अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत् ।। ०२.२.०१ ।।

 प्रदिष्ट-अभय-स्थावर-जङ्गमानि च ब्रह्म-सोम-अरण्यानि तपस्विभ्यो गो-रुत-पराणि प्रयच्छेत् ।। ०२.२.०२ ।।

 तावन्-मात्रं एक-द्वारं खात-गुप्तं स्वादु-फल-गुल्म-गुच्छं अकण्टकि-द्रुमं उत्तान-तोय-आशयं दान्त-मृग-चतुष्पदं भग्न-नख-दंष्ट्र-व्यालं मार्गयुक-हस्ति-हस्तिनीक-लभं मृग-वनं विहार-अर्थं राज्ञः कारयेत् ।। ०२.२.०३ ।।

 सर्व-अतिथि-मृगं प्रत्यन्ते चान्यन्-मृग-वनं भूमि-वशेन वा निवेशयेत् ।। ०२.२.०४ ।।

 कुप्य-प्रदिष्टानां च द्रव्याणां एक-एकशो वनानि निवेशयेत् । द्रव्य-वन-कर्म-अन्तानटवीश्च द्रव्य-वन-अपाश्रयाः ।। ०२.२.०५ ।।

 प्रत्यन्ते हस्ति-वनं अटव्य्-आरक्षं निवेशयेत् ।। ०२.२.०६ ।।

 नाग-वन-अध्यक्षः पार्वतं नऽदेयं सार-सम-अनूपं च नाग-वनं विदित-पर्यन्त-प्रवेश-निष्कासं नाग-वन-पालैः पालयेत् ।। ०२.२.०७ ।।

 हस्ति-घातिनं हन्युः ।। ०२.२.०८ ।।

 दन्त-युगं स्वयं-मृतस्यऽहरतः सपाद-चतुष्पणो लाभः ।। ०२.२.०९ ।।

 नाग-वन-पाला हस्तिपक-पाद-पाशिक-सैमिक-वन-चरक-पारिकर्मिक-सखा हस्ति-मूत्र-पुरीषच्-छन्न-गन्धा भल्लातकी-शाखा-प्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्ति-बन्धकीभिः सह चरन्तः शय्या-स्थान-पद्या-लेण्ड-कूल-घात-उद्देशेन हस्ति-कुल-पर्यग्रं विद्युः ।। ०२.२.१० ।।

 यूथ-चरं एक-चरं निर्यूथं यूथ-पतिं हस्तिनं व्यालं मत्तं पोतं बन्ध-मुक्तं च निबन्धेन विद्युः ।। ०२.२.११ ।।

 अनीकस्थ-प्रमाणैः प्रशस्त-व्यञ्जन-आचारान्हस्तिनो गृह्णीयुः ।। ०२.२.१२ ।।

 हस्ति-प्रधानं विजयो राज्ञः ।। ०२.२.१३ ।।

 पर-अनीक-व्यूह-दुर्ग-स्कन्ध-आवार-प्रमर्दना ह्यतिप्रमाण-शरीराः प्राण-हर-कर्माणो हस्तिनः ।। ०२.२.१४ ।।

 कालिङ्ग-अङ्गरजाः श्रेष्ठाः प्राच्याश्चेदि-करूषजाः । ।। ०२.२.१५अ ब ।।

 दाशार्णाश्चापर-अन्ताश्च द्विपानां मध्यमा मताः ।। ०२.२.१५च्द् ।।

 सौराष्ट्रिकाः पाञ्चनदास्तेषां प्रत्यवराः स्मृताः । ।। ०२.२.१६अ ब ।।

 सर्वेषां कर्मणा वीर्यं जवस्तेजश्च वर्धते ।। ०२.२.१६च्द् ।।