अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९ अर्थशास्त्रम्
अध्यायः ३०
कौटिलीय:
अध्यायः ३१ →

 अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ।। ०२.३०.०१ ।।

 अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ।। ०२.३०.०२ ।।

 कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ।। ०२.३०.०३ ।।

 अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ।। ०२.३०.०४ ।।

 अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ।। ०२.३०.०५ ।।

 शाला-वशेन वा दिग्-विभागं कल्पयेत् ।। ०२.३०.०६ ।।

 वडवा-वृष-किशोराणां एक-अन्तेषु ।। ०२.३०.०७ ।।

 वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ।। ०२.३०.०८ ।।

 अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ।। ०२.३०.०९ ।।

 ततः पुलाको यवसं आर्तवश्चऽहारः ।। ०२.३०.१० ।।

 दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ।। ०२.३०.११ ।।

 ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ।। ०२.३०.१२ ।।

 अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ।। ०२.३०.१३ ।।

 द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ।। ०२.३०.१४ ।।

 त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ।। ०२.३०.१५ ।।

 शत-अङ्गुलः परिणाहः ।। ०२.३०.१६ ।।

 पञ्च-भाग-अवरो मध्यम-अवरयोः ।। ०२.३०.१७ ।।

 उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ।। ०२.३०.१८ ।।

 दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ।। ०२.३०.१९ ।।

 पाद-अवरं एतन्मध्यम-अवरयोः ।। ०२.३०.२० ।।

 उत्तम-समो रथ्यो वृषश्च मध्यमः ।। ०२.३०.२१ ।।

 मध्यम-समश्चावरः ।। ०२.३०.२२ ।।

 पाद-हीनं वडवानां पारशमानां च ।। ०२.३०.२३ ।।

 अतोअर्धं किशोराणां च ।। ०२.३०.२४ ।।

 इति विधा-योगः ।। ०२.३०.२५ ।।

 विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ।। ०२.३०.२६ ।।

 युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ।। ०२.३०.२७ ।।

असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ।। ०२.३०.२८ ।।

 प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ।। ०२.३०.२९ ।।

 तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ।। ०२.३०.३० ।।

 चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ।। ०२.३०.३१ ।।

 वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ।। ०२.३०.३२ ।।

 तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ।। ०२.३०.३३ ।।

 स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ।। ०२.३०.३४ ।।

 प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ।। ०२.३०.३५ ।।

 कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ।। ०२.३०.३६ ।।

 काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ।। ०२.३०.३७ ।।

 संज्ञा-प्रतिकारो नार-उष्ट्रैति ।। ०२.३०.३८ ।।

 षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ।। ०२.३०.३९ ।।

 विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ।। ०२.३०.४० ।।

 विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ।। ०२.३०.४१ ।।

 तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ।। ०२.३०.४२ ।।

 अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ।। ०२.३०.४३ ।।

 सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ।। ०२.३०.४४ ।।

 कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ।। ०२.३०.४५ ।।

 नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ।। ०२.३०.४६ ।।

 क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ।। ०२.३०.४७ ।।

 तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ।। ०२.३०.४८ ।।

 तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ।। ०२.३०.४९ ।।

 द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ।। ०२.३०.५०अ ब ।।

 कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ।। ०२.३०.५०च्द् ।।

 नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ।। ०२.३०.५१अ ब ।।

 यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ।। ०२.३०.५१च्द् ।।