अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ अर्थशास्त्रम्
अध्यायः १०
कौटिलीय:
अध्यायः ११ →

 तीर्थ-घात-ग्रन्थि-भेद-ऊर्ध्व-कराणां प्रथमेअपराधे संदेशच्-छेदनं चतुष्-पञ्चाशत्-पणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो वा दण्डः । तृतीये दक्षिण-हस्त-वधश्चतुः-शतो वा दण्डः । चतुर्थे यथा-कामी वधः ।। ०४.१०.०१ ।।

 पञ्च-विंशति-पण-अवरेषु कुक्कुट-नकुल-मार्जार-श्व-सूकर-स्तेयेषु हिंसायां वा चतुष्-पञ्चाशत्-पणो दण्डः । नास-अग्रच्-छेदनं वा चण्डाल-अरण्य-चराणां अर्ध-दण्डाः ।। ०४.१०.०२ ।।

 पाश-जाल-कूट-अवपातेषु बद्धानां मृग-पशु-पक्षि-व्याल-मत्स्यानां आदाने तच्च तावच्च दण्डः ।। ०४.१०.०३ ।।

 मृग-द्रव्य-वनान्मृग-द्रव्य-अपहारे शात्यो दण्डः ।। ०४.१०.०४ ।।

 बिंब-विहार-मृग-पक्षि-स्तेये हिंसायां वा द्वि-गुणो दण्डः ।। ०४.१०.०५ ।।

 कारु-शिल्पि-कुशीलव-तपस्विनां क्षुद्रक-द्रव्य-अपहारे शत्यो दण्डः । स्थूलक-द्रव्य-अपहारे द्वि-शतः । कृषि-द्रव्य-अपहारे च ।। ०४.१०.०६ ।।

 दुर्गं अकृत-प्रवेशस्य प्रविशतः प्राकारच्-छिद्राद्वा निक्षेपं गृहीत्वाअपसरतः काण्डरा-वधो । द्वि-शातो वा दण्डः ।। ०४.१०.०७ ।।

 चक्र-युक्तं नावं क्षुद्र-पशुं वाअपहरत एक-पाद-वधः । त्रि-शतो वा दण्डः ।। ०४.१०.०८ ।।

 कूट-काकण्य्-अक्ष-अराला-शलाका-हस्त-विषम-कारिण एक-हस्त-वधः । चतुः-शतो वा दण्डः ।। ०४.१०.०९ ।।

 स्तेन-पारदारिकयोः साचिव्य-कर्मणि स्त्रियाः संगृहीतायाश्च कर्ण-नासाच्-छेदनम् । पञ्च-शतो वा दण्डः । पुंषो द्वि-गुणः ।। ०४.१०.१० ।।

 महा-पशुं एकं दासं दासीं वाअपहरतः प्रेत-भाण्डं वा विक्रीणानस्य द्वि-पाद-वधः । षट्-छतो वा दण्डः ।। ०४.१०.११ ।।

 वर्ण-उत्तमानां गुरूणां च हस्त-पाद-लङ्घने राज-यान-वाहन-आद्य्-आरोहणे चएक-हस्त-पाद-वधः । सप्त-शतो वा दण्डः ।। ०४.१०.१२ ।।

 शूद्रस्य ब्राह्मण-वादिनो देव-द्रव्यं अवस्तृणतो राज-द्विष्टं आदिशतो द्वि-नेत्र-भेदिनश्च योग-अञ्जनेनान्धत्वम् । अष्ट-शतो वा दण्डः ।। ०४.१०.१३ ।।

 चोरं पारदारिकं वा मोक्षयतो राज-शासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा सहिरण्यं अपरहतः कूट-व्यवहारिणो विमांस-विक्रयिणश्च वाम-हस्त-द्वि-पाद-वधो । नव-शतो वा दण्डः ।। ०४.१०.१४ ।।

 मानुष-मांस-विक्रये वधः ।। ०४.१०.१५ ।।

 देव-पशु-प्रतिमा-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-रत्न-सस्य-अपहारिण उत्तमो दण्डः । शुद्ध-वधो वा ।। ०४.१०.१६ ।।

 पुरुषं चापराधं च कारणं गुरु-लाघवं । ।। ०४.१०.१७अ ब ।।

 अनुबन्धं तदात्वं च देश-कालौ समीक्ष्य च ।। ०४.१०.१७च्द् ।।

 उत्तम-अवर-मध्यत्वं प्रदेष्टा दण्ड-कर्मणि । ।। ०४.१०.१८अ ब ।।

 राज्ञश्च प्रकृतीनां च कल्पयेदन्तरा स्थितः ।। ०४.१०.१८च्द् ।।