अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
अर्थशास्त्रम्
अध्यायः १
कौटिलीय:
अध्यायः २ →

 भूत-पूर्वं अभूत-पूर्वं वा जन-पदं पर-देश-अपवाहनेन स्व-देश-अभिष्यन्द-वमनेन वा निवेशयेत् ।। ०२.०१.०१ ।।

 शूद्र-कर्षक-प्रायं कुल-शत-अवरं पञ्च-कुल-शत-परं ग्रामं क्रोशद्-विक्रोश-सीमानं अन्योन्य-आरक्षं निवेशयेत् ।। ०२.०१.०२ ।।

 नली-शैल-वन-भृष्टि-दरी-सेतु-बन्ध-शमी-शाल्मली-क्षीर-वृक्षानन्तेषु सीम्नां स्थापयेत् ।। ०२.०१.०३ ।।

 अष्टशत-ग्राम्या मध्ये स्थानीयम् । चतुह्शत-ग्राम्या द्रोण-मुखम् । द्विशत-ग्राम्याः कार्वटिकम् । दश-ग्रामी-संग्रहेण संग्रहं स्थापयेत् ।। ०२.०१.०४ ।।

 अन्तेष्वन्त-पाल-दुर्गाणि जन-पद-द्वाराण्यन्त-पाल-अधिष्ठितानि स्थापयेत् ।। ०२.०१.०५ ।।

 तेषां अन्तराणि वागुरिक-शबर-पुलिन्द-चण्डाल-अरण्य-चरा रक्षेयुः ।। ०२.०१.०६ ।।

 ऋत्विग्-आचार्य-पुरोहित-श्रोत्रियेभ्यो ब्रह्म-देयान्यदण्ड-कराण्यभिरूप-दायादकानि प्रयच्छेत् ०२.०१.०७अ ।।

 अध्यक्ष-संख्यायक-आदिभ्यो गोप-स्थानिक-अनीकस्थ-चिकित्सक-अश्व-दमक-जङ्घाकारिकेभ्यश्च विक्रय-आधान-वर्जानि ।। ०२.०१.०७ब ।।

 करदेभ्यः कृत-क्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत् ।। ०२.०१.०८ ।।

 अकृतानि कर्तृभ्यो नऽदेयानि ।। ०२.०१.०९ ।।

 अकृषतां आछिद्यान्येभ्यः प्रयच्छेत् ।। ०२.०१.१० ।।

 ग्राम-भृतक-वैदेहका वा कृषेयुः ।। ०२.०१.११ ।।

 अकृषन्तो वाअवहीनं दद्युः ।। ०२.०१.१२ ।।

 धान्य-पशु-हिरण्यैश्चएताननुगृह्णीयात् ।। ०२.०१.१३ ।।

 तान्यनु सुखेन दद्युः ।। ०२.०१.१४ ।।

 अनुग्रह-परिहारौ चएतेब्भ्यः कोश-वृद्धि-करौ दद्यात् । कोश-उपघातकौ वर्जयेत् ।। ०२.०१.१५ ।।

 अल्प-कोशो हि राजा पौर-जानपदानेव ग्रसते ।। ०२.०१.१६ ।।

 निवेश-सम-कालं यथा-आगतकं वा परिहारं दद्यात् ।। ०२.०१.१७ ।।

 निवृत्त-परिहारान्पिताइवानुगृह्णीयात् ।। ०२.०१.१८ ।।

 आकर-कर्म-अन्त-द्रव्य-हस्ति-वन-व्रज-वणिक्-पथ-प्रचारान्वारि-स्थल-पथ-पण्य-पत्तनानि च निवेशयेत् ।। ०२.०१.१९ ।।

 सह-उदकं आहार्यौदकं वा सेतुं बन्धयेत् ।। ०२.०१.२० ।।

 अन्येषां वा बध्नतां भूमि-मार्ग-वृक्ष-उपकरण-अनुग्रहं कुर्यात् । पुण्य-स्थान-आरामाणां च ।। ०२.०१.२१ ।।

 सम्भूय-सेतु-बन्धादपक्रामतः कर्मकर-बलीवर्दाः कर्म कुर्युः ।। ०२.०१.२२ ।।

 व्ययकर्मणि च भागी स्यात् । न चांशं लभेत ।। ०२.०१.२३ ।।

 मत्स्य-प्लव-हरि-तपण्यानां सेतुषु राजा स्वाम्यं गच्छेत् ।। ०२.०१.२४ ।।

 दास-आहितक-बन्धूनशृण्वतो राजा विनयं ग्राहयेत् ।। ०२.०१.२५ ।।

 बाल-वृद्ध-व्यसन्य्-अनाथांश्च राजा बिभृयात् । स्त्रियं अप्रजातां प्रजातायश्च पुत्रान् ।। ०२.०१.२६ ।।

 बाल-द्रव्यं ग्राम-वृद्धा वर्धयेयुरा व्यवहार-प्रापणात् । देव-द्रव्यं च ।। ०२.०१.२७ ।।

 अपत्य-दारं माता-पितरौ भ्रातृऋनप्राप्त-व्यवहारान्भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादश-पणो दण्डः । अन्यत्र पतितेभ्यः । अन्यत्र मातुः ।। ०२.०१.२८ ।।

 पुत्र-दारं अप्रतिविधाय प्रव्रजतः पूर्वः साहस-दण्डः । स्त्रियं च प्रव्राजयतः ।। ०२.०१.२९ ।।

 लुप्त-व्यायामः प्रव्रजेदापृच्छ्य धर्मस्थान् ।। ०२.०१.३० ।।

 अन्यथा नियम्येत ।। ०२.०१.३१ ।।

 वानप्रस्थादन्यः प्रव्रजित-भावः । सजातादन्यः संघः । सामुत्थायिकादन्यः समय-अनुबन्धो वा नास्य जन-पदं उपनिविशेत ।। ०२.०१.३२ ।।

 न च तत्रऽरामा विहार-अर्था वा शालाः स्युः ।। ०२.०१.३३ ।।

 नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवा न कर्म-विघ्नं कुर्युः ।। ०२.०१.३४ ।।

 निराश्रयत्वाद्ग्रामाणां क्षेत्र-अभिरतत्वाच्च पुरुषाणां कोश-विष्टि-द्रव्य-धान्य-रस-वृद्धिर्भवति ।। ०२.०१.३५ ।।

 पर-चक्र-अटवी-ग्रस्तं व्याधि-दुर्भिक्ष-पीडितं । ०२.०१.३६अ ब ।।

 देशं परिहरेद्राजा व्यय-क्रीडाश्च वारयेत् ।। ०२.०१.३६च्द् ।।

 दण्ड-विष्टि-कर-आबाधै रक्षेदुपहतां कृषिं । ०२.०१.३७अ ब ।।

 स्तेन-व्याल-विष-ग्राहैर्व्याधिभिश्च पशु-व्रजान् ।। ०२.०१.३७च्द् ।।

 वल्लभैः कार्मिकैः स्तेनैरन्त-पालैश्च पीडितं । ०२.०१.३८अ ब ।।

 शोधयेत्पशु-संघैश्च क्षीयमाणं वणिक्-पथं ।। ०२.०१.३८च्द् ।।

 एवं द्रव्य-द्वि-पवनं सेतु-बन्धं अथऽकरान् । ०२.०१.३९अ ब ।।

 रक्षेत्पूर्व-कृतान्राजा नवांश्चाभिप्रवर्तयेत् ।। ०२.०१.३९च्द् ।।