अर्थशास्त्रम्/अधिकरणम् ४/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० अर्थशास्त्रम्
अध्यायः ११
कौटिलीय:
अध्यायः १२ →

 कलहे घ्नतः पुरुषं चित्रो घातः ।। ०४.११.०१ ।।

 सप्त-रात्रस्यान्तर्-मृते शुद्ध-वधः । पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्च-शतः समुत्थान-व्ययश्च ।। ०४.११.०२ ।।

 शस्त्रेण प्रहरत उत्तमो दण्डः ।। ०४.११.०३ ।।

 मदेन हस्त-वधः । मोहेन द्वि-शतः ।। ०४.११.०४ ।।

 वधे वधः ।। ०४.११.०५ ।।

 प्रहारेण गर्भं पातयत उत्तमो दण्डः । भैषज्येन मध्यमः । परिक्लेशेन पूर्वः साहस-दण्डः ।। ०४.११.०६ ।।

 प्रसभ-स्त्री-पुरुष-घातक-अभिसारक-निग्राहक-अवघोषक-अवस्कन्दक-उपवेधकान्पथि-वेश्म-प्रतिरोधकान्राज-हस्त्य्-अश्व-रथानां हिंसकान्स्तेनान्वा शूलानारोहयेयुः ।। ०४.११.०७ ।।

 यश्चएनान्दहेदपनयेद्वा स तं एव दण्डं लभेत । साहसं उत्तमं वा ।। ०४.११.०८ ।।

 हिंस्र-स्तेनानां भक्त-वास-उपकरण-अग्नि-मन्त्र-दान-वैयावृत्य-कर्मसुउत्तमो दण्डः । परिभाषणं अविज्ञाते ।। ०४.११.०९ ।।

 हिंस्र-स्तेनानां पुत्र-दारं असमन्त्रं विसृजेत् । समन्त्रं आददीत ।। ०४.११.१० ।।

 राज्य-कामुकं अन्तःपुर-प्रधर्षकं अटव्य्-अमित्र-उत्साहकं दुर्ग-राष्ट्र-दण्ड-कोपकं वा शिरो-हस्त-प्रदीपिकं घातयेत् ।। ०४.११.११ ।।

 ब्राह्मणं तमः प्रवेशयेत् ।। ०४.११.१२ ।।

 मातृ-पितृ-पुत्र-भ्रात्र्-आचार्य-तपस्वि-घातकं वाअ-त्वक्-शिरः-प्रादीपिकं घातयेत् ।। ०४.११.१३ ।।

 तेषां आक्रोशे जिह्वाच्-छेदः । अङ्ग-अभिरदने तद्-अङ्गान्मोच्यः ।। ०४.११.१४ ।।

 यदृच्छा-घाते पुंसः पशु-यूथ-स्तेये च शुद्ध-वधः ।। ०४.११.१५ ।।

 दश-अवरं च यूथं विद्यात् ।। ०४.११.१६ ।।

 उदक-धारणं सेतुं भिन्दतस्तत्रएवाप्सु निमज्जनम् । अनुदकं उत्तमः साहस-दण्डः । भग्न-उत्सृष्टकं मध्यमः ।। ०४.११.१७ ।।

 विष-दायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेदगर्भिणीम् । गर्भिणीं मास-अवर-प्रजातां ।। ०४.११.१८ ।।

 पति-गुरु-प्रजा-घातिकां अग्नि-विषदां संधिच्-छेदिकां वा गोभिः पाटयेत् ।। ०४.११.१९ ।।

 विवीत-क्षेत्र-खल-वेश्म-द्रव्य-हस्ति-वन-आदीपिकं अग्निना दाहयेत् ।। ०४.११.२० ।।

 राज-आक्रोशक-मन्त्र-भेदकयोरनिष्ट-प्रवृत्तिकस्य ब्राह्मण-महानस-अवलेहिनश्च जिह्वां उत्पाटयेत् ।। ०४.११.२१ ।।

 प्रहरण-आवरण-स्तेनं अनायुधीयं इषुभिर्घातयेत् ।। ०४.११.२२ ।।

 आयुधीयस्यौत्तमः ।। ०४.११.२३ ।।

 मेढ्र-फल-उपघातिनस्तदेवच्छेदयेत् ।। ०४.११.२४ ।।

 जिह्वा-नास-उपघाते संदंश-वधः ।। ०४.११.२५ ।।

 एते शास्त्रेष्वनुगताः क्लेश-दण्डा महात्मनां । ।। ०४.११.२६अ ब ।।

 अक्लिष्टानां तु पापानां धर्म्यः शुद्ध-वधः स्मृतः ।। ०४.११.२६च्द् ।।