सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:
अध्यायः ६ →

 सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ।। ०२.५.०१ ।।

 चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ।। ०२.५.०२ ।।

 तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ।। ०२.५.०३ ।।

 जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ।। ०२.५.०४ ।।

 पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ।। ०२.५.०५अ ।।

 दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ।। ०२.५.०५ब ।।

 पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ।। ०२.५.०५क ।।

 सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ।। ०२.५.०६ ।।

 कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ।। ०२.५.०७ ।।

 तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ।। ०२.५.०८ ।।

 तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ।। ०२.५.०९ ।।

 रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ।। ०२.५.१० ।।

 अशुद्धं छेदयेत् ।। ०२.५.११ ।।

 आहर्तुः पूर्वः साहस-दण्डः ।। ०२.५.१२ ।।

 शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ।। ०२.५.१३ ।।

 विपर्यये मूल्य-द्विगुणो दण्डः ।। ०२.५.१४ ।।

 तेन पण्यं कुप्यं आयुधं च व्याख्यातं ।। ०२.५.१५ ।।

 सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ।। ०२.५.१६ ।।

 कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ।। ०२.५.१७ ।।

 तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ।। ०२.५.१८ ।।

 परिभाषणं अविज्ञाते ।। ०२.५.१९ ।।

 चोराणां अभिप्रधर्षणे चित्रो घातः ।। ०२.५.२० ।।

 तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ।। ०२.५.२१ ।।

 यथा पृष्टो न सज्जेत व्यये शेषे च संचये ।। ०२.५.२२ब ।।