अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 धर्मस्थास्त्रयस्त्रयोअमात्या जन-पद-संधि-संग्रहण-द्रोण-मुख-स्थानीयेषु व्यावहारिकानर्थान्कुर्युः ।। ०३.१.०१ ।।

 तिरोहित-अन्तर्-अगार-नक्त-अरण्य-उपध्य्-उपह्वर-कृतांश्च व्यवहारान्प्रतिषेधयेयुः ।। ०३.१.०२ ।।

 कर्तुः कारयितुः पूर्वः साहस-दण्डः ।। ०३.१.०३ ।।

 श्रोतृऋणां एक-एकं प्रत्यर्ध-दण्डाः ।। ०३.१.०४ ।।

 श्रद्धेयानां तु द्रव्य-व्यपनयः ।। ०३.१.०५ ।।

 परोक्षेणाधिक-ऋण-ग्रहणं अवक्तव्य-करा वा तिरोहिताः सिध्येयुः ।। ०३.१.०६ ।।

 दाय-निक्षेप-उपनिधि-विवाह-युक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढ-संज्ञानां अन्तर्-अगार-कृताः सिध्येयुः ।। ०३.१.०७ ।।

 साहस-अनुप्रवेश-कलह-विवाह-राज-नियोग-युक्ताः पूर्व-रात्र-व्यवहारिणां च रात्रि-कृताः सिध्येयुः ।। ०३.१.०८ ।।

 सार्थ-व्रज-आश्रम-व्याध-चारण-मध्येष्वरण्य-चराणां अरण्य-कृताः सिध्येयुः ।। ०३.१.०९ ।।

 गूढ-आजीविषु चौपधि-कृताः सिध्येयुः ।। ०३.१.१० ।।

 मिथः-समवाये चौपह्वर-कृताः सिध्येयुः ।। ०३.१.११ ।।

 अतोअन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः । पितृमता पुत्रेण । पित्रा पुत्रवता । निष्कुलेन भ्रात्रा । कनिष्ठेनाविभक्त-अंशेन । पतिमत्या पुत्रवत्या च स्त्रिया । दास-आहितकाभ्याम् । अप्राप्त-अतीत-व्यवहाराभ्याम् । अभिशस्त-प्रव्रजित-न्यङ्ग-व्यसनिभिश्च । अन्यत्र निषृष्ट-व्यवहारेभ्यः ।। ०३.१.१२ ।।

 तत्रापि क्रुद्धेनऽर्तेन मत्तेन-उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः ।। ०३.१.१३ ।।

 कर्तृ-कारयितृ-श्रोतृऋणां पृथग्यथा-उक्ता दण्डाः ।। ०३.१.१४ ।।

 स्वे स्वे तु वर्गे देशे काले च स्व-करण-कृताः सम्पूर्ण-आचाराः शुद्ध-देशा दृष्ट-रूप-लक्षण-प्रमाण-गुणाः सर्व-व्यवहाराः सिध्येयुः ।। ०३.१.१५ ।।

 पश्चिमं चएषां करणं आदेश-आधिवर्जं श्रद्धेयं इति व्यवहार-स्थापना । ।। ०३.१.१६ ।।

 संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदक-आवेदकयोः कृत-समर्थ-अवस्थयोर्देश-ग्राम-जाति-गोत्र-नाम-कर्माणि चाभिलिख्य वादि-प्रतिवादि-प्रश्नानर्थ-आनुपूर्व्या निवेशयेत् ।। ०३.१.१७ ।।

 निविष्टांश्चावेक्षेत ।। ०३.१.१८ ।।

 निबद्धं वादं उत्सृज्यान्यं वादं संक्रामति । पूर्व-उक्तं पश्चिमेनार्थेन नाभिसंधत्ते । पर-वाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं निर्दिशैत्युक्ते न निर्दिशति । हीन-देशं अदेशं वा निर्दिशति । निर्दिष्टाद्देशादन्यं देशं उपस्थापयति । उपस्थिते देशेअर्थ-वचनं नएवं इत्यपव्ययते । साक्षिभिरवधृतं नैच्छति । ।। ०३.१.१९ ।।

 ।। असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते । इति परा-उक्त-हेतवः ।।

