अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ।। ०२.३.०१ ।।

 तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ।। ०२.३.०२ ।।

 जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ।। ०२.३.०३ ।।

 तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ।। ०२.३.०४ ।।

 चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ।। ०२.३.०५ ।।

 पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ।। ०२.३.०६ ।।

 वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ।। ०२.३.०७अ ।।

 रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ।। ०२.३.०७ब ।।

 पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ।। ०२.३.०८ ।।

 अग्निरवहितो हि तस्मिन्वसति ।। ०२.३.०९ ।।

 विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ।। ०२.३.१० ।।

 द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ।। ०२.३.११ ।।

 अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ।। ०२.३.१२ ।।

 अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ।। ०२.३.१३ ।।

 दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ।। ०२.३.१४ ।।

 बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ।। ०२.३.१५ ।।

 प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ।। ०२.३.१६ ।।

 पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ।। ०२.३.१७ ।।

 स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ।। ०२.३.१८ ।।

 आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ।। ०२.३.१९ ।।

 दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ।। ०२.३.२० ।।

 समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ।। ०२.३.२१ ।।

 अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ।। ०२.३.२२ ।।

 द्वि-हस्तं तोरण-शिरः ।। ०२.३.२३ ।।

 त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ।। ०२.३.२४ ।।

 द्वौ परिघौ ।। ०२.३.२५ ।।

 अरत्निरिन्द्र-कीलः ।। ०२.३.२६ ।।

 पञ्च-हस्तं आणि-द्वारं ।। ०२.३.२७ ।।

 चत्वारो हस्ति-परिघाः ।। ०२.३.२८ ।।

 निवेश-अर्धं हस्ति-नखं ।। ०२.३.२९ ।।

 मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ।। ०२.३.३० ।।

 प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ।। ०२.३.३१ ।।

 प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ।। ०२.३.३२ ।।

 त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ।। ०२.३.३३ ।।

 तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ।। ०२.३.३४अ ब ।।

 मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ।। ०२.३.३४च्द् ।।

 कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ।। ०२.३.३५अ ब ।।

 उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ।। ०२.३.३५च्द् ।।