अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 विवाह-पूर्वो व्यवहारः ।। ०३.२.०१ ।।

 कन्या-दानं कन्यां अलंकृत्य ब्राह्मो विवाहः ।। ०३.२.०२ ।।

 सह-धर्म-चर्या प्राजापत्यः ।। ०३.२.०३ ।।

 गो-मिथुन-आदानादार्षः ।। ०३.२.०४ ।।

 अन्तर्-वेद्यां ऋत्विजे दानाद्दैवः ।। ०३.२.०५ ।।

 मिथः-समवायाद्गान्धर्वः ।। ०३.२.०६ ।।

 शुल्क-आदानादासुरः ।। ०३.२.०७ ।।

 प्रसह्य-आदानाद्राक्षसः ।। ०३.२.०८ ।।

 सुप्त-मत्त-आदानात्पैशाचः ।। ०३.२.०९ ।।

 पितृ-प्रमाणाश्चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ।। ०३.२.१० ।।

 तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावेअन्यतरो वा ।। ०३.२.११ ।।

 द्वितीयं शुल्कं स्त्री हरेत ।। ०३.२.१२ ।।

 सर्वेषां प्रीत्य्-आरोपणं अप्रतिषिद्धं इति विवाह-धर्मः । ।। ०३.२.१३ ।।

 वृत्तिराबन्ध्यं वा स्त्री-धनं ।। ०३.२.१४ ।।

 पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ।। ०३.२.१५ ।।

 तदात्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्याया भोक्तुं अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ।। ०३.२.१६ ।।

 त्रि-वर्ष-उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ।। ०३.२.१७ ।।

 गान्धर्व-आसुर-उपभुक्तं सवृद्धिकं उभयं दाप्येत । राक्षस-पैशाच-उपभुक्तं स्तेयं दद्यात् ।। ०३.२.१८ ।।

 मृते भर्तरि धर्म-कामा तदानीं एव स्थाप्यऽभरणं शुल्क-शेषं च लभेत ।। ०३.२.१९ ।।

 लब्ध्वा वा विन्दमाना सवृद्धिकं उभयं दाप्येत ।। ०३.२.२० ।।

 कुटुम्ब-कामा तु श्वशुर-पति-दत्तं निवेश-काले लभेत ।। ०३.२.२१ ।।

 निवेश-कालं हि दीर्घ-प्रवासे व्याख्यास्यामः ।। ०३.२.२२ ।।

 श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तं जीयेत ।। ०३.२.२३ ।।

 ज्ञाति-हस्ताद्-अभिमृष्टाया ज्ञातयो यथा-गृहीतं दद्युः ।। ०३.२.२४ ।।

 न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनं गोपयेत् ।। ०३.२.२५ ।।

 पति-दायं विन्दमाना जीयेत ।। ०३.२.२६ ।।

 धर्म-कामा भुञ्जीत ।। ०३.२.२७ ।।

 पुत्रवती विन्दमाना स्त्री-धनं जीयेत ।। ०३.२.२८ ।।

 तत्तु स्त्री-धनं पुत्रा हरेयुः ।। ०३.२.२९ ।।

 पुत्र-भरण-अर्थं वा विन्दमाना पुत्र-अर्थं स्फाती-कुर्यात् ।। ०३.२.३० ।।

 बहु-पुरुष-प्रजानां पुत्राणां यथा-पितृ-दत्तं स्त्री-धनं अवस्थापयेत् ।। ०३.२.३१ ।।

 काम-करणीयं अपि स्त्री-धनं विन्दमाना पुत्र-संस्थं कुर्यात् ।। ०३.२.३२ ।।

 अपुत्रा पति-शयनं पालयन्ती गुरु-समीपे स्त्री-धनं आयुः-क्षयाद्भुञ्जीत ।। ०३.२.३३ ।।

 आपद्-अर्थं हि स्त्री-धनं ।। ०३.२.३४ ।।

 ऊर्ध्वं दायादं गच्छेत् ।। ०३.२.३५ ।।

 जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्री-धनं विभजेरन् । अपुत्राया दुहितरः । तद्-अभावे भर्ता ।। ०३.२.३६ ।।

 शुल्कं अन्वाधेयं अन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्री-धन-कल्पः । ।। ०३.२.३७ ।।

 वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चऽकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीं ।। ०३.२.३८ ।।

 ततः पुत्र-अर्थी द्वितीयां विन्देत ।। ०३.२.३९ ।।

 तस्यातिक्रमे शुल्कं स्त्री-धनं अर्धं चऽधिवेदनिकं दद्यात् । चतुर्-विंशति-पण-परं च दण्डं ।। ०३.२.४० ।।

 शुल्कं स्त्री-धनं अशुल्क-स्त्री-धनायास्तत्-प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ।। ०३.२.४१ ।।

 पुत्र-अर्था हि स्त्रियः ।। ०३.२.४२ ।।

 तीर्थ-समवाये चऽसां यथा-विवाहं पूर्व-ऊढां जीवत्-पुत्रां वा पूर्वं गच्छेत् ।। ०३.२.४३ ।।

 तीर्थ-गूहन-आगमने षण्-णवतिर्दण्डः ।। ०३.२.४४ ।।

 पुत्रवतीं धर्म-कामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात् ।। ०३.२.४५ ।।

 न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत् ।। ०३.२.४६ ।।

 स्त्री तु पुत्र-अर्थं एवं-भूतं वाउपगच्छेत् ।। ०३.२.४७ ।।

 नीचत्वं पर-देशं वा प्रस्थितो राज-किल्बिषी । ।। ०३.२.४८अ ब ।।

 प्राण-अभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ।। ०३.२.४८च्द् ।।