अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ अर्थशास्त्रम्
अध्यायः ३२
कौटिलीय:
अध्यायः ३३ →

 कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ।। ०२.३२.०१ ।।

 तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ।। ०२.३२.०२ ।।

 तस्यौपविचारो विक्क-कर्म ।। ०२.३२.०३ ।।

 साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ।। ०२.३२.०४ ।।

 तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ।। ०२.३२.०५ ।।

 औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ।। ०२.३२.०६ ।।

 तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ।। ०२.३२.०७ ।।

 व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ।। ०२.३२.०८ ।।

 तस्यौपविचार आयम्यएक-रक्षा-कर्म ।। ०२.३२.०९ ।।

 क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ।। ०२.३२.१० ।।

 तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ।। ०२.३२.११ ।।

 आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ।। ०२.३२.१२ ।।

 अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ।। ०२.३२.१३ ।।

 वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ।। ०२.३२.१४ ।।

 वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ।। ०२.३२.१५ ।।

 चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ।। ०२.३२.१६ ।।

 चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ।। ०२.३२.१७ ।।

 पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ।। ०२.३२.१८ ।।

 स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ।। ०२.३२.१९ ।।

 तं एषां भक्त-वेतनादाददीत ।। ०२.३२.२० ।।

 तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ।। ०२.३२.२१अ ब ।।

 भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ।। ०२.३२.२१च्द् ।।

 दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ।। ०२.३२.२२अ ब ।।

 अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ।। ०२.३२.२२च्द् ।।