 परा-उक्त-दण्डः पञ्च-बन्धः ।। ०३.१.२० ।।

 स्वयं-वादि-दण्डो दश-बन्धः ।। ०३.१.२१ ।।

 पुरुष-भृतिरष्ट-अंशः ।। ०३.१.२२ ।।

 पथि-भक्तं अर्घ-विशेषतः ।। ०३.१.२३ ।।

 तदुभयं नियम्यो दद्यात् ।। ०३.१.२४ ।।

 अभियुक्तो न प्रत्यभियुञ्जीत । अन्यत्र कलह-साहस-सार्थ-समवायेभ्यः ।। ०३.१.२५ ।।

 न चाभियुक्तेअभियोगेअस्ति ।। ०३.१.२६ ।।

 अभियोक्ता चेत्प्रत्युक्तस्तद्-अहरेव न प्रतिब्रूयात्परा-उक्तः स्यात् ।। ०३.१.२७ ।।

 कृत-कार्य-विनिश्चयो ह्यभियोक्ता नाभियुक्तः ।। ०३.१.२८ ।।

 तस्याप्रतिब्रुवतस्त्रि-रात्रं सप्त-रात्रं इति ।। ०३.१.२९ ।।

 अत ऊर्ध्वं त्रि-पण-अवर-अर्ध्यं द्वादश-पण-परं दण्डं कुर्यात् ।। ०३.१.३० ।।

 त्रि-पक्षादूर्ध्वं अप्रतिब्रुवतः परा-उक्त-दण्डं कृत्वा यान्यस्य द्रव्याणि स्युस्ततोअभियोक्तारं प्रतिपादयेद् । अन्यत्र वृत्त्य्-उपकरणेभ्यः ।। ०३.१.३१ ।।

 तदेव निष्पततोअभियुक्तस्य कुर्यात् ।। ०३.१.३२ ।।

 अभियोक्तुर्निष्पात-सम-कालः परा-उक्त-भावः ।। ०३.१.३३ ।।

 प्रेतस्य व्यसनिनो वा साक्षि-वचनं असारं ।। ०३.१.३४ ।।

 अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ।। ०३.१.३५ ।।

 आधिं वा स कामं प्रवेशयेत् ।। ०३.१.३६ ।।

 रक्षोघ्न-रक्षितं वा कर्मणा प्रतिपादयेद् । अन्यत्र ब्राह्मणात् ।। ०३.१.३७ ।।

 चतुर्-वर्ण-आश्रमस्यायं लोकस्यऽचार-रक्षणात् । ।। ०३.१.३८अ ब ।।

 नश्यतां सर्व-धर्माणां राजा धर्म-प्रवर्तकः ।। ०३.१.३८च्द् ।।

 धर्मश्च व्यवहारश्च चरित्रं राज-शासनं । ।। ०३.१.३९अ ब ।।

 विवाद-अर्थश्चतुष्पादः पश्चिमः पूर्व-बाधकः ।। ०३.१.३९च्द् ।।

 तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । ।। ०३.१.४०अ ब ।।

 चरित्रं संग्रहे पुंसां राज्ञां आज्ञा तु शासनं ।। ०३.१.४०च्द् ।।

 राज्ञः स्व-धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । ।। ०३.१.४१अ ब ।।

 अरक्षितुर्वा क्षेप्तुर्वा मिथ्या-दण्डं अतोअन्यथा ।। ०३.१.४१च्द् ।।

 दण्डो हि केवलो लोकं परं चैमं च रक्षति । ।। ०३.१.४२अ ब ।।

 राज्ञा पुत्रे च शत्रौ च यथा-दोषं समं धृतः ।। ०३.१.४२च्द् ।।

 अनुशासद्द्हि धर्मेण व्यवहारेण संस्थया । ।। ०३.१.४३अ ब ।।

 न्यायेन च चतुर्थेन चतुर्-अन्तां वा महीं जयेत् ।। ०३.१.४३च्द् ।।

 संस्था या धर्म-शास्त्रेण शास्त्रं वा व्यावहारिकं । ।। ०३.१.४४अ ब ।।

 यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् ।। ०३.१.४४च्द् ।।

 शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् । ।। ०३.१.४५अ ब ।।

 न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति ।। ०३.१.४५च्द् ।।

 दृष्ट-दोषः स्वयं-वादः स्व-पक्ष-पर-पक्षयोः । ।। ०३.१.४६अ ब ।।

 अनुयोग-आर्जवं हेतुः शपथश्चार्थ-साधकः ।। ०३.१.४६च्द् ।।

 पूर्व-उत्तर-अर्थ-व्याघाते साक्षि-वक्तव्य-कारणे । ।। ०३.१.४७अ ब ।।

 चार-हस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ।। ०३.१.४७च्द् ।।