अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ अर्थशास्त्रम्
अध्यायः २५
कौटिलीय:
अध्यायः २६ →

 सुरा-अध्यक्षः सुरा-किण्व-व्यवहारान्दुर्गे जन-पदे स्कन्ध-आवारे वा तज्-जात-सुरा-किण्व-व्यवहारिभिः कारयेद् । एक-मुखं अनेक-मुखं वा विक्रय-क्रय-वशेन वा ।। ०२.२५.०१ ।।

 षट्-शतं अत्ययं अन्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.२५.०२ ।।

 ग्रामादनिर्णयणं असम्पातं च सुरायाः । प्रमाद-भयात्कर्मसु ञ्जिर्दिष्टानाम् । मर्याद-अतिक्रम-भयादार्याणाम् । उत्साह-भयाच्च तीष्क्णानां ।। ०२.२५.०३ ।।

 लक्षितं अल्पं वा चतुर्-भागं अर्ध-कुडुबं कुडुबं अर्ध-प्रस्थं प्रस्थं वाइति ज्ञात-शौचा निर्हरेयुः ।। ०२.२५.०४ ।।

 पान-अगारेषु वा पिबेयुरसंचारिणः ।। ०२.२५.०५ ।।

 निक्षेप-उपनिधि-प्रयोग-अपहृतानां अनिष्ट-उपगतानां च द्रव्याणां ज्ञान-अर्थं अस्वामिकं कुप्यं हिरण्यं चौपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद् । अतिव्यय-कर्तारं अनायति-व्ययं च ।। ०२.२५.०६ ।।

 न चानर्घेण कालिकां वा सुरां दद्याद् । अन्यत्र दुष्ट-सुरायाः ।। ०२.२५.०७ ।।

 तां अन्यत्र विक्रापयेत् ।। ०२.२५.०८ ।।

 दास-कर्म-करेभ्यो वा वेतनं दद्यात् ।। ०२.२५.०९ ।।

 वाहन-प्रतिपानं सूकर-पोषणं वा दद्यात् ।। ०२.२५.१० ।।

 पान-अगाराण्य्-अनेक-कक्ष्याणि विभक्त-शयन-आसनवन्ति पान-उद्देशानि गन्ध-माल्य-उदकवन्ति ऋतु-सुखानि कारयेत् ।। ०२.२५.११ ।।

 तत्रस्थाः प्रकृत्य्-औत्पत्तिकौ व्ययौ गूढा विद्युः । आगन्तूंश्च ।। ०२.२५.१२ ।।

 क्रेतृऋणां मत्त-सुप्तानां अलङ्कारात्छादन-हिरण्यानि च विद्युः ।। ०२.२५.१३ ।।

 तन्-नाशे वणिजस्तच्च तावच्च दण्डं दद्युः ।। ०२.२५.१४ ।।

 वणिजश्स्तु संवृतेषु कक्ष्या-विभागेषु स्व-दासीभिः पेशल-रूपाभिरागन्तूनां वास्तव्यानां चऽर्य-रूपाणां मत्त-सुप्तानां भावं विद्युः ।। ०२.२५.१५ ।।

 मेदक-प्रसन्न-आसव-अरिष्ट-मैरेय-मधूनां ।। ०२.२५.१६ ।।

 उदक-द्रोणं तण्डुलानां अर्ध-आढकं त्रयः प्रस्थाः किण्वस्यैति मेदक-योगः ।। ०२.२५.१७ ।।

 द्वादश-आढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुक-त्वक्-फल-युक्तो वा जाति-सम्भारः प्रसन्ना-योगः ।। ०२.२५.१८ ।।

 कपित्थ-तुला फाणितं पञ्च-तौलिकं प्रस्थो मधुन इत्यासव-योगः ।। ०२.२५.१९ ।।

 पाद्-अधिको ज्येष्ठः पाद-हीनः कनिष्ठः ।। ऊ२.२५.२० ।।

 चिकित्सक-प्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः ।। ऊ२.२५.२१ ।।

 मेष-शृङ्गी-त्वक्-क्वाथ-अभिषुतो गुड-प्रतीवापः पिप्पली-मरिच-सम्भारस्त्रि-फला-युक्तो वा मैरेयः ।। ऊ२.२५.२२ ।।

 गुड-युक्तानां वा सर्वेषां त्रि-फला-सम्भारः ।। य़्२.२५.२३ ।।

 मृद्वीका-रसो मधु ।। ऊ२.२५.२४ ।।

 तस्य स्व-देशो व्याख्यानं कापि-शायनं हार-हूरकं इति ।। उ२.२५.२५ ।।

 माषकलनीद्रोणमामं सिद्धं वा त्रि-भाग-अधिक-तण्डुलं मोरट-आदीनां कार्षिक-भाग-युक्तं किण्व-बन्धः ।। ऊ२.२५.२६ ।।

 पाठा-लोघ्र-तेजोवत्य्-एला-वालुक-मधुक-मधु-रसा-प्रियङ्गु-दारु-हरिद्रा-मरिच-पिप्पलीनां च पञ्च-कार्षिकः सम्भार-योगो मेदकस्य प्रसन्नायाश्च ।। ०२.२५.२७ ।।

 मधुक-निर्यूह-युक्ता कट-शर्करा वर्ण-प्रसादनी च ।। ०२.२५.२८ ।।

 चोच-चित्रक-विलङ्ग-गज-पिप्पलीनां च कार्षिकः क्रमुक-मधुक-मुस्ता-लोध्राणां द्वि-कार्षिकश्चऽसव-सम्भारः ।। ०२.२५.२९ ।।

 दश-भागश्चएषां बीज-बन्धः ।। ०२.२५.३० ।।

 प्रसन्ना-योगः श्वेत-सुरायाः ।। ०२.२५.३१ ।।

 सहकार-सुरा रस-उत्तरा बीज-उत्तरा वा महा-सुरा सम्भारिकी वा ।। ०२.२५.३२ ।।

 तासां मोरटा-पलाश-पत्तूर-मेष-शृङ्गी-करञ्ज-क्षीर-वृक्ष-कषाय-भावितं दग्ध-कट-शर्करा-चूर्णं लोघ्र-चित्रक-विलङ्ग-पाठा-मुस्ता-कलिङ्ग-यव-दारु-हरिद्र-इन्दीवर-शत-पुष्प-अपामार्ग-सप्त-पर्ण-निम्ब-आस्फोत-कल्क-अर्ध-युक्तं अन्तर्-नखो मुष्टिः कुम्भीं राज-पेयां प्रसादयति ।। ०२.२५.३३ ।।

 फाणितः पञ्च-पलिकश्चात्र रस-वृद्धिर्देयः ।। ०२.२५.३४ ।।

 कुटुम्बिनः कृत्येषु श्वेत-सुराम् । औषध-अर्थं वारिष्टम् । अन्यद्वा कर्तुं लभेरन् ।। ०२.२५.३५ ।।

 उत्सव-समाज-यात्रासु चतुर्-अहः सौरिको देयः ।। ०२.२५.३६ ।।

 तेष्वननुज्ञातानां प्रहवन-अन्तं दैवसिकं अत्ययं गृह्णीयात् ।। ०२.२५.३७ ।।

 सुरा-किण्व-विचयं स्त्रियो बालाश्च कुर्युः ।। ०२.२५.३८ ।।

 अराज-पण्याः पञ्चकं शतं शुल्कं दद्युः । सुरका-मेदक-अरिष्ट-मधु-फल-आम्ल-आम्ल-शीधूनां च ।। ०२.२५.३९ ।।

 अह्नश्च विक्रयं ज्ञात्वा व्याजीं मान-हिरण्ययोः । ।। ०२.२५.४०अ ब ।।

 तथा वैधरणं कुर्यादुचितं चानुवर्तयेत् ।। ०२.२५.४०च्द् ।।