अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० अर्थशास्त्रम्
अध्यायः ३१
कौटिलीय:
अध्यायः ३२ →

 हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ।। ०२.३१.०१ ।।

 हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ।। ०२.३१.०२ ।।

 हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ।। ०२.३१.०३ ।।

 स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ।। ०२.३१.०४ ।।

 प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ।। ०२.३१.०५ ।।

 पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ।। ०२.३१.०६ ।।

 रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ।। ०२.३१.०७ ।।

 ग्रीष्मे ग्रहण-कालः ।। ०२.३१.०८ ।।

 विंशति-वर्षो ग्राह्यः ।। ०२.३१.०९ ।।

 विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ।। ०२.३१.१० ।।

 सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ।। ०२.३१.११ ।।

 तयोः पाद-अवरो विधा-विधिः ।। ०२.३१.१२ ।।

 अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ।। ०२.३१.१३ ।।

 सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ।। ०२.३१.१४ ।।

 यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ।। ०२.३१.१५ ।।

 क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ।। ०२.३१.१६ ।।

 संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ।। ०२.३१.१७ ।।

 शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ।। ०२.३१.१८अ ब ।।

 मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ।। ०२.३१.१८च्द् ।।