अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ।। ०२.४.०१ ।।

 स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ।। ०२.४.०२ ।।

 चतुर्-दण्ड-अन्तरा रथ्याः ।। ०२.४.०३ ।।

 राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ।। ०२.४.०४ ।।

 चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ।। ०२.४.०५ ।।

 प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ।। ०२.४.०६ ।।

 वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ।। ०२.४.०७ ।।

 तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ।। ०२.४.०८ ।।

 ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ।। ०२.४.०९ ।।

 दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ।। ०२.४.१० ।।

 ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ।। ०२.४.११ ।।

 पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ।। ०२.४.१२ ।।

 ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ।। ०२.४.१३ ।।

 उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ।। ०२.४.१४ ।।

 ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ।। ०२.४.१५ ।।

 वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ।। ०२.४.१६ ।।

 अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ।। ०२.४.१७ ।।

 यथा-उद्देशं वास्तु-देवताः स्थापयेत् ।। ०२.४.१८ ।।

 ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ।। ०२.४.१९ ।।

 बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ।। ०२.४.२० ।।

 उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ।। ०२.४.२१ ।।

 तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०२.४.२२ ।।

 पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ।। ०२.४.२३ ।।

 कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ।। ०२.४.२४ ।।

 तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ।। ०२.४.२५ ।।

 दश-कुली-वाटं कूप-स्थानं ।। ०२.४.२६ ।।

 सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ।। ०२.४.२७ ।।

 नवेनानवं शोधयेत् ।। ०२.४.२८ ।।

 हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ।। ०२.४.२९ ।।

 अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ।। ०२.४.३० ।।

 एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ।। ०२.४.३१ ।।

 न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ।। ०२.४.३२अ ब ।।

 क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ।। ०२.४.३२च्द् ।।