अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ अर्थशास्त्रम्
अध्यायः २६
कौटिलीय:
अध्यायः २७ →

 सूना-अध्यक्षः प्रदिष्ट-अभयानां अभय-वन-वासिनां च मृग-पशु-पक्षि-मत्स्यानां बन्ध-वध-हिंसायां उत्तमं दण्डं कारयेत् । कुटुम्बिनां अभय-वन-परिग्रहेषु मध्यमं ।। ०२.२६.०१ ।।

 अप्रवृत्त-वधानां मत्स्य-पक्षिणां बन्ध-वध-हिंसायां पाद-ऊन-सप्त-विंशति-पणं अत्ययं कुर्यात् । मृग-पशूनां द्वि-गुणं ।। ०२.२६.०२ ।।

 प्रवृत्त-हिंसानां अपरिगृहीतानां षड्-भागं गृह्णीयात् । मत्स्य-पक्षिणां दश-भागं वाअधिकम् । मृग-पशूनां शुल्कं वाअधिकं ।। ०२.२६.०३ ।।

 पक्षि-मृगाणां जीवत्षड्-भागं अभय-वनेषु प्रमुञ्चेत् ।। ०२.२६.०४ ।।

 सामुद्र-हस्त्य्-अश्व-पुरुष-वृष-गर्दभ-आकृतयो मत्स्याः सारसा नऽदेयास्तटाक-कुल्या-उद्भवा वा क्रौञ्च-उत्क्रोशक-दात्यूह-हंस-चक्रवाक-जीवन्-जीवक-भृङ्ग-राज-चकोर-मत्त-कोकिल-मयूर-शुक-मदन-शारिका विहार-पक्षिणो मङ्गल्याश्चान्येअपि प्राणिनः पक्षि-मृगा हिंसा-बाधेभ्यो रक्ष्याः ।। ०२.२६.०५ ।।

 रक्षा-अतिक्रमे पूर्वः साहस-दण्डः ।। ०२.२६.०६ ।।

 मृग-पशूनां अनस्थि-मांसं सद्यो-हतं विक्रीणीरन् ।। ०२.२६.०७ ।।

 अस्थिमतः प्रतिपातं दद्युः ।। ०२.२६.०८ ।।

 तुला-हीने हीन-अष्ट-गुणं ।। ०२.२६.०९ ।।

 वत्सो वृषो धेनुश्चएषां अवध्याः ।। ०२.२६.१० ।।

 घ्नतः पञ्चाशत्को दण्डः । क्लिष्ट-घातं घातयतश्च ।। ०२.२६.११ ।।

 परिशूनं अशिरः-पाद-अस्थि विगन्धं स्वयं-मृतं च न विक्रीणीरन् ।। ०२.२६.१२ ।।

 अन्यथा द्वादश-पणो दण्डः ।। ०२.२६.१३ ।।

 दुष्टाः पशु-मृग-व्याला मत्स्यश्चाभय-चारिणः । ।। ०२.२६.१४अ ब ।।

 अन्यत्र गुप्ति-स्थानेभ्यो वध-बन्धं अवाप्नुयुः ।। ०२.२६.१४च्द् ।।