनुष्य-सम्पात-त्रासिनं । हिंस्र-स्तेन-निधि-निक्षेप-अपहार-पर-प्रयोग-गूढ-आजीविनां अन्यतमं शङ्केत इति शङ्का-अभिग्रहः ।। ०४.६.०२इ ।।
रूप-अभिग्रहस्तु नष्ट-अपहृतं अविद्यमानं तज्-जात-व्यवहारिषु निवेदयेत् ।। ०४.६.०३ ।।
तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्य-कर-दोषं आप्नुयुः ।। ०४.६.०४ ।।
अजानन्तोअस्य द्रव्यस्यातिसर्गेण मुच्येरन् ।। ०४.६.०५ ।।
न चानिवेद्य संस्था-अध्यक्षस्य पुराण-भाण्डानां आधानं विक्रयं वा कुर्युः ।। ०४.६.०६ ।।
तच्चेन्निवेदितं आसाद्येत । रूप-अभिगृहीतं आगमं पृच्छेत्"कुतस्ते लब्धम्" इति ।। ०४.६.०७ ।।
स चेत्ब्रूयात्"दायाद्यादवाप्तम् । अमुष्माल्लब्धं क्रीतं कारितं आधि-प्रच्छन्नम् । अयं अस्य देशः कालश्चौपसम्प्राप्तेः । अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च" इति । तस्यऽगम-समाधौ मुच्येत ।। ०४.६.०८ ।।
नाष्टिकश्चेत्तदेव प्रतिसंदध्यात् । यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशस्तस्य द्रव्यं इति विद्यात् ।। ०४.६.०९ ।।
चतुष्पद-द्विपदानां अपि हि रूप-लिङ्ग-सामान्यं भवति । किं अङ्ग पुनरेक-योनि-द्रव्य-कर्तृ-प्रसूतानां कुप्य-आभरण-भाण्डानां इति ।। ०४.६.१० ।।
स चेद्ब्रूयात्"याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्य-कर्म वाअमुष्य" इति । तस्यापसार-प्रतिसंधानेन मुच्येत ।। ०४.६.११ ।।
"नएवम्" इत्यपसारो वा ब्रूयात् । रूप-अभिगृहीतः परस्य दान-कारणं आत्मनः प्रतिग्रह-कारणं उपलिङ्गनं वा दायक-दापक-निबन्धक-प्रतिग्राहक-उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत् ।। ०४.६.१२ ।।
उज्झित-प्रनष्ट-निष्पतित-उपलब्धस्य देश-काल-लाभ-उपलिङ्गनेन शुद्धिः ।। ०४.६.१३ ।।
अशुद्धस्तच्च तावच्च दण्डं दद्यात् ।। ०४.६.१४ ।।
अन्यथा स्तेय-दण्डं भजेत इति रूप-अभिग्रहः । ।। ०४.६.१५ ।।
कर्म-अभिग्रहस्तु मुषित-वेश्मनः प्रवेश-निष्कसनं अद्वारेण । द्वारस्य संधिना बीजेन वा वेधम् । उत्तम-अगारस्य जाल-वात-अयन-नीप्र-वेधम् । आरोहण-अवतरणे च कुड्यस्य वेधम् । उपखननं वा गूढ-द्रव्य-निक्षेपण-ग्रहण-उपायम् । उपदेश-उपलभ्यं अभ्यन्तरच्-छेद-उत्कर-परिमर्द-उपकरणं अभ्यन्तर-कृतं विद्यात् ।। ०४.६.१६ ।।
विपर्यये बाह्य-कृतम् । उभयत उभय-कृतं ।। ०४.६.१७ ।।
अभ्यन्तर-कृते पुरुषं आसन्नं व्यसनिनं क्रूर-सहायं तस्कर-उपकरण-संसर्गं । स्त्रियं वा दरिद्र-कुलां अन्य-प्रसक्तां वा । ।। ०४.६.१८अ ।।
परिचारक-जनं वा तद्-विध-आचारम् । अतिस्वप्नं । निद्रा-क्लान्तम् । आविग्नं- शुष्क-भिन्न-स्वर-मुख-वर्णम् । अनवस्थितम् । ।। ०४.६.१८ब ।।
अतिप्रलापिनम् । उच्च-आरोहण-संरब्ध-गात्रं । विलून-निघृष्ट-भिन्न-पाटित-शरीर-वस्त्रं । जात-किण-संरब्ध-हस्त-पादं । ।। ०४.६.१८क ।।
पांसु-पूर्ण-केश-नखं विलून-भुग्न-केश-नखं वा । सम्यक्-स्नात-अनुलिप्तं तैल-प्रमृष्ट-गात्रं सद्यो-दौत-हस्त-पादं वा । ।। ०४.६.१८ड ।।
पांसु-पिच्छिलेषु तुल्य-पाद-पद-निक्षेपं । प्रवेश-निष्कसनयोर्वा तुल्य-माल्य-मद्य-गन्ध-वस्त्रच्-छेद-विलेपन-स्वेदं परीक्षेत ।। ०४.६.१८ए ।।
चोरं पारदारिकं वा विद्यात् ।। ०४.६.१९ ।।
सगोप-स्थानिको बाह्यं प्रदेष्टा चोर-मार्गणं । ।। ०४.६.२०अ ब ।।
कुर्यान्नागरिकश्चान्तर्-दुर्गे निर्दिष्ट-हेतुभिः ।। ०४.६.२०च्द् ।।