अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २८ अर्थशास्त्रम्
अध्यायः २९
कौटिलीय:
अध्यायः ३० →

 गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ।। ०२.२९.०१ ।।

 गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ।। ०२.२९.०२ ।।

 क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ।। ०२.२९.०३ ।।

 जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ।। ०२.२९.०४ ।।

 घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ।। ०२.२९.०५ ।।

 व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ।। ०२.२९.०६ ।।

 पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ।। ०२.२९.०७ ।।

 वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ।। ०२.२९.०८ ।।

 मास-द्वि-मास-जातानङ्कयेत् ।। ०२.२९.०९ ।।

 मास-द्वि-मास-पर्युषितं अङ्कयेत् ।। ०२.२९.१० ।।

 अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ।। ०२.२९.११ ।।

 चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ।। ०२.२९.१२ ।।

 पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ।। ०२.२९.१३ ।।

 प्रमादादभ्यावहेयुः ।। ०२.२९.१४ ।।

 एवं रूप-अग्रं विद्यात् ।। ०२.२९.१५ ।।

 स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ।। ०२.२९.१६ ।।

 पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ।। ०२.२९.१७ ।।

 स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ।। ०२.२९.१८ ।।

 पर-देशीयानां मोक्षयिताअर्धं हरेत् ।। ०२.२९.१९ ।।

 बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ।। ०२.२९.२० ।।

 लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ।। ०२.२९.२१ ।।

 सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ।। ०२.२९.२२ ।।

 सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ।। ०२.२९.२३ ।।

 स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ।। ०२.२९.२४ ।।

 कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ।। ०२.२९.२५ ।।

 मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ।। ०२.२९.२६ ।।

 उदश्वित्-श्व-वराहेभ्यो दद्युः ।। ०२.२९.२७ ।।

 कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ।। ०२.२९.२८ ।।

 किलाटो घाण-पिण्याक-क्लेद-अर्थः ।। ०२.२९.२९ ।।

 पशु-विक्रेता पादिकं रूपं दद्यात् ।। ०२.२९.३० ।।

 वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ।। ०२.२९.३१ ।।

 द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ।। ०२.२९.३२ ।।

 दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ।। ०२.२९.३३ ।।

 एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ।। ०२.२९.३४ ।।

 क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ।। ०२.२९.३५ ।।

 मन्थो वा सर्वेषां प्रमाणं ।। ०२.२९.३६ ।।

 भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ।। ०२.२९.३७ ।।

 यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ।। ०२.२९.३८ ।।

 वर्ण-अवरोधेन दशती रक्षा ।। ०२.२९.३९ ।।

 उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ।। ०२.२९.४० ।।

 अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ।। ०२.२९.४१ ।।

 तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ।। ०२.२९.४२ ।।

 बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ।। ०२.२९.४३ ।।

 पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ।। ०२.२९.४४ ।।

 कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ।। ०२.२९.४५ ।।

 सर्वेषां तृण-उदक-प्राकाम्यं ।। ०२.२९.४६ ।।

 इति गो-मण्डलं व्याख्यातं ।। ०२.२९.४७ ।।

 पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ।। ०२.२९.४८अ ब ।।

 शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ।। ०२.२९.४८च्द् ।।