अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २७ अर्थशास्त्रम्
अध्यायः २८
कौटिलीय:
अध्यायः २९ →

 नाव्-अध्यक्षः समुद्र-सम्यान-नदी-मुखतर-प्रचारान्देव-सरो-विसरो-नदी-तरांश्च स्थानीय-आदिष्ववेक्षेत ।। ०२.२८.०१ ।।

 तद्-वेला-कूल-ग्रामाः क्लृप्तं दद्युः ।। ०२.२८.०२ ।।

 मत्स्य-बन्धका नौका-भाटकं षड्-भागं दद्युः ।। ०२.२८.०३ ।।

 पत्तन-अनुवृत्तं शुल्क-भागं वणिजो दद्युः । यात्रा-वेतनं राज-नौभिः सम्पतन्तः ।। ०२.२८.०४ ।।

 शङ्ख-मुक्ता-ग्राहिणो नौ-भाटकं दद्युः । स्व-नौभिर्वा तरेयुः ।। ०२.२८.०५ ।।

 अध्यक्षश्चएषां खन्य्-अध्यक्षेण व्याख्यातः ।। ०२.२८.०६ ।।

 पत्तन-अध्यक्ष-निबद्धं पण्य-पत्तन-चारित्रं नाव्-अध्यक्षः पालयेत् ।। ०२.२८.०७ ।।

 मूढ-वात-आहता नावः पिताइवानुगृह्णीयात् ।। ०२.२८.०८ ।।

 उदक-प्राप्तं पण्यं अशुल्कं अर्ध-शुल्कं वा कुर्यात् ।। ०२.२८.०९ ।।

 यथा-निर्दिष्टाश्चएताः पण्य-पत्तन-यात्रा-कालेषु प्रेषयेत् ।। ०२.२८.१० ।।

 सम्यातीर्नावः क्षेत्र-अनुगताः शुल्कं याचेत् ।। ०२.२८.११ ।।

 हिंस्रिका निर्घातयेत् । अमित्र-विषय-अतिगाः पण्य-पत्तन-चारित्र-उपघातिकाश्च ।। ०२.२८.१२ ।।

 शासक-निर्यामक-दात्र--रश्मि-ग्राहक-उत्सेचक-अधिष्ठिताश्च महा-नावो हेमन्त-ग्रीष्म-तार्यासु महा-नदीषु प्रयोजयेत् । क्षुद्रिकाः क्षुद्रिकासु वर्षा-स्राविणीषु ।। ०२.२८.१३ ।।

 बाध-तीर्थाश्चएताः कार्या राज-द्विष्ट-कारिणां तरण-भयात् ।। ०२.२८.१४ ।।

 अकालेअतीर्थे च तरतः पूर्वः साहस-दण्डः ।। ०२.२८.१५ ।।

 काले तीर्थे चानिषृष्ट-तारिणः पाद-ऊन-सप्त-विंशति-पणस्तर-अत्ययः ।। ०२.२८.१६ ।।

 कैवर्तक-अष्ट-तृण-भार-पुष्प-फल-वाट-षण्ड-गो-पालकानां अनत्ययः । सम्भाव्य-दूत-अनुपातिनां च सेना-भाण्ड-प्रयोगाणां च स्व-तरणैस्तरताम् । बीज-भक्त-द्रव्य-उपस्करांश्चऽनूप-ग्रामाणां तारयतां ।। ०२.२८.१७ ।।

 ब्राह्मण-प्रव्रजित-बाल-वृद्ध-व्याधित-शासन-हर-गर्भिण्यो नाव्-अध्यक्ष-मुद्राभिस्तरेयुः ।। ०२.२८.१८ ।।

 कृत-प्रवेशाः पारविषयिकाः सार्थ-प्रमाणा वा प्रविशेयुः ।। ०२.२८.१९ ।।

 परस्य भार्यां कन्यां वित्तं वाअपहरन्तं शवित्तं वाअपहरन्तं शङ्कितं आविग्नं उद्भाण्डी-कृतं महा-भाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्यो-गृहीत-लिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्य-व्याधितं भय-विकारिणं गूढ-सार-भाण्ड-शासन-शस्त्र-अग्नियोगं विष-हस्तं दीर्घ-पथिकं अमुद्रं चौपग्राहयेत् ।। ०२.२८.२० ।।

 क्षुद्र-पशुर्मनुष्यश्च स-भारो माषकं दद्यात् । शिरो-भारः काय-भारो गवाश्वं च द्वौ । उष्ट्र-महिषं चतुरः । पञ्च लभुयानम् । षड्गोलिङ्गम् । सप्त शकटम् । पन्य-भारः पादं ।। ०२.२८.२१ ।।

 तेन भाण्ड-भारो व्याख्यातः ।। ०२.२८.२२ ।।

 द्वि-गुणो महा-नदीषु तरः ।। ०२.२८.२३ ।।

 क्लृप्तं आनूप-ग्रामा भक्त-वेतनं दद्युः ।। ०२.२८.२४ ।।

 प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्र-द्रव्यस्य भाण्डं हरेयुः । अतिभारेणावेलायां अतिर्थे तरतश्च ।। ०२.२८.२५ ।।

 पुरुष-उपकरण-हीनायां असंस्कृतायां वा नावि विपन्नायां नाव्-अध्ह्यक्षो नष्टं विनष्टं वाअभ्यावहेत् ।। ०२.२८.२६ ।।

 सप्त-अह-वृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः । ।। ०२.२८.२७अ ब ।।

 कार्मिकः प्रत्ययं दद्यान्नित्यं चऽह्निकं आवहेत् ।। ०२.२८.२७च्द् ।।