सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ अर्थशास्त्रम्
अध्यायः २७
कौटिलीय:
अध्यायः २८ →

 गणिका-अध्यक्षो गणिका-अन्वयां अगणिका-अन्वयां वा रूप-यौवन-शिल्प-सम्पन्नां सहस्रेण गणिकां कारयेत् । कुटुम्ब-अर्धेन प्रतिगणिकां ।। ०२.२७.०१ ।।

 निष्पतिता-प्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत । माता वा प्रतिगणिकां स्थापयेत् ।। ०२.२७.०२ ।।

 तासां अभावे राजा हरेत् ।। ०२.२७.०३ ।।

 सौभाग्य-अलंकार-वृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाआरोपयेत्छत्र-भृङ्गार-व्यजन-शिबिका-पीठिका-रथेषु च विशेष-अर्थं ।। ०२.२७.०४ ।।

 सौभाग्य-भङ्गे मातृकां कुर्यात् ।। ०२.२७.०५ ।।

 निष्क्रयश्चतुर्-विंशति-साहस्रो गणिकायाः । द्वादश-साहस्रो गणिका-पुत्रस्य ।। ०२.२७.०६ ।।

 अष्ट-वर्षात्प्रभृति राज्ञः कुशीलव-कर्म कुर्यात् ।। ०२.२७.०७ ।।

 गणिका-दासी भग्न-भोगा कोष्ठ-अगारे महानसे वा कर्म कुर्यात् ।। ०२.२७.०८ ।।

 अविशन्ती सपाद-पणं अवरुद्धा मास-वेतनं दद्यात् ।। ०२.२७.०९ ।।

 भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत् । अति-व्यय-कर्म च वारयेत् ।। ०२.२७.१० ।।

 मातृ-हस्तादन्यत्र अभरण-न्यासे स-पाद-चतुष्-पणो दण्डः ।। ०२.२७.११ ।।

 स्वापतेयं विक्रयं आधानं वा नयन्त्याः स-पाद-पञ्चाशत्-पणः पणोअर्ध-पण-च्छेदने ।। ०२.२७.१२ ।।

 अकामायाः कुमार्या वा साहसे उत्तमो दण्डः । स-कामायाः पूर्वः साहस-दण्डः ।। ०२.२७.१३ ।।

 गणिकां अकामां रुन्धतो निष्पातयतो वा व्रण-विदारणेन वा रूपं-उपघ्नतः सहस्रं दण्डः ।। ०२.२७.१४ ।।

 स्थान्-विशेषेण वा दण्ड-वृद्धिः आ-निष्क्रय-द्वि-गुणात् ।। ०२.२७.१५ ।।

 प्राप्त-अधिकारं गणिकां घतयतो निष्क्रय-त्रि-गुणो दण्डः ।। ०२.२७.१६ ।।

 मातृका-दुहितृका-रूप-दासीनां घाते उत्तमः साहस-दण्डः ।। ०२.२७.१७ ।।

 सर्वत्र प्रथमेअपराधे प्रथमः । द्वितीये द्वि-गुणः । तृतीये त्रि-गुणः । चतुर्थे यथा-कामी स्यात् ।। ०२.२७.१८ ।।

 राज-आज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफा-सहस्रं लभीत । पञ्च-सहस्रं वा दण्डः ।। ०२.२७.१९ ।।

 भोगं गृहीत्वा द्विषत्या भोग-द्वि-गुणो दण्डः ।। ०२.२७.२० ।।

 वसति-भोग-अपहारे भोगं अष्ट-गुणं दद्यादन्यत्र व्याधि-पुरुष-दोषेभ्यः ।। ०२.२७.२१ ।।

 पुरुषं घ्नत्याश्चिता-प्रतापेअप्सु प्रवेशनं वा ।। ०२.२७.२२ ।।

 गणिका-भरणं अर्थं भोगं वाअपहरतोअष्ट-गुणो दण्डः ।। ०२.२७.२३ ।।

 गणिका भोगं आयतिं पुरुषं च निवेदयेत् ।। ०२.२७.२४ ।।

 एतेन नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलव-प्लवक-सौभिक-चारणानां स्त्री-व्यवहारिणां स्त्रियो गूढ-आजीवाश्च व्याख्याताः ।। ०२.२७.२५ ।।

 तेषां तूर्यं आगन्तुकं पञ्च-पणं प्रेक्षा-वेतनं दद्यात् ।। ०२.२७.२६ ।।

 रूप-आजीवा भोग-द्वय-गुणं मासं दद्युः ।। ०२.२७.२७ ।।

 गीत-वाद्य-पाठ्य-नृत्य-नाट्य-अक्षर-चित्र-वीणा-वेणु-मृदङ्ग-पर-चित्त-ज्ञान-गन्ध-माल्य-सम्यूहन-संवादन-संवाहन-वैशिक-कला-ज्ञानानि गणिका दासी रङ्ग-उपजीविनीश्च ग्राहयतो राज-मण्डलादाजीवं कुर्यात् ।। ०२.२७.२८ ।।

 गणिका-पुत्रान्रङ्ग-उपजीविनां च मुख्यान्निष्पादयेयुः । सर्व-ताल-अवचराणां च ।। ०२.२७.२९ ।।

 संज्ञा-भाषा-अन्तरज्ञाश्च स्त्रियस्तेषां अनात्मसु । ।। ०२.२७.३०अ ब ।।

 चार-घात-प्रमाद-अर्थं प्रयोज्या बन्धु-वाहनाः ।। ०२.२७.३०च्द् ।